________________
( ६६५ ) अभिधानराजेन्द्रः ।
अथ जीर्णानामदर्शने को दोष इत्यत श्राह पाडच्छगसेहाणं, नाऊ कोऽपि आगमणमाई । दहलेवे विउ पाये, लिंपति मा तेसि दिजिज्जा ।। ४६५ ॥ हवा विविभूसाए, लिंपति जा सेसगाण परिहाणी । अपच्छिणे य दोसा, सेहे काए अनेगाए || ४६६ ॥ कश्चिन्मायी शिष्याणां प्रतीच्छुकानां चागमनं ज्ञात्वा मा तेषां दद्यादिति कृत्वा दृढलेपान्यपि पात्राणि भूयोऽपि लिम्पति, अथवा न शोभनः अग्रेतनो लेप इति विभूषानिमिसमजीलेपमपि पात्रं भूयः कोऽपि लिम्पति । एवं मायया विभूषानिमित्तं वा भाजनेषु तेषु लिप्तेषु या शेषकाणां साधूनां प्रतीच्छुकानां शिष्याणां परिहाणिस्तां समायी विभूषार्थी वा प्राप्नोति । तमेव दर्शयति- ' अपच्छिणे य' इत्याकेचित्प्रतीच्छुकाः समागतास्तद्योग्यानि च पात्राणि न सन्ति लिप्तानि तिष्ठन्तीति कृत्वा तत एवं पात्रैर्विना तेषां प्रतीच्छुकानामप्रतीच्छुने शानदर्शनचारित्रपरिहाणि: 'सेहे काए 'ति तथा शैक्षः कश्चिदुपस्थितोऽथ च भाजनं न विद्यते लिप्तमस्तीति कृत्वा ततो भाजनं विना कथं स प्रवाज्यते इति सोऽप्रवाजितः कार्याविराधनां कुर्यात् सा च तन्निमित्तेति ज्ञानदर्शनचारित्रपरिहाणिप्रत्ययं कायविराधनाप्रत्ययं च प्रायश्चित्तं प्राप्नोति । यत एवमदर्शिते दोषास्तस्मात् जीर्णानि दर्शयेत् ।
अथ केन विधिना लेपस्य ग्रहणादि कर्त्तव्यम् अत आहपुव्व हे गंतू, लेवग्गहणं सुसंवरं काउं ।
लेवस्स आणणा लिं-पणा य जयणाऍ कायव्वा । ४६७ | पूर्वाह्ने लेपनिमित्तं गमनं कृत्वा तत्र यतनया लेपग्रहणं च कृत्वा ततः सुसंवरं भवत्येवं लेपस्य यतनया श्रानयनं कर्त्तव्यम्, श्रानीते च यतनया पात्रस्य लेपना । एनामेव गाथां व्याचिख्यासुराह
पुव्वहे लेवगहणं, काहंति चउत्थगं करिस्सामि । असो वासियभत्तं, श्रकारलंभे व दिंतियरे ।। ४६८ ॥ साधुना प्रतिक्रमणचरमकायोत्सर्गस्थितेन चिन्तनीयम् । किमद्य भाजनानि लेपनीयानि न वा तत्र यदि लेपनीयानि ततः पूर्वाह्णे लेपग्रहणमहं करिष्यामीति विचिन्त्य चतुर्थकमभक्तकं कुर्याद् । श्रथ असहः - श्रसमर्थः चतुर्थभक्कं कर्तुं तर्हि पर्युषितं गृह्णाति भक्कमथ पर्युषितमपकारकमपथ्यम्, यदि वा न लभ्यते ततः पौरुषीं न करोति, किं त्वितरे साधवो मध्याह्ने हिण्डित्वा तस्मै भक्तं ददति ।
कयकिकम्मो छंदे - छंदितो भगति लेव घिच्छामि । तुझ वि याऽऽणे मट्ठो, आमं तं कित्तियं किं वा ॥ ४६६|| सेसे त्रि पुच्छिकणं, कय उस्सग्गो गुरूण नमिऊण | मल्लगरूए गएहइ, जइ तेसिं कप्पितो होति ॥ ५०० ॥
कृतं कृतिकर्म-वन्दनं येन स कृतकृतिकर्मा, किमुक्लं भवतिस लेपानयनाय गन्ता प्रथममाचार्याणां वन्दनकं ददाति, दत्वा ब्रूते- 'इच्छाकारेण संदिशत ' एवमुक्ते सूरयोऽभिदधति 'छंदेन' छन्दसा विज्ञापयेति भावः । एवं छन्दसा छन्दितो निमन्त्रितः सन् भगति - गत्वा लेपं ग्रहीष्यामि एवमुक्त्वा
Jain Education Internatio१६७
नेप
श्राचार्यान् शेषसाधूंश्च वक्ति युष्माकमप्यस्ति लेपेन प्रयोजनमानीयताम् । तत्र यो वक्ति श्रमम्, तं प्रति ब्रूते कियन्तमानयामि किं वा लेपं तत्र यद्भणति तदिच्छामि इति प्रतिपद्य कृतोत्सर्ग उपयोगकायोत्सर्ग कृत्वा गुरून् नमस्कृत्याऽऽवश्यकीं कृत्वा यदि तेषां पानवस्त्राणां कल्पिकस्ततो गृहेषु गत्वा मल्लकं रूतं च गृह्णाति ।
अथाकल्पिकस्तत श्राहगीयत्थपरिग्गहिते, अयाणम्रो रूयमल्लए घेत्तुं । खारं च तत्थ वञ्चति, गहिए तसपाणरक्खट्ठा ॥ ५०१ ॥ यो शायकोऽगीतार्थः स गीतार्थेन परिगृहीतानि रूतमशकानि गृहीत्वा गृहीते सति लेपे संपातिमत्रसप्राणरक्षणार्थम् तत्र मल्लकेषु क्षारं च गृहीत्वा व्रजति ।
संप्रति यदधस्तादभणितम् । ' सागारिय ' ति तद्द्व्याख्यानार्थमाहवचंतेण य दिट्ठे, सागारिदुचक्कगं तु अन्भासे । तत्थेव होइ गहणं, न होति सागारिओ पिंडो ||५०२॥ तेन गृहीतरूतमल्लकक्षारेण व्रजता यदि सागारिकस्यशय्यातरस्य द्विचक्रकं तमभ्यासे निकटे प्रदेश दृष्टं ततस्तत्रैव तस्य लेपग्रहणं भवति, यतः स न भवति सागारिकपिण्ड इति ।
सम्प्रति प्रभुद्वारमाह
गंतुं दुचकमूलं, अणुविज पभ्रं तु साहीणं । एत्थ य प ति भणिए, कोई गच्छे निवसमीवं ।। ५०३ || किं देमित्ति नरवई, तुभं खरमक्खिया दुचक्कि ति । सोय सत्थो लेवो, पंतयभद्देयरे दोसा ॥ ५०४ ॥ गत्वा द्विचक्रमूलं शकटस्य स्वाधीनं प्रत्यासन्नं प्रभुमनुशापयेत् | अननुज्ञापने प्रायश्चित्तं मासलघु, तस्मात्प्रायश्चितभीरुणा नियमतः प्रभोरनुज्ञापना कर्त्तव्या । अत्र प्रभुरित्युले कश्विश्चिन्तयति राजानं मुक्त्वा कोऽन्यः प्रभुरिति राजाऽनुज्ञापनीय उक्तः, एवं चिन्तयित्वा नृपसमीपं गच्छेत्, गत्वा च तं राजानं धर्म लाभयेत् । तत्र स नरपतिर्ब्रूयात्किं ददामि ?, साधुर्वदति - युष्माकं द्विचक्राणि - शकटानि खरेण तैलेन प्रक्षितानि सन्ति, तत्र च यो लेपः प्रशस्त इति, तमनुजानीत । अत्र भद्रेतरदोषाः भद्रकदोषाः, प्रान्तदोषाश्च । तत्र भद्रके दोषा इमे, स राजाऽनुज्ञापितः सन् ब्रूयादहो निर्ममत्वा भगवन्त एतदप्ययाचितं न गृह्णन्ति, ततः स श्राज्ञापयेत् यानि कानिचित् मम विषये शकटानि तानि सर्वाण्यपि तैलेन नक्षणीयानि । प्रान्तः पुनरेवं चिन्तयेदहो ऽमी अशुचयो यदेतत् मां याचन्ते नूनं सर्वमिदं नगरममीभिर्धर्षयितव्यमिति प्रद्वेषं यायात्, प्रद्विष्टश्च घोषापयेत, यथा मम राज्ये न कोऽपि शकटं तैलेन प्रक्षयेकि तु घृतेनान्येन वा । तम्हा दुचक्कपतिया, तस्संदिद्वेण वा अणुष्माते । कडुगंधजाणणट्ठा, जिंघे नासं अघट्टंतो ।। ५०५ ।। यस्मादेवं भद्रकप्रान्तदोषास्तस्मात् राजा नानुज्ञापथितव्यः । कोऽनुपशापयितव्य इति वेद् ? उच्यते-यस्तस्य द्विचक्रस्य - शकटस्य पतिः - स्वामी यो वा तेन शकटपतिना संदिष्टः, तेन द्विचक्रपतिना तत्संदि
For Private & Personal Use Only
www.jainelibrary.org