________________
( ६८६ ) श्रभिधान राजेन्द्रः ।
लेसा
परिपाकाव्यभिचारिणा श्रत एवास्वादनीया विशेषतः स्वादनीया विस्वादनीया प्रीणयतीति प्रीणनीया " कृद् बहुल " मिति वचनात् कर्तर्यनीयप्रत्ययः, एवं दर्णयतीति दर्पणीया मदयतीति मदनीया सर्वाणीन्द्रियाणि सर्वच गात्रं प्रह्लादयति इति सर्वेन्द्रियगात्रप्रह्लादनीया एतावत्युक्ते भगवान् गौतम श्राह-' भवेयारूवा ' भगवन् ! एतद्रूपा - एवंरूपरसोपेता पद्मलेश्या भवेत् । भगवानाह - 'नो इट्ठे समट्टे' इत्यादि प्राग्वत् ॥ ' सुक्कलेस्सा गं भंते !' इत्यादि, गुडखण्डे प्रसिद्धे शर्करा - काशादिप्रभवा मत्स्यण्डी - खण्डशर्करा पर्पटमोदकादयः सम्प्रदायादवसेयाः शेषं सुगमम् ॥ तदेवमुक्तो लेश्याद्वव्याणां रसः । प्रज्ञा० १७ पद ४ उ० ।
,
सम्प्रति प्रकारान्तरेण रसमाह
।
जह कडुय (य) तुंबरसो, निंबरसो कडुयराहिणिरसो वा । इत्तो वि अतगुणो, रसो उ करहाइ नायव्वो ॥ १० ॥ जह तिकडुयस्स य रसो, तिक्खो जह हत्थिपिप्पलीए वा । इत्तो वि अतगुणो, रसो उनीलाइ नायव्वो ॥। ११ ॥ जह तरुणअंबयरसो, तुवरकवित्थस्स वावि जारिस । इत्तो वि अणंतगुणो, रसो उ काऊइ गायव्वो ॥१३॥ जह परिणयंत्रगरसो, पक्ककवित्थस्स वावि जारिस इत्तो वि तगुणो, रसो उ तेऊ नायव्वो ।। १३ ॥ वरवारुणी व रसो, विविहाणं व सवाण जारिसयो । महुमेरगस्स व रसो, इत्तो पम्हाइ परएणं ॥ १४ ॥ खज्जूरमुद्दियरसो, खीररसो खंडसकररसो वा । इत्तो उतगुणो, रसो उ सुक्काइ नायव्वो । १५ ॥ ' यथे ' ति सादृश्ये ततश्च याडकू कटुकतुम्बकस्य रसःआस्वादः कटुकतुम्बकरसः निम्बरसः - प्रतीतः कटुका harit रोहिणी च त्वग्विशेषः कटुकरोहिणी कटुकत्वाव्यभिचारित्वेऽपि तद्विशेषणमतिशयख्यापकं तद्रसो वा श्रोपधविशेषो वा कटुकेह गृह्यते, ' यथे ' ति सर्वत्रापेक्षते, इतोऽपि कटुकतुम्बकर सादेरनन्तेन - श्रनन्तराशिना गुणनं गुणो यस्यासावनन्तगुणो रसस्तु - आस्वादः कृष्णाया:कृष्णलेश्यायाः - ज्ञातव्यः - श्रवबोद्धव्यः, अतिकटुक इति तात्पर्यम् । यथा -- यादृशः त्रिकटुकस्य-प्रसिद्धस्य रसस्ती - दणः कटुर्यथा हस्तिपिप्पल्या वा- गजपिप्पल्या वा, श्रतोऽप्यनन्तगुणो रसस्तु नीलायाः शातव्योऽतिशयतीक्ष्ण इति ह. दयम् । यथा तरुणम् अपरिपक्कं तच्च तदास्रकं च श्राम्रफलं तद्रसः, तुवरम् - सकषायम्, पाठान्तरतः - श्रार्द्रत्वाद् उभयत्र चाथदिपकं तच तत्कपित्थं च -- कपित्थफलं तस्य, वाविकल्पे, अपिः- पूरणे, यादृशको रस इति प्रक्रमः । अतोstयनन्तगुणो रसस्तु 'काऊए' त्ति कापोताया ज्ञातव्यः, श्र तिशयकषाया इत्याशयः । यथा परिणतं परिपक्कं यदाम्रकं तसः पक्ककपित्थस्य वाऽपि यादृशको रसोऽतोऽप्यनन्त गुणो रसस्तु' तेऊ ' त्ति तेजोलेश्याया ज्ञातव्यः, आम्लः किञ्चिन्मधुरश्चेत्यैदम्पर्यम् । बरवारुणी - प्रधानसुरा तस्या वा रसो यादक इति योगः, विविधानां वा-नानाप्रकाराणाम् श्रसवानाम् - पुष्पप्रसवमद्यानां वा यादृशको रस
Jain Education International
For Private
लेसा
इति सम्बन्धः, 'महुमेरयस्स व रसो ' त्ति मधु-मद्यविशेषो मैरेयं-सरकस्तयोः समाहारे मधुमैरेयं तस्य वा रसो arrantsतो वरवारुण्यादिरसात्पद्मायाः प्रक्रमाद्रसः' पर
'ति अनन्तानन्तगुणत्वात्तदतिक्रमेण वर्त्तत इति गस्यते, अयं च किञ्चिदम्लकषायो माधुर्यवांश्चेति भावनीयम्, पाठान्तरतो ऽप्यनन्तगुणो रसस्तु पद्मायाः ज्ञातव्यः । खर्जूरं च - पिण्डखर्जूरादि मृद्वीका च- द्राक्षा एतद्रसः तथा क्षीररसः - प्रतीतः खण्डं च - इक्षुविकारः शर्करा च - काशादिप्रभवा तद्रसो वा यादृश इति शेषः, श्रतोऽप्यनन्तगुणो रसस्तु शुक्लाया ज्ञातव्योऽत्यन्तमधुर इति गर्भ इति सूत्रषट्कार्थः । उत्त० ३४ अ० ।
(१४) सम्प्रति लेश्यानां गन्धमाह
कइ णं भंते! लेस्साओ दुब्भिगंधाओ पन्नत्ताओ ?, गोमा ! तो लेस्साओ दुब्भिगंधाओ पमत्ताओ, तं जहा कएहलेस्सा नीललेस्सा काउलेस्सा । कइ णं भंते ! लेस्साओ सुभिगंधा पत्ता १, गोयमा ! तो लेस्साओ सुब्भिगंधाश्रो पत्ताश्रो, तं जहा - तेउलेस्सा पम्हलेस्सा सुक्कलेस्सा । ( सू० २२८ + )
'करणं भंते!' इत्यादि, सुगमम् । नवरम् - कृष्णनीलकापोतलेश्या दुरभिगन्धाः मृतगवादिकलेवरेभ्योऽप्यनन्तगुणदुरभिमन्धोपेतत्वात्, तेजःपद्मशुक्ललेश्याः सुरभिगन्धाः पिष्यमाणगन्धवाससुरभिकुसुमादिभ्यो ऽनन्तगुणपरमसुरभि - गन्धोपेतत्वात् । प्रज्ञा० १७ पद ।
कीडग्मन्धः लेश्यानामत्र दृष्टान्तः
जह गोमडस्स गंधो, सुणगमडस्स व जहा अहिमडस्स । इत्तो वि तगुणो, लेसायं अप्पसत्थां ॥ १६ ॥ जह सुरहिकुसुमगंधो, गंधवासाण पिस्समाणाणं । इत्तो वि श्रणंतगुणो, पसत्थलेसाण तिरहं पि ॥ १७॥ यथा गवां मृतकं - मृतकशरीरं तस्य गन्धः श्वमृतकस्य वा तथा यथा अहि: -- सर्पस्तन्मृतकस्य गन्ध इति सम्ब न्धः, सूत्रत्वान्मृतशब्दे कलोपः श्रतोऽपि एतत्प्रकारादपिगन्धादनन्तगुणोऽतिदुर्गन्धतया लेश्यानाम्, श्रप्रशस्तानाम् श्रशुभानाम्, कोऽर्थः ?- कृष्णनीलका पोतानाम्, गन्ध इति प्रक्रमः इह च लेश्यानामप्रशस्तत्वं गन्धस्याशुभत्वे हेतुरिति तद्विशेषादनुक्को ऽप्यस्य विशेषोऽवगम्यत - ति नोक्तः । यथा सुरभिकुसुमानां जातिकेतक्यादिसम्बन्धिनां सुगन्धपुष्पाणां गन्धः -- परिमलः सुरभिकुसुमगन्धः, तथा गन्धाव - कोष्ठपुटपाकनिष्पन्ना वासाश्च - इतरे गन्धवासाः, इह चैतदङ्गान्येवोपचारादेवमुक्तानि तेषाम्, पाठान्तरतश्च गन्धानां च पिष्यमाणानां - संचूयमानानां यथा गन्ध इति प्रक्रमः, तथा चातिप्रबलतरोऽसौ प्रादुर्भवतीत्येवमभिधानम्, अतोऽपि - एतत्प्रकारादपि गन्धाद् अनन्तगुणः श्रतिशयसुगन्धितया प्रशस्तलेश्यानाम् तिसृणामपि - तैजसी पद्मशुक्लानां गन्ध इति प्रक्रमः, इहापि प्रशस्तत्वविशेषाद्गन्धविशेषोऽनुमीयत इति नोक्त इति सूत्रद्वयार्थः ॥ उत्त० ३४ श्र० ।
Personal Use Only
www.jainelibrary.org