________________
(=10) अभिधानराजेन्द्रः ।
वणीमग
पञ्चप्रकाराः भ्रमणा भवन्ति, एतेषां च यथायोगं गृहिगृहेषु समागतानां परिवेषणे - भोजनप्रदाने क्रियमाणे सति कोऽन्याहारलम्पटः साधुर्लोभेनाहारादिलुब्धतया वनति-शा क्यादिभक्तमात्मानं दर्शयति तद्भक्तगृहिणः पुरन इति सामगम्यम् । इह प्रायः शाक्या गैरुका वा गृहिगृहेषु भुञ्जते ततस्तान् भुञ्जानानधिकृत्य यथा साधुर्वनीपकत्वं कुरुते तथादर्शयति
भुंजंति चित्तकम्मं, ठिया व कारुणियदाणरुहणोत्रा । अभिकामगद्दहेसु वि, न नस्सई किं पुण जईसु ||४४६|| एवं नाम निश्चला भगवन्तोऽमी शाक्यादयो भुञ्जते यथा चित्रकर्मलिखिता इव भुञ्जाना लक्ष्यन्ते, तथापरमकारुणिका पते दानरुचयश्च तत एतेभ्योऽवश्यं भोजनं दातव्यम् । श्रपि च - कामगईभेष्वपि मैथुने गर्दभेष्विवातिप्रसक्तेषु ब्राह्मणेष्विति गम्यते । दत्तं न नश्यति किं पुनरमीषु शाक्यादिषु एतेभ्यो दत्तमतिशयेन बहुफलमिति भावः । तस्माद्दातव्यमेतेभ्यो विशेषतः । अत्र दोषान् दर्शयति
मिच्छत्तथिरीकरणं, उग्गमदोसा य तेसु वा गच्छे । चडुकार दिन्नदाणा, पच्चत्थिग मा पुगो इंतु ॥ ४४७॥ एवं हि शाक्यादिप्रशंसने लोके मिथ्यात्वं स्थिरीकृतं भवति, तथाहि - साधवोऽप्यमून् प्रशंसन्ति तस्मादेतेषां धर्मः सत्य इति । तथा यदि भक्का भद्रका भवेयुः तत इत्यं साधुप्रशंसामुपलभ्य तद्योग्यमाधाकर्मिकादिसमा - चरेयुः । ततस्तमुग्धतया कदाचित् साधुवेषमपहाय तेषुशाक्यादिषु गच्छेयुः । तथा लोके चाटुकरणयुते जन्मान्तरेऽप्यरत्तदाना श्राहाराद्यर्थ श्वान इवात्मानं दर्शयन्तिइत्यवर्णवादः, यदि पुनः शाक्यादयः शाक्यादिभक्का वा प्रत्यर्थिकाः --- प्रत्यनीका भवेयुस्ततः प्रद्वेषतः प्रशंसावचनमयज्ञायेत्थं ब्रूयुः मा पुनरत्र भवन्त श्रायान्विति । ब्राह्मणभक्तानां पुरतो ब्राह्मणप्रशंसारूपं वनीपकत्वं यथा करोति तथा दर्शयति-लोयाग्गहकारिसु, भूमीदेवेसु बहुफलं दाणं । अवि नाम बंभबंधु, किं पुरा छकम्मनिरएसु ||४४८ || fuesप्रदानादिना लोकोपकारिषु भूमिदेवेषु ब्राह्मणेषु श्रपि नाम ब्रह्मबन्धुष्वपि जातिमात्रब्राह्मणेष्वपि दानं दीयमानं बहुफलं भवति किं पुनर्यजनयाजनादिरूपपटुर्मनिरतेषु तेषु विशेषतो बहुफलं भविष्यतीति भावः । संप्रति कृपणभक्तानां पुरतः कृपणप्रशंसारूपं वनीपक
त्वं यथा समाचरति तथा प्रतिपादयतिकिविणेसु दुम्मणेय, अबंधवा यंकजुंगियंगेसुं । पाहिजे लोए, दागपडागं हरइ देतो ॥ ४४६ ॥ इह लोकः पूजाहार्य:- पूजया हियते - श्रावर्त्यते इति पूजाहार्यः, पूजितपूजको न कोऽपि कृपणादिभ्यो ददाति ततः कृपणेषु तथा इष्टवियोगादिना दुर्मनस्तु तथा श्रवान्धवेषु तथा श्रातङ्को-ज्वरांदिस्तद्योगादातङ्किनोऽप्यावास्तेषु तथा जुङ्गिताङ्गेषु च कर्त्तितहस्तपादाद्यत्रयत्रेषु
२०५
Jain Education International
For Private
वलीमग निराकाङ्क्षता ददस्मिन् लोके दानपताकां हरति गृहाति ॥ साम्प्रतमतिथिभक्तानां पुरतोऽतिथिप्रशंसारूपं बनीपकत्वं यथा साधुर्विदधाति तथा दर्शयतिपाएण देह लोगो, उबगारिसु परिचिएस झुसिए वा । जो पुण श्रद्धाखिनं, अतिहिं पूएइ तं दाणं ।। ४५० ॥ इह प्रायेण लोक उपकारिषु यद्वा-परिचितेषु यदिवा श्रध्युषिते - श्राश्रिते ददाति भक्तादि, यः पुनरध्वखिन्नमतिथि पूजयति तदेव दानं जगति प्रधानमिति शेषः । अधुना शुनां भक्तानां पुरतः शुनकप्रशंसारूपं वनीपकत्वं कुवन् यति तदुपदर्शयति
अवि नाम होज सुलभो, गोणाईणं तणाइ आहारो । faraकारयाणं, ण हु सुलहो होइ सुणगाणं ॥। ४५१ ।। केलासभवणा एए, आगया गुज्झगा महिं । चरंति जक्खरूवेण, पूयाऽपूया हियाऽहिया ।। ४५२ ।। श्रपि नाम गवादीनां तृणादिक आहारो भवेत् सुलभः, foresareeतानां त्वमीषां शुनां न तु कदाचनाऽपि भवति सुलभः, तत एतेभ्यो यहीयते तदेव बहुफलमिति भावः, अपि च- नैते श्वानः श्वान एव किं तु गुह्यका देवविशेषाः कैलासभवनात् - कैलास पर्वतरूपादाश्रयादागत्य महीं - पृथि वीं यक्षरूपेण श्वाकृत्या चरन्ति तत एतेषां पूजाऽपूजा व यथासंख्यं हिता श्रहिता चेति ।
संप्रति ब्राह्मणादिविषयवनीपकत्वे दोषानाहएएण मज्झभावो, दिट्ठो लोए पणामहेजम्मि | एकेके पुत्ता, भद्दगपंताइणो दोसा ।। ४५३ ।। एतेन - अनेन साधुना 'मज्झ' मदीयो भावो - भक्तत्वलक्षणो दृष्टोऽवगतो लोके - ब्राह्मणादौ किं विशिष्टे ? इत्याह- प्रणामहायें प्रणामः -- प्रणमनं तेन, उपलक्षणमेतत् दानादिना च हायें-- श्रावर्जनीये, तत एकैकस्मिन् ब्राह्मणादिविषये वनीयकत्वे पूर्वोक्ता भद्रकप्रान्तादयो दोया भावनीयाः । किमुक्तं भवति-यदि भद्रकस्तर्हि प्रशंसावचनतो वशीकृत श्राधाकर्मादि कृत्वा प्रयच्छति, अथ प्रान्तस्तर्हि गृहनिष्काशनादि करोति । इह प्राक' साखे पुण होर पंचमए' इत्युक्तम्, तत्र साणग्रहणं काकादीनामुपलक्षणम् तेन काकादिष्वपि बनीपकत्वं द्रष्टव्यम् ।
तथा चाऽऽह -
मेव कागमाई, साणग्गहणेण सूइया होंति ।
जो वा जम्म पत्तो, वणइ तहिं पुट्ठऽपुट्ठो वा ।। ४५४ ।। एवमेव वनीपकत्वप्ररूपणाविषयत्वेन भ्वग्रहणेन काकादयोऽपि सूचिता भवन्ति, ततस्तत्रापि वनीपकत्वं भावनीयम् । एतदेव व्याप्तिपुरस्सरमाह--यो वा यत्र काकादी पूजकत्वेन प्रसक्तस्तत्र काकादिस्वरूपं पृष्टोऽपृष्टो वा वनतिप्रशंसाद्वारेणात्मानं भक्तं दर्शयति ।
सम्प्रति वनीपकत्वं कुर्वतः साधोर्युक्त्या दोषगरीयस्त्वं प्रकटयति
दाणं न होइ अफलं, पत्तमपत्तेसु सन्निजुजंतं । इय विभणिए वि दोसा, पसंसओ किं पुण अपत्ते । ४५५ ।
Personal Use Only
www.jainelibrary.org