________________
मग्ग
( ३६ ) अभिधानराजेन्द्रः ।
गीतार्थपारतन्त्र्येण, ज्ञानमज्ञानिनां मतम् । विना चक्षुष्मदाधार - मन्धः पथि कथं व्रजेत् ? ॥ १७ ॥ गीतार्थेति मुख्यं ज्ञानं गीतार्थानामेव तत्पारतन्त्र्यलक्षणं गौणमेव तदगीतार्थानामिति भावः ॥ १७ ॥
तत्त्यागेनाफलं तेषां शुद्धोञ्छाऽऽदिकमप्यहो । विपरीत फलं वा स्या- त्रीभङ्ग इव वारिधौ ॥ १८ ॥ तादेति तत्त्यागेन गीतार्थपारतन्त्र्यपरिहारेण तेषां संविनाssभासानां शुद्धोञ्छाऽऽदिकमप्यफलं विपरीतफलं वा स्यात्, वारिधाविव नौभङ्गः ॥ १८ ॥
यदि नामैतेषां नास्ति ज्ञानं, कथं तर्हि मासक्षपणाऽऽदिदुष्करतपोऽनुष्ठातृत्वमित्यत श्राह -
अभिन्नग्रन्थयः प्रायः कुर्वन्तोऽप्यतिदुष्करम् । बाह्या इवात्रता मूढाः, ध्वाङ्गज्ञातेन दर्शिताः ॥ १६ ॥ अभिनेति-- श्रभिन्नग्रन्थयो ऽकृतग्रन्थिभेदाः, प्रायः कुर्वन्तोऽप्यतिदुष्करं मासक्षपणाऽऽदिकं बाह्या इवाव्रताः स्वाभावि कव्रतपरिणामरहिताः, मूढा अज्ञानाऽऽविष्टाः, ध्वाङ्गज्ञातेन वायसदृष्टान्तेन दर्शिताः । यथा हि केचन वायसा निर्मलसलिलपूर्ण सरित्परिसरं परित्यज्य मरुमरीचिकासु जलत्वभ्रान्तिभाजस्ताः प्रति प्रस्थिताः तेभ्यः केचनान्यैर्निषिद्धाः प्रत्यायाताः सुखिनो बभूवुः, ये च नाऽऽयातास्ते मध्याह्नार्कतापतरलिताः पिपासिता एव मृताः, एवं समुदायादपि मनाग्दोषभीत्या ये स्वमत्या विजिहीर्षवो गीतानिवारिताः प्रत्यावर्तन्ते, तेऽपि ज्ञानाऽऽदिसंपद्भाजनं भवन्ति, अपरे तु ज्ञानादिगुणेभ्योऽपि भ्रश्यन्तीति । तदिदमाह - " पायं अभिन्नगठी, तवाइ तह दुक्करं पि कुव्वंता । ज्व्व ण ते साहः धंखाऽऽहरणेण विन्नेया ॥ १ ॥ " श्रामेsयुक्तम् - " नममाणा वेगे जीविश्रं विष्परिणामति । ” द्रव्यतो नमन्तोऽप्येके संयमजीवितं विपरिणामयन्ति, नाशयन्तीत्येतदर्थः । इति ॥ १६ ॥
वदन्तः प्रत्युदासीनान् परुषं परुषाऽऽशयाः । विश्वासादाकृतेरेते, महापापस्य भाजनम् ॥ २० ॥
वदन्त इति - उदासीनान् मध्यस्थान् शिक्षापरायणान् प्रति, परुषं “ भवन्त एव सम्यक् क्रियां न कुर्वते कोयमस्मान् प्रत्युपदेशः " इत्यादिरूपं वचनं वदन्तः, परुषोऽज्ञानाऽवेशादाशयो येषां ते तथा, एते श्रकृतेराकारस्य, विश्वासान्महापापस्य परप्रतारणलक्षणस्य भाजनं भयन्ति, पामराणां गुणाऽऽभासमात्रेणैव स्खलनसंभवात् ॥२०॥ ये तु स्वकर्मदोषेण, प्रमाद्यन्तोऽपि धार्मिकाः । संविग्नपाक्षिकास्तेऽपि, मार्गान्वाचयशालिनः ॥ २१ ॥ ये त्विति – ये तु स्वकर्मदोषेण वीर्यान्तरायोदयलक्षणेन, प्रमाद्यन्तोऽपि क्रियासु श्रवसीदन्तोऽपि, धार्मिका धर्मनिरताः, संविग्नपाक्षिका- संविग्नपक्षीकृतः, तेऽपि, मार्गस्यान्वाचयो भाव साध्वपेक्षया पृष्ठलग्नता लक्षणः तेन शालन्त इत्येवंशीलाः । तदुक्तम् - "लब्भिहिसि तेरा पहं ति " ॥ २१ ॥ शुद्धप्ररूपणैतेषां मूलमुत्तरसंपदः ।
Jain Education International
मग्ग
सुसाधुग्लानिभैषज्य-प्रदानाभ्यर्चनाऽऽदिकाः ।। २२ ॥ शुद्धेति - एतेषां संविग्नपाक्षिकाणां शुद्धप्ररूपणैव मूलंसर्वगुणानामाद्यमुत्पत्तिस्थानं, तदपेक्षयतनाया एव तेषां नि
राहेतुत्वात् । तदुक्तम्- "हीणस्स वि सुद्धपरू-वगस्स संविग्गपक्ववाइस्स | जा जा हविज जयगा, सा सा से निजरा होइ ॥ १॥ " इच्छायोगसंभवाश्चाऽत्र नेतराङ्गवैकल्ये ऽपि फलवैकल्यं, सम्यग्दर्शनस्यैवात्र सहकारित्वात् । शास्त्रयोग एव सम्यग्दर्शनचारित्रयोर्द्वयोस्तुल्यवदपेक्षणात् । तदिदमुक्तम्"दंसणपक्खो सावय, चरित्तभट्ठे य मंदधम्मे य । दंसणचरितपक्खो, समणे परलोकंखिम्मि ॥१॥" उत्तरसंपद उत्कृष्टसंपदश्च सुसाधूनां ग्लानेरपनायकं यद्वैषज्यं तत्प्रदानं चाभ्यचनं च तदादिकाः ॥ २२ ॥
आत्मार्थ दीक्षणं तेषां निषिद्धं श्रूयते श्रुते । ज्ञानाssद्यर्थाऽन्यदीक्षा च, स्वोपसंपच्च नाहिता ||२३|| श्रात्मार्थमिति - श्रात्मार्थ स्ववैयावृत्त्याद्यर्थ, तेषां संविग्नपाक्षिकाणां दीक्षणं श्रुते निषिद्धं श्रूयते । "अतट्ठा न विदिरक्खइ" इति वचनात् । ज्ञानाऽऽद्यर्थाऽन्येषां भावचरपरिणामवत्पृष्ठभाविनामपुनर्बन्धकाऽऽदीनां दीक्षा च तदर्थे तेषां स्वोपसंपञ्च नाहिता नाहितकारिणी, असग्रहपरित्यागार्थमपुनर्वन्धकाssदीनामपि दीक्षणाधिकारात् । तदुक्तम्- “सइनपुणबंधगाणं, कुग्गहविरहं लहुं कुणइ " इति तात्त्विकानां तु तात्त्विकैः सह योजनमप्यस्याऽऽचारः । तदुक्तम्- " देइ सुसाहूण बोहेडं ति " ॥ २३ ॥
नाऽऽवश्यकाऽऽदिवैयर्थ्यं, तेषां शक्यं प्रकुर्वताम् । अनुमत्यादिसाम्राज्या-द्भावाऽऽवेशाच्च चेतसः ||२४|| नेति - आवश्यकाSS दिवैयर्थ्यं च तेषां स्ववीर्यानुसारेण शक्यं स्वाचारं प्रकुर्वतां न भवति । तत्करण पवाऽऽचारप्रीत्येच्छायोगनिर्वाहात् । तथाऽनुमत्यादीनामनुमोदनाऽऽदीनां साम्राज्यात् सवर्थाऽभङ्गात् । चेतसश्चित्तस्य भावाऽऽवेशादर्थाssद्युपयोगाच श्रद्धामेधाऽऽद्युपपत्तेः ॥ २४ ॥
द्रव्यत्वेऽपि प्रधानत्वा - तथाकल्पात्तदक्षतम् । यतो मार्गप्रवेशाय, मतं मिथ्यादृशामपि ।। २५ ।। द्रव्यत्वेऽपीति- तदावश्यकस्य भावसाध्वपेक्षया द्रव्यत्वेऽपि प्रधानत्वादिच्छाऽऽद्यतिशयेन भावकारणत्वाद् द्रव्यपदस्य क्वचिदप्रधानार्थकत्वेन क्वचिश्च कारणार्थकत्वेनानुयोगद्वारवृत्तौ व्यवस्थापनात् तथाकल्पात् तथाऽऽचारात्, तदावश्यकं तेषामक्षतं यतो मार्गप्रवेशाय मिध्यादृशामपि तदावश्यकं मतं गीतार्थैरङ्गीकृतम्, अभ्यासरूपत्वात्, अस्खलितत्वाऽऽदिगुणगर्भतया द्रव्यत्वोपवर्णनस्यैतदर्थद्योतकत्वा
च्च ॥ २५ ॥
मार्गभेदस्तु यः कश्चि- निजमत्या विकल्प्यते । स तु सुन्दरबुद्ध्याऽपि क्रियमाणो न सुन्दरः ॥ २६ ॥ मार्गेति व्यक्तः ॥ २६ ॥ निवर्तमाना अप्येके, वदन्त्याचारगोचरम् । श्राख्याता मार्गमप्येको,नोञ्छजीवीति च श्रुतिः ॥२७॥ निवर्तमाना इति - एके संयमाभिवर्तमाना श्रपि, आचारगोचरं यथावस्थितं वदन्ति, "वयमेव कर्तुमसहिष्णकः
For Private Personal Use Only
www.jainelibrary.org