________________
मग्ग
( ३८ ) अभिधान राजेन्द्रः ।
अनुमाय सतामुक्ताऽऽ-चारेणाऽऽगममूलताम् । पथि प्रवर्तमानानां शक्या नान्धपरम्परा ॥ ३ ॥ अनुमायेति उक्ताऽऽचारेण संविग्नाऽशठगीतार्था ऽऽचारेण, श्रागम मूलतामनुमाय, सतां मार्गानुसारिणां पथि महाजनानुयातमार्गे, प्रवर्तमानानामन्धपरम्परा न शङ्कनीया । इत्थं चात्राऽऽगमबोधितेष्टोपायता कत्वमेवानुमेयम्, श्रागमग्रहणं चान्धपरम्पराशङ्काव्युदासायेति नाऽऽगमकल्पनोत्तरं विध्यर्थबोधकल्पनाद्वारव्यवधानेन प्रवर्तकतायाः शब्दसाधारण्यक्षतिः, अप्रत्यक्षेणाऽऽगमेन प्रकृतार्थस्य बोधयितुमशक्यत्वात् व्यवस्थितस्य चानुपस्थितेः सामान्यत एव तदनुमानात् । तदिदमुक्तम् - " आयरणा वि हु आण ति । " वस्तुत उपपत्तिकेन शिष्टाऽऽचारेणैव विध्यर्थसिद्धावागमानुमानं भगवद्बहुमानद्वारा समापत्तिसिद्धये इति द्रष्टव्यम् ॥ ३ ॥
सूत्रे सद्धेतुनोत्सृष्ट-मपि क्वचिदपोद्यते । हितदेऽप्यनिषिद्धेऽर्थे किं पुनर्नास्य मानता ॥ ४ ॥ सूत्र इति सूत्रे श्रागमे, उत्सृष्टमपि उत्सर्गविषयीकृतमपि, सद्धेतुना पुष्टेनाऽऽलम्बनेन, क्वचदपोद्यते श्रपवादविषयीक्रियते, हितदेऽपी साधनेऽपि, अनिषिद्धे सूत्रावा रिते, किं पुनरस्य शिष्टाऽऽचारस्य न मानता न प्रमाण
ता ॥ ४ ॥
उदासीने ऽर्थे भवत्वस्य मानता, चारित्रं तु कारणसहस्त्रेशापि परावर्तयितुमशक्यमित्यत श्राह -
निषेधः सर्वथा नास्ति, विधिर्वा सर्वथाऽऽगमे । आय व्ययं च तुलये लाभाकाङ्क्षी वणिग्यथा ||५|| निषेध इति सूत्रे विधिनिषेधौ हि गौणमुख्यभावेन मिथःसंवलितावेव प्रतिपाद्येते, अन्यथानेकान्तमर्यादाऽतिक्रमप्रसङ्गादिति भावः ॥ ५ ॥
प्रवाहधारापतितं निषिद्धं यन्न दृश्यते ।
अत एव न तन्मत्या, दूषयन्ति विपश्चितः ॥ ६॥ प्रवाहोत - शिष्टसम्मतत्व सन्देहेऽपि तदूषणमन्याय्यं, किं पुनस्तनिश्चय इति भावः । तदिदमाह - " जं च विहिां सुत्ते, राय पडिसिद्धं जसम्मि चिररूढं । स महविगप्पियदोसा. तं पिण दूसंति गीयत्था ॥ १ ॥ " ॥ ६ ॥
संविग्नाऽऽचरणं सम्य-कल्पप्रावरणाऽऽदिकम् । विपर्यस्तं पुनः श्राद्ध - ममत्वप्रभृति स्मृतम् ॥ ७ ॥ संविग्नेति - संविग्नानामाचरणं सम्यक साधुनीत्या कल्पप्रा वरणाऽऽदिकम् । तदाह
" श्रन्नह भणियं पि सुए, किंची कालाइकारणाविक्खं । श्रान्नमन्नह थिय, दीसह संविग्गगीएहिं ॥ १ ॥ कप्पां पावरणं, श्रगोश्ररश्चाश्रो भोलिश्राभिक्खा । उवग्गहियक डाहय-तंत्रयमुहदाणदोराई ॥ २ ॥ " इत्यादि । विपर्यस्तमसंविग्नाऽऽचरणं पुनः श्राद्धममत्यप्रभृति स्मृत
म् । तदाह
"जह सहेसु ममत्तं, राढाइ श्रसुद्धवहिभत्ताई । शिद्दिव सहितूली - मसूरगाईण परिभोगे ॥ १ ॥ " इति ॥ ७ ॥
Jain Education International
For Private
मग्ग
द्यं ज्ञानात्परं मोहा - द्विशेषो विशदोऽनयोः । एकत्वं नानयोर्युक्तं, काचमाणिक्ययोरिव ।। ८ ।। श्राद्यमिति - ज्ञानं तत्त्वज्ञानम्, मोहो गारवमग्नता ॥ ८ ॥ दर्शयद्भिः कुलाऽऽचार-लोपादामुष्मिकं भयम् । वारयद्भिः स्वगच्छीय गृहिणः साधुसङ्गतिम् ॥६॥ दर्शयद्भिरिति - श्रमुष्मिकं प्रेत्य प्रत्यवाय विपाकफलम् ॥ ६ ॥ द्रव्यस्तवं यतीनामप्यनुपश्यद्भिरुत्तमम् । विवेकविकलं दानं, स्थापयद्भिर्यथा तथा ॥ १० ॥ द्रव्यस्तवमिति श्रपिना श्रागमे यतीनां तनिषेधो द्योत्यते, अनुपश्यद्भिर्मन्यमानैः ॥ १० ॥
पुष्टाऽऽलम्बनोत्सिक्तैर्मुग्धमीनेषु मैनिकैः । इत्थं दोषादसंविग्नै - हा विश्वं विडम्बितम् ॥ ११ ॥ पुष्टेति व्यक्तः ॥ ११ ॥
अप्येष शिथिलोल्लापो, न श्राव्यो गृहमेधिनाम् । सूक्ष्मोऽर्थ इत्यदोऽयुक्तं, सूत्रे तद्गुणवर्णनात् ॥ १२ ॥ पोति - एषोऽपि शिथिलानाम्, उल्लापः यदुत न श्राव्यो गृहमेधिनाम् सूक्ष्मो ऽर्थः इत्यदो वचनमयुक्तम्, सूत्र-भगवत्यादौ तेषां गृहमेधिनामपि केषाञ्चिद्गुणवर्णनात्, “लडट्ठा गहिट्ठा " इत्यादिना साधूलसूक्ष्मार्थपरिणामशक्तिमत्वप्रति पादनात् सम्यक्त्वप्रकरणप्रसिद्धोऽयमर्थः ॥ १२ ॥ तेषां निन्दाऽल्पसाधूनां, बह्वाचरणमानिनाम् । प्रवृत्ताऽङ्गीकृताऽत्यागे, मिध्यादृग्गुणदर्शिनी ॥ १३ ॥ तेषामिति - तेषामसंविग्नानाम्, अल्पसाधूनां विरलानां यतीनां, बह्नाचरितमानिनां “ बहुभिराचीर्णे खलु वयमाचरामः स्तोकाः पुनरेते संविग्नत्वाभिमानिनो दाम्भिकाः " इत्यभिमानवताम् निन्दा अङ्गीकृतस्य मिथ्याभूतस्याऽपि बद्दाचीर्णस्याऽत्यागेऽभ्युपगम्यमाने मिथ्यादृशां गुणदर्शिनी प्रवृत्ता, सम्यग्डगपेक्षया मिथ्यादृशामेव बहुत्वात् । तदा ह - "बहुजण पवित्तिमिच्छं, इच्छं (त्थं) तेरा इहलोइओ चेव । धम्मो न उभियो, जेण तहिं बहुजणपविती ॥१॥" ॥१३॥ इदं कलिरजः पर्व - भस्म भस्मग्रहोदयः । खेलनं तदसंविग्न- राजस्यैवाधुनोचितम् ।। १४ ।। इदमिति व्यक्तः ॥ १४ ॥
समुदाये मनाग्दोष-भीतैः स्वेच्छाविहारिभिः । संविग्नैरप्यगीतार्थैः, परेभ्यो नातिरिच्यते ।। १५ ।। समुदाय इति समुदाये मनाग्दोषेभ्य ईषत्कलहाऽऽदिरूपे भ्यो भीतैः, स्वेच्छाविहारिभिः स्वच्छन्दचारिभिः संविग्नेरपि वाह्याऽऽचारप्रधानैरपि श्रगीतार्थैः, परेभ्यो ऽसंविग्नेभ्यो, नातिरिच्यते नाधिकीभूयते ॥ १५ ॥
वदन्ति गृहिणां मध्ये, पार्श्वस्थानामवन्द्यताम् । यथाच्छन्दतयाऽऽत्मानमवन्द्यं जानते न ते ॥ १६ ॥ वदन्तीति - परदोषं पश्यन्ति, स्वदोषं च न पश्यन्तीति महतीयं तेषां कदर्थनेति भावः ॥ १६ ॥
Personal Use Only
www.jainelibrary.org