________________
( ६४५ ) अभिधान राजेन्द्रः ।
लवणसमुद्द
तस्य च प्रासादावतंसकस्यान्तर्वहु मध्यदेशभागे महत्येकासर्वरत्नमयी मणिपीठिका, सा च योजनायामविष्कम्भप्रमाणा गव्यृतद्वयबाहल्या, तस्याश्च मणिपीठिकाया उपरि महदेकं सिंहासनम्, तचेन्द्र सामानिकादिदेवयोग्येर्भद्रासनैः परिवृतमिति ॥ 'से के भंते!' इत्यादि, अथ केनार्थेन भदन्त ! एचमुच्यते गोस्तूप आवासपर्वतो गोस्तूप श्रावासपर्वतः ? इति, भगवानाह - गौतम ! गोस्तृपे श्रावासपर्वते क्षुल्लासु क्षुल्लिकासु वापीषु यावद्विलपक्लिषु बहुन्युत्पलानि यावत् शतसहस्रपत्राणि गोस्तूपप्रभाणि गोस्तूपाकाराणि गोस्तूपवर्णानि गोस्तूपवर्णस्येवामा प्रतिभासो येषां तानि गोस्तूपवर्णाभानि, ततस्तानि तदाकारत्वात् तद्वर्णत्वात्तद्वर्णसादृश्याश्च गोस्तूपा नीति प्रसिद्धानि तद्योगादावासपर्वतोऽपि गोस्तूपः, अनादिकालप्रवृत्तोऽयं व्यवहार इति तेन नेतरेतराश्रयदोषः, एवमुतत्रापि भावनीयम्, तथा गोस्तूपश्चात्र भुजगेन्द्रो भुजगराजो महर्द्धिको यावत्करणात् - महाद्युतिक इत्यादि परिग्रहः । स च चतु सामानिकसहस्राणां चतसृणामप्रमहिषीणां सपरिवाराणां तिसृणां पर्षदां सप्तानामनीकानां सप्तानामनी काधिपतीनां षोडशानामात्मरक्षदेवसहस्राणाम्, गोस्तूपस्यावासपर्वतस्य गोस्तूपायाश्च राजधान्या अन्येषां च बहूनां गौस्तूपराजधानीवास्तव्यानां देवानां देवीनां चाधिपत्यं यावद्विहरति, ततो गोस्तूपदेवस्वामिकत्वाश्च गोस्तूपः, 'से एट्ठे 'मित्याद्युपसंहारवाक्यं प्रतीतम् ॥ सम्प्रति गोस्तूपां राजधानी पृच्छति - कहि णं भंते!' इत्यादि क्व भदन्त ! गोस्तूपस्य भुजगेन्द्रस्य भुजगराजस्य गोस्तूपा नाम राजधानी प्रशप्ता ?, भगवानाह - गौतम ! गोस्तूपस्यावासपर्वतस्य पूर्वया दिशा तिर्यगसंख्येयान् द्वीपसमुद्रान् च्यतिव्रज्यान्यस्मिन् लवण समुद्रे द्वादश योजनसहस्राण्यचगाह्यात्रान्तरे गोस्तूपस्य भुजगेन्द्रस्य भुजगराजस्य गोस्तूपा नाम राजधानी प्रशता, सा च विजयराजधानी सदृशी वक्तव्या ॥ तदेवमुक्तो गोस्तूपः ।
(२३) अधुना दकाभासवक्तव्यतामाहकहि णं भंते ! सिवगस्स वेलंधरणागरायस्स दोभासणामे आबासपव्वते पण्णत्ते ?, गोयमा ! जंबूद्दीवे गं दीवे मंदरस्स पव्वयस्स दक्खिणं लवणसमुहं बा - यालीसं जोयणसहस्साई ओगाहित्ता एत्थ णं सिवगस्स वैलंधरणागरायस्स दोभासे णामं आवासपव्वते पण्णत्ते, तं चैव पमाणं जं गोथूभस्स, गवरि सव्व
काम अच्छे ० जाव पडिरूवे ० जाव अट्ठो भाणियव्वो, गोमा ! दोभासे णं श्रावासपव्वते लवणसमुद्दे अट्ठ जोयिखेत्ते दगं सव्वतो समता श्रोभासेति उज्जोवेति तवति भासेति सिव इत्थ देवे महिड्डिए ०जाव रायहाणी से दक्खिणं सिविगा दोभासस्स सेसं तं चैव ॥
'कहि णं भंते! सिवगस्स' इत्यादि प्रश्नसूत्रं पाठसिद्धम्, भगवानाह - गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षिणतो लवणसमुद्रं द्वाचत्वारिंशतं योजनसहस्राण्यवगाह्य श्रश्रान्तरे शिवकस्य भुजगेन्द्रस्य भुजगराजस्य दकाभासो |
१६२
Jain Education International
लवणसमुद्द नामावासपर्वतः प्रज्ञप्तः, स च गोस्तूपवदविशेषेण वलव्यो यावत्सपरिवारं सिंहासनम् ॥ श्रधुना नामनिमित्तं पिंपूfच्छपुराह-' से केणट्टेल ' मित्यादि प्रश्नसूत्रं सुगमम्, भगवानाह - गौतम ! दकाभास श्रावासपर्वतो लवणसमुद्रे सर्वासु दिक्षु स्वसीमातोऽष्ट्रयोजनिक- श्रष्टयोजनप्रमाणे क्षेत्रे यदुदकं तत् समन्ततः - सामस्त्येनातिविशुद्धाङ्कनामरक्षमयत्वेन स्वप्रभयाऽवभासयति एतदेव पर्याय येण व्याचष्टे - उद्योतयति चन्द्र इंव, तापयति सूर्य इव, प्रभासयति ग्रहादिरिव. ततो दकं पानीयमाभासयति - समन्ततःसर्वासु दिक्षु श्रवभासयतीति दकाभासः, श्रन्यच शिवको नामात्र पर्वतेषु भुजगेन्द्रो भुजगराजो महर्द्धिको यावत्पल्योपमस्थितिकः परिवसति । 'से गं तत्थ चउरहं सामाणिसाहस्सीण' मित्यादि प्राग्वत् नवरमत्र शिवका राजधानी वक्तव्या, तस्मिंश्च परिवसति स श्रावासपर्वतो दकमध्येऽ तीवाऽऽभासते - शोभते इति दकाभासः, 'से एएण्ट्टेल ' मित्यानुपसंहारवाक्यं गतार्थम्, शिवका राजधानी दकाभासस्यावासपर्वतस्य दक्षिणतोऽन्यस्मिन् लवणसमुद्रे षिजयराजधानीव भावनीया ॥
(२४) अधुना शंखनामकावासपर्वतवक्लव्यतामाहकहि णं भंते ! संखस्स वेलन्धरणागरायस्स संखे यामं आवासपव्वते पत्ते ?, गोयमा ! जंबुद्दीवे गं दीवे मंदरस पव्वयस्स पच्चत्थिमेणं बायालीसं जोयणसहस्साई एत्थ णं संखस्स ० वेलंधरणागरायस्स संखे णामं आवासपञ्चते तं चैव पमाणं वरं सव्वरयणाए अच्छे से गं एगाए पउमबरवेदियाए एगेण य वणसंडेणं० जाव भट्ठो बहूओ खुड्डाखुड्डिया ओ० जाव बहूई उप्पलाई संखाभाई संखवलाई संखवमाभाई संखे एत्थ देवे महिड्डिए० जाब रायहाणीए पच्चत्थिमे णं संखस्स यावासपव्वयस्स संख। नाम रायहाणी तं चैव पमाणं ।
'कहि गं भंते!' इत्यादिक्क भदन्त! शंखस्य भुजगेन्द्रस्य भुजगराजस्य शंखो नामावासपर्वतः प्रज्ञप्तः, भगवानाह - गौतम ! ज
म्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पश्चिमायां दिशि लवणसमुद्रं द्वाचत्वारिंशतं योजन सहस्राण्यवगाह्यात्रान्तरे शंखस्य भुजगेन्द्रस्य भुजगराजस्य शंखो नामावासपर्वतः प्रज्ञप्तः, स च गोस्तूपवदविशेषेण तावद्वक्तव्यो यावत्सपरिवारं सिंहासनम् ॥ इदानीं नामनिबन्धनमभिधित्सुरोह -' से केणट्टेल ' मित्यादि प्रश्नसूत्रं सुगमम्, भगवानाह - शंखे श्रावासपर्वते तुला क्षुल्लिकासु वापीषु यावद्विलपतिषु बहून्युत्पलानि यावत् शतसहस्रपत्राणि शंखाभानि - शंखाकाराणि शंखवर्णानि श्वेतानीति भावः, शंखवर्णाभानि प्रायः शंखवर्णसदृशवर्णानि शंखश्चात्र भुजगेन्द्रो भुजगराजो महर्द्धिको यावत्पल्योपमस्थितिकः परिवसति । 'से गं तत्थ are सामाणियसाहस्सीण' मित्यादि प्राग्वत्, नवरमत्र शंखा राजधानी वक्तव्या, तदेवं यतस्तद्गतान्युत्पलादीनि शंखाकाराणि शंखदेवखामिकश्चायमतः शंख इति, 'से एए ट्टे' मित्याद्युपसंहारवाक्यं गतार्थम्, शंखा राजधानी शंखस्यावासपर्वतस्य पश्चिमायां दिशि तिर्यगसंख्येयान्
For Private & Personal Use Only
www.jainelibrary.org