________________
( ४२८) अभिधान राजेन्द्रः ।
मेहुण
विपर्यमाह
स्नायादेवेति न तु य- रातो होनो गृहाश्रमः । तत्र चैतदतो न्यायात्, प्रशंसाऽस्य न युज्यते ||४|| वेदमधीत्य स्नायादेव, वेदाध्ययनानन्तरं कलत्रसंग्रहाय स्नानं कुर्यादेव इत्येव, न तु-न पुनरवधारणं शासितम्, अतः औत्सरिंगको मैथुनपरिहारः। श्रापवादिकमैथुनमित्यभिहितमनेम चापवादिकेऽपि तत्र रागभावसूचनातो- रागजन्यत्वहेतोः, पक्षैकदेशा सिद्धता परिहृता । श्रथाधिकृतवाक्यार्थनिगमनायाऽऽह - यदिति --- यस्मादेवमवधारणविधिः, ततस्तस्माद् कारणात् हीनः - जघन्यो, गृहाश्रमो गृहस्थत्वम्, यत्याश्रमापेक्षयेति गम्यम् । ततः किमित्याह -तत्र च तस्मिन् पुनर्गृहस्थाश्रमे, एतत्-मैथुनम्, धर्मार्थादिविशेषणं संभवति । तत्रैव दारसंग्रहाद्, अतः - एतस्माद्, न्यायाद्-नीतेः प्रशंसा-श्लाघा अस्य-मैथुनस्य न युज्यते न घटते यत्याश्रमापेक्षया हीनगृहाश्रमसंभवित्वेन हीनत्वादस्येति भावः । यथोक्तं पुत्रार्थमित्यत्र 'अपुत्रस्य गतिर्नास्ति' इति, तदयुक्तम्- परमतेनैव तस्य वाधितत्वात् । यदाह-" अनेकानि सहस्राणि कुमारब्रह्मचारिणाम् । दिवं गतानि विप्राला-मकृत्वा कुलसन्ततिम् ॥ १ ॥ " इति ॥ ४ ॥
अथ यदुक्तम् ' प्रशंसा ऽस्य न युज्यते ' इति, अत्र परमत
माशङ्कमान आह
अदोषकीर्तनादेव, प्रशंसा चेत्कथं भवेत् । अर्थापया सदोषस्य, दोषाभावप्रकीर्त्तनात् ||५|| अदोषः- दूषणाभावः तस्य कीर्त्तनं “ न च मैथुने" इत्यनेन मनुवचनेन संशब्दनमदोषकीर्त्तनम्, तस्मादेव निमित्तान्तरoresceार्थमवधारणम्, प्रशंसा - श्लाघा मैथुनस्य युज्यत इति शेषः ?, चेद्यद्येवं मन्यसे तदा यो दोषस्तमाह- कथम् - केन प्रकारेण न कथंचिदित्यर्थः भवेत् — जायेत, प्रशंसेति वर्त्तते । श्रर्थापत्त्या च वेदं ह्यधीत्य स्नायादिति पूर्वोक्कप्रमाणेन सदोषस्य -- पापस्वरूपस्य मैथुनस्य दोषभावप्रकीर्त्तनात् । न च मैथुने इत्येवं लक्षणाद्दोषाभावोक्तिमात्रादेवाप्रमाणकादिति । न हि यदर्थापस्या दोषवदिति निश्चितं तदप्रमाणकेन वचनमात्रेण निर्दोषमिति प्रतिपत्तुं शक्यमिति भावः । श्रथवा 'प्रशंसाऽस्य न युज्यत' इति यदुक्तम् तदयुक्तम्, यतो न मया तत् प्रशतितम्, किंतु निर्दोषमित्युक्तशङ्कां परिहरन्नाह-'श्र दोषे' त्यादि श्रदोषकीर्त्तनमात्रादेव कथं प्रशंसाऽस्य भवतीति चेदिति परमतं, सूरिराह श्रर्थापत्या भवति । अथ तामेवाहसदोषस्य दोषाभावप्रकीर्त्तनात्प्रशंसा कृता भवतीति ॥ ५ ॥ यदुक्तमदोषकीर्त्तनात्प्रशंसाऽस्य युक्तेति तत्त्रादोषतोक्लेरेवान्याय्यत्वमुपदर्शयन्नाह -
तत्र प्रवृत्तिहेतुत्वा - न्याज्यबुद्धेरसंभवात् । विध्युक्तेरिष्टसंसिद्धे - रुतिरेषा न भद्रिका ॥ ६ ॥ उक्ति:-'न मांसभक्षणे दोष' इत्यादिभणनम् । एषा श्रनन्तराभिहिता इति, धर्मिनिर्देशः, न भद्रिका-न शोभनेति साध्यध
निर्देश:, कुत इत्याह-तत्र मैथुनेऽर्थापस्या प्रागुपदर्शितदोषे प्रवृत्तिहेतुत्वात् प्राणिनां प्रवर्तननिबन्धनत्वादिति हेतु:, प्रयोग या प्राणिनां सदापपदार्थे प्रवृत्तिहेतुभूतोक्तिः सा न भद्रिका यथा हिंसानिर्दोषतोक्तिः सदोषमैथुनप्रवृत्तिहेतुश्चेयम्,
Jain Education International
For Private
मेहु
न मांसेत्यादिक्रोक्तिरिति । प्रवृत्तिहेतुत्वमेव कुत इत्याह- "त्या ज्यं मैथुनम् "एवंभूता या बुद्धिस्तस्या असंभवात् अनुत्पादात् न मैथुने दोष एतामुक्ति श्रद्दधानस्य न मे त्याज्यमिदमित्येषा बुद्धिराविरस्तीति त्याज्यबुद्धयभावे च को हि नाम न तत्र प्रवर्तेत, इत्यादित्याज्य बुद्धयसंभवः कुत इत्याह-विधिर्विधानमनुष्ठानं मैथुनस्य तस्योक्तिः- भणितिर्विध्युक्तिस्ततो वि tयुक्तेः, को हि नाम मैथुने न दोषोऽस्तीति वचनाद्विधेयं मैथुनं न प्रतिपद्यते इति । नन्वनेन वचनेन दोषाभावमात्रमेव मैथुनस्योक्तमिति कथमियं विध्युक्तिः स्यादित्याह - इष्टस्यानादिमहामोहवासनावासितमानसानां देहिनामभिलषितस्य
मैथुनस्तो मैथुननिर्दोषताभिधायकवचनात्संसिद्धिर्निष्पत्तिरिष्टसंसिद्धिस्तत इष्टसंसिद्धेः, को हि तस्य निर्दोषतामवग म्य तदिष्टं न निष्पादयति । इष्टं चेदं सर्वप्राणभृतामित्याह च" कामिनीसंनिभा नास्ति, देवताऽन्या जगत्त्रये । यां समस्तोs पि पुंवर्गो, धन्ते मानसमन्दिरे ॥ १ ॥ " श्रत उक्तिरेषान भद्विकेति व्याख्यातमेव । श्रथवा-उक्तिरेषा न भद्रिकेत्यस्यां प्रतिशायां प्रवृत्तिहेतुत्वादयो भिन्नाश्चत्वारो हेतव इति ॥६॥
मैथुनं प्रकारान्तरेण दूषयन्नाह - प्राणिनां बाधकं चैत-च्छास्त्रे गीतं महर्षिभिः । नालिकात प्रकरणक- प्रवेशज्ञाततस्तथा ॥ ७ ॥ प्राणिनां जीवानां बाधकमुपघातकम्। चशब्दो दूषणान्तरसमुच्चयार्थः । एतन्मैथुनं शास्त्रे व्याख्याप्रज्ञप्त्याख्यपञ्चमाने गीतं - गदितं महर्षिभिः— महामुनिभिः श्रीवर्द्धमानस्वामिप्रमुखैः । कथं बाधकं गीतमित्याह - नलिकायां वेणुपर्वादिरूपायां तप्तस्याग्निना दीप्तस्य कणकस्य -- लोहशलाकाविशेषस्य प्रवेशः -- प्रक्षेपः स एव ज्ञातमुदाहरणम्, ततो नलिकातकणकप्रवेशज्ञाततः, तथेति तत्प्रकारात् रूतभृतनलिकेति विशेषणयुक्ता । तथा हि ( भगवत्याम्- ) " हेडुणं भंते ! सेवमाणस्स केरिसप श्रसंजमे कज्जर ?, गोयमा ! से जहानामए केइ पुरिसे दूरनलियं वा रूयनलियं वा तत्ते २ श्रोकणपणं २ समहिधंसेज्जा मेहुणं सेवमाणस्स एरिसए - संजमे कजर ति ( भ० २ श०५ उ० ) ॥ ७ ॥
दूषणान्तर माप्तवचनप्रसिद्ध मैथुनस्य ब्रुवाणः प्रकरणपसंहारायाऽऽह-
मूलं चैतदधर्मस्य, भवभावप्रवर्द्धनम् । तस्माद्विषान्नवन्याज्यमिदं मृत्युमनिच्छता ॥ ८ ॥
मूलम् - कारणम्। चशब्दः समुच्चये । एतन्मैथुनमधर्मस्य-पापस्य यत एवमत एव भवभावस्य - संसारसन्तायाः, अथवाभवे संसारे ये भावा- उत्पादास्तेषां भवहेतूनां वा भावानांपरिणामानां प्राणवधाविक्रोधादीनां प्रवर्द्धनं वृद्धिकरमिति विग्रहः । उक्तञ्च--"मूलमेयमहम्मस्स, महादोसममुस्वयं । तम्हा मेहुण संसगं ग्गिंथा वज्जयंति गं ॥ १ ॥ " यस्मादेवं तस्मात्कारणाद्विषान्नवत् हालाreforभोजनमिव त्याज्यं परिहार्य मृत्युं मरणमनिच्छता - अनभिलषता श्रमुमूर्षुणा यथा विषानं त्यजनीयमेवं मैथुनं त्याज्यमिति भावः ॥ ८ ॥ हा० २० अ० । सूत्रo (यो ह्याचायों गणावच्छेदको वा गणादपक्रम्य गरामनिक्षिप्य वा मैथुनं प्रतिसेवते स नोपदेष्टुं शक्नोतीति 'उ
द्वा० ।
Personal Use Only
www.jainelibrary.org