________________
मग्ग
( ४४ ) अभिधानराजेन्द्रः ।
तदेवमहिंसाप्रधानः समयः - आगमः संकेतो वोपदेशरूपस्तमेवंभूतमहिंसासमयमेतावन्तमेव विज्ञाय किमन्येन बहुना परिज्ञानेन ? एतावतैव परिज्ञानेन मुमुक्षोर्विवक्षितकारिसमातेरतो न हिंस्यात्कञ्चनेति ॥ १० ॥ साम्प्रतं क्षेत्रप्राणातिपातमधिकृत्याऽऽह -- ऊर्ध्वमधस्तिर्यक् च ये केचन त्रसा:-तेजोवायु द्वीन्द्रियाऽऽदयः तथा स्थावराः - पृथिव्यादयः, किं बहुनो न ?,' सर्वत्र' प्राणिनि त्रसस्थावर सूक्ष्मबादरभेदभिन्ने 'विरतिं' प्राणातिपातनिवृत्ति 'विजानीयात् ' कुर्यात्, परमार्थत एवमेवासौ ज्ञाता भवति यदि सम्यक् क्रियत इति, एषैव च प्राणातिपातनिवृत्तिः परेषामात्मनश्च शान्तिहेतुत्वाच्छान्तिर्वर्तते, यतो विरतिमतो नान्ये केचन बिभ्यति नाप्यसौ भवान्तरेऽपि कुतश्चिद्विभेति, अपि च-निर्वाणप्रधानैककारणत्वानिर्वाणमपि प्राणातिपातनिवृत्तिरेव, यदि वा - शान्तिःउपशान्तता, निर्वृतिः - निर्वाण विरतिमांश्चाऽऽर्तरौद्रध्याना भावादुपशान्तिरूपो निर्वृतिभूतश्च भवति ॥ १९ ॥ किञ्चा - न्यत् - इन्द्रियाणां प्रभवतीति प्रभुर्वश्येन्द्रिय इत्यर्थः, यदि वा - संयमाssवारकाणि कर्माण्यभिभूय मोक्षमार्गे पालयितव्ये प्रभुः समर्थः, स एवंभूतः प्रभुः दूषयन्तीति दोषा मिथ्यात्वाविरतिप्रमादकषाययोगास्तान् ' निराकृत्य' श्र पनीय केनापि प्राणिना सार्धं न विरुध्येत न केनचित्सह विरोधं कुर्यात् त्रिविधेनापि योगेनेति मनसा वाचा कायेन चैवान्तशो- यावज्जीवं परापकारक्रियया न विरोधं कुर्यादिति ॥ १२ ॥
उत्तरगुणानधिकृत्याऽऽह
संबुडे से महापने, धीरे दत्तेसणं चरे । एसणास मिए णिचं, वजयंते असणं ॥ १३ ॥ भूयाई च समारंभ, तमुद्दिस्सा य जं कडं । तारिसं तु गिरजा, अन्नपाणं सुसंजए ॥ १४॥ पूर्वकम्मं न सेविजा, एस धम्मे वसीम । जं किंचि अभिकखेजा, सव्त्रसो तं न कप्पए । १५ ॥ हणतं खाणुजाणेज्जा, श्रयगुत्ते जिइंदिए । ठाणाई संति सड्डी, गामेसु नगरेसु वा ॥ १६ ॥ श्राश्रवद्वाराणां रोधेनेन्द्रियनिरोधेन च संवृतः स भिक्षुर्महती प्रज्ञा यस्यासौ महाप्रज्ञो विपुलबुद्धिरित्यर्थः, तदनेन जीवा जीवाऽऽदिपदार्थाभिशताssवेदिता भवति, 'धीरः' अक्षोभ्यः, क्षुत्पिपासाऽऽदिपरी पहैर्न क्षोभ्यते, तदेव दर्शयति- आहारोपधिशय्या ssदिके स्वस्वामिना तत्संदिष्टेन वा दत्ते सत्येषणां चरति एषणीयं गृह्णातीत्यर्थः, एषणाया एषणायां वा गवेषणहणग्रासरूपायां त्रिविधायामपि सम्यगितः समितः, स साधुर्नित्यमेषणासमितः सन्ननेषणां वर्जयन् परित्यजन्संयममनुपालयेत् उपलक्षणार्थत्वादस्य शेषाभिरपीर्यासमित्यादिभिः समितो द्रष्टव्य इति ॥ १३ ॥ श्रनेपणीयपरिहारमधिकृत्याऽऽहअभूवन् भवन्ति, भविष्यन्ति च प्राणिनस्तान भूतानि प्राणि. नः 'समारभ्य' संरम्भसमारम्भाऽऽरम्भैरुपतापयित्वा तं साधु म्' उद्दिश्य' साध्वर्थे यत्कृतं तदुपकल्पितमाहारोपकरणाऽऽदिकं 'तादृशम् 'आधाकर्मदोषदुष्टं सुसंयतः सुतपस्वी तदन्नं पानकं वा न भुञ्जीत तुशब्दस्यैवकारार्थत्वात्रैवाभ्यवहरेद्, एवं तेन मार्गोऽनुपालितो भवति ॥ १४ ॥ किञ्च -आधाक
Jain Education International
For Private
मग्ग
ssद्यविशुद्धकोट्यवयवेनापि संपृक्तं पूतिकर्म, तदेवम्भूतमाहाराssदिकं 'न सेवेत' नोपभुञ्जीत, एषः अनन्तरोक्को धर्मः कल्पः स्वभावः 'बुसीमा त्ति' सम्यक्संयमवतोऽयमेवानुष्ठानकल्पो यदुताशुद्धमाहाराऽऽदिकं परिहरतीति, किञ्च यदयशुद्धत्वेनाभिकाङ्गेत्-शुद्धमप्यशुद्धत्वेनाभिशङ्केत किञ्चिदप्याहाराऽऽदिकं तत्, 'सर्वशः' सर्वप्रकारमप्याहारोपकरणपूतिकभोन कल्पत इति ॥ १५॥ किञ्चान्यत्-धर्मश्रद्धावतां ग्रामेषु नगरेषु वा खेटकर्बाऽऽदिषु वा 'स्थानानि' श्राश्रयाः सन्ति' विद्यन्ते तत्र तत्स्थाना ऽऽश्रितः कश्चिद्धर्मोपदेशेन किल धर्मश्रद्धालुतया प्राण्युपमर्दकारिणी धर्मबुद्धया कूपतडागखननप्रपासत्राऽऽदिकां क्रियां कुर्यात् तेन च तथाभूतक्रियायाः aa किमत्र धर्मोऽस्ति नास्तीत्येवं पृष्टोऽपृष्टो वा तदुपरोधाद्भयाद्वा तं प्राणिनो घ्नन्तं नानुजानीयात् किंभूतः ? सन्?- 'आत्मना' मनोवाक्कायरूपेण गुप्त श्रात्मगुप्तः तथा 'जितेन्द्रियों' वश्येन्द्रियः सावधानुष्ठानं नानुमन्येत ॥ १३ ॥
सावद्यानुष्ठानानुमतिं परिहर्तुकाम आह तहा गिरं समारम्भ, अत्थि पुराणं ति णो वए ।
हवा गत्थि पुराणं ति एवमेयं महन्भयं ॥ १७ ॥ दाsयाय जे पाणा, हम्मंती तसथावरा ।
संसारक्खट्ठाए, तम्हा अस्थि त्ति णो वए ॥ १८ ॥ जेसिं तं उवकप्पंति, अन्नपाणं तहाविहं । तेसि लाभतरायं ति, तम्हा सत्थि त्ति णो वए ॥ १६ ॥ जे य दाणं पसंसंति, वहमिच्छंति पाणिणं । जे यस पडिसेहंति, वित्तिच्छेयं करंति ते ॥ २० ॥
केनचिद्राजाऽऽदिना कूपखनन सत्रदानाऽऽदिप्रवृत्तेन पृष्टः साधुः - किमस्मादनुष्ठाने अस्ति पुण्यमाहोस्विन्नास्तीति ?, एवंभूतां गिरं' समारभ्य' निशम्याऽऽश्रित्य अस्ति पुण्यं नास्ति घेत्येवमुभयथाऽपि महाभयमिति मत्वा दोषहेतुत्वेम नानुमन्येत ॥ १७ ॥ किमर्थं नानुमन्येत इत्याह-अन्नपानदानार्थमाहारमुदकं च पचनपाचनाऽऽदिकया कियया कूपखननाSSदिकया चोपकल्पयेत् तत्र यस्माद् ' हन्यन्ते' व्यापाद्यन्ते नसाः स्थावराश्च जन्तवः तस्मात्तेषां ' रक्षणार्थ' रक्षानिमित्तं साधुरात्मगुप्तो जितेन्द्रियोऽत्र भवदीयानुष्टाने पुण्यमित्येवं नो वदेदिति ॥ १८ ॥ यद्येवं नास्ति पुण्यमिति ब्रूयात्, तदेतदपि ब्रूयादित्याह - ' येषां जन्तूनां कृते ' तद्' अन्नपानाऽऽदिकं किल धर्मबुद्धया ' उपकल्पयन्ति ' तथाविधं प्राण्युपमर्ददोषदुष्टं निष्पादयन्ति तनिषेधे च यस्मात् ' तेषाम् ' आहारपानार्थिनां ततः ''लाभान्तरायो' विघ्नो भवेत्, तदभावेन तु ते पीडयेरन्, तस्मात्कृपखननसत्राऽऽदिके कर्मणि नास्ति पुण्यमित्येतदपि न वदेदिति ॥ १६ ॥ एनमेवार्थं पुनरपि समासतः स्पष्टतरं विभणिपुराह-ये केचन प्रपासत्राऽऽदिकं दानं बहूनां जन्तूनामुपकारीति कृत्वा 'प्रशंसन्ति ' श्लाघते ' ते ' परमार्थानभिज्ञाः प्रभूततरप्राणिनां तत्प्रशंसाद्वारेण ' वधं ' प्राणातिपातमिच्छन्ति, तद्दानस्य प्राणातिपातमन्तरेणानुपपत्तेः येऽपि च फिल सूक्ष्मधियो वयमित्येवं मन्यमाना
Personal Use Only
www.jainelibrary.org