________________
मुत्ति
दुःखद्वेषे हि तद्धेतून्, द्वेष्टि प्राणी नियोगतः । जायतेऽस्य प्रवृत्तिश्च ततस्तन्नाशहेतुषु ॥ २१ ॥
( ३१७ ) अभिधान राजेन्द्रः ।
दुःखद्वेषे हीति- दुःखद्वेषे हि सति प्राणी तद्धेतून दुःखहेतून्, नियोगतो - निश्चयतो, द्वेष्टि श्रस्य दुःखहेतुद्विषश्च ततस्तन्नाशहेतुषु - दुःखोपायनाशहेतुषु ज्ञानादिषु प्रवृत्तिर्जायते, दुःखद्वेव्यस्य दुःखहेतुनाशोपायेच्छा दुःखहेतुद्वेषयोस्तयोश्च दुःखहेतुनाशहेतुप्रवृत्तौ स्वभावतो हेतुत्वात् । अनुस्यूतैकोपयोगरूपस्वेऽपि क्रमानुवेधेन हेतुहेतुमद्भावाविरोधात् क्रमिकाक्रमि, कोभयस्वभावोपयोगस्य तत्र तत्र व्यवस्थापितत्वात् ॥ २१ ॥ इत्थं चात्र दुःखं मा भूदित्युद्देशे दुःखहेतुनाशविषयकत्वं फलितमित्येतदन्यत्राप्यतिदिशन्नाह-अन्यत्राप्यसुखं मा भू-माङोऽर्थेऽत्रान्वयः स्थितः । दुःखस्यैवं समाश्रित्य स्वहेतुप्रतियोगिताम् ।। २२ ।। अन्यत्रापीति अन्यत्रापि प्रायश्चित्तादिस्थलेऽपि, सुखं मा भूत्, अत्र माङोऽर्थं ध्वंसे एवम् उक्तरीत्या दुःखस्य स्वहेतुप्रतियोगितामाश्रित्यन्वयः स्थितः । तत्पापजन्यदुःखाप्रसिड्या तद्ध्वंसस्यासाध्यत्वात् । अस्तु वा दुःखद्वेषस्यैवायमु· लेख: मुख्य प्रयोजनाविषयकेच्छाविषयत्वेन च मुख्यप्रयोजनत्वमविरुद्धमिति भावः ॥ २२ ॥ स्वतोऽपुमर्थताऽप्येव-मिति चेत् कर्मणामपि । शक्त्या चेन्मुख्यदुःखत्वं, स्याद्वादे किं नु बाध्यताम् | २३ | स्वत इति - एवमपि स्वतोऽपुमर्थता निरुपाधिकेच्छावियत्वेन सुखदुःखहान्यन्यतरस्यैव स्वतः पुमर्थत्वादिति चेत् कर्मणामपि शक्त्या चेन्मुख्यदुःखत्वं तदा स्याद्वादे किं नु बाध्यताम् ?, दुःखहेतोरपि कथंचिद् दुःखत्वात्, दुःखक्षयत्वेन रूपेण कर्मक्षयस्य त्वन्नीत्याऽपि मुख्यप्रयोजनत्वानपायाद् रूपान्तरेण तत्त्वस्य चाप्रयोजकत्वात् ॥ २३ ॥
स्वतः प्रवृत्तिसाम्राज्यं किं चाखएडसुखेच्छया । निराबाधं च वैराग्य-मसङ्गे तदुपक्षयात् ॥ २४ ॥ स्वत इति - किं च स्वतो निरुपाधिकतया प्रवृत्तिसाम्राज्यमखण्डसुखेच्छयाऽखण्डसुख संवलितत्वात् कर्मक्षयस्य, नन्वे वं सुखेच्छया वैराग्यव्याहतिरित्यत आह-सङ्गेऽसङ्गानुष्टाने तदुपक्षयात् सुखेच्छाया श्रपि विरमान्निराबाधं च वैराग्यम्, "मोक्षे भवे च सर्वत्र निस्पृहो मुनिसत्तमः" इतिवचनात् । न चेदेवं सुखेच्या वैराग्यस्यैव दुःखद्वेषात् प्रशान्तत्वस्यापि व्याहतिरेवैति भावः ॥ २४ ॥
समानायव्ययत्वे च वृथा मुक्तौ परिश्रमः । गुणहानेर निष्टत्वा ततः सुष्टुच्यते ह्यदः ||२६|| समानेति -समानाऽऽयव्ययत्वे च सुखदुःखाभावाभ्यामभ्यु पगम्यमाने मुक्तौ वृथा परिश्रमः । गुणहानेरनिष्टत्वात्तदनुविद्धदुःखनाशोपायेऽनिष्टानुबन्धित्वज्ञानेन प्रेक्षावत्प्रवृनेरयोगात् ततो ह्यदः सुष्ठुच्यते ॥ २५ ॥ दुःखाभावोऽपि नावेद्यः, पुरुषार्थतयेष्यते । न हि मूर्द्धाद्यवस्थार्थं, प्रवृत्तौ दृश्यते सुधीः ।। २६ ॥
८०
Jain Education International
For Private
मुत्ति दुःखाभावो ऽपीति- दुःखाभावोऽपि न श्रवेद्यः - स्वसमानाधिकरणसमानकालीन साक्षात्काराविषयः पुरुषार्थतयेष्यते न हि मूर्द्धाद्यवस्थार्थ सुधीः प्रवृत्तो दृश्यते । श्रन्यथा तदर्थमपि प्रवृत्तिः स्यात् । श्रतो गुणहानेरनिष्टत्वेन दुःखाभावरूपायां मुक्ौ तदर्थप्रवृत्तिव्याघात एव दूषयमिति भावः ॥ २६ ॥ एतेनैतदपास्तं हि पुमर्थत्वेऽप्रयोजकम् ।
तज्ज्ञानं दुःखनाशश्च वर्तमानोऽनुभूयते ।। २७ ।। एतेनेति - एतेन, गुणहानेरनिष्टत्वेन, हि-निश्चितम् एतदपास्तम् । यदुक्तं महानैयायिकेन पुमर्थत्वे तज्ज्ञानं पुमर्थज्ञानमप्रयोजकं दुःखनाशश्च वर्त्तमानोऽनुभूयते विनश्यदवस्थेन योगिसाक्षात्कारेणेति ॥ २७ ॥
गुणहानेरष्टित्वं, वैराग्यान्नाऽथ वेद्यते ।
इच्छाद्वेषौ विना नैवं प्रवृत्तिः सुखदुःखयोः ॥ २८ ॥ गुणहानेरिति श्रथ गुणहानेरनिष्टत्वं वैराग्यान्न वेद्यते कामान्धत्वादिव पारदार्ये बलवद् दुःखानुबन्धित्वं ततः प्रवृत्त्यव्याघात इति भावः । एवं सति इच्छाद्वेषौ विना सुखदुःखयोः प्राप्यनाश्ययोरिति शेषः । प्रवृत्तिर्न स्यात् । परवैराग्ये प्रवृत्तिकरणयोस्तयोर्निवृत्तेरपरवैराग्ये च गुणवैतृष्णयस्यैवाभावाद् गुणहानेरनिप्रत्वाप्रतिसन्धानानुपपत्तेर्गुणहानेरनिष्टवे प्रतिसंहिते प्राक्तनप्रवृत्त्यनुपपत्तौ तत्संस्कारतोऽप्यसङ्गप्रवृत्तेर्दुर्वचत्वमिति न किञ्चिदेतत् ॥ २८ ॥
1
ननु श्रुतिबाधान्न मुक्तौ सुखसिद्धिरित्यत श्राह अशरीरं वा वसन्त - मित्यादिश्रुतितः पुनः । सिद्धो हन्त्युभयाभावो, नैकसत्तां यतः स्मृतम् ॥ २६ ॥ अशरीरमिति - श्रशरीरं वा वसन्तमित्यादिश्रुतितः " अशरीरं वा वसन्तं प्रियाप्रिये न स्पृशत " इति श्रुतेः, पुनरुभयाभावः सुखदुःखोभयाभावः सिद्धः एकसत्तां सुखसत्तां न हन्ति । एकवत्यपि द्वित्वावच्छिन्नाभावप्रत्ययात् । श्रस्तु वा तत्राप्रियपदसन्निधानात् प्रियपदस्य वैषयिकसुखपरत्वमेवेत्यपि द्रष्टव्यम् । यतः स्मृतम् ॥ २६ ॥
सुखमात्यन्तिकं यत्र, बुद्धिग्राह्यमतीन्द्रियम् ।
तं वै मोक्षं विजानीयाद्, दुष्प्रापमकृतात्मभिः ॥ ३० ॥ सुखमिति - स्पष्टः ॥ ३० ॥ उपचारोऽत्र नावाधात्, साक्षिणी चात्र दृश्यते । नित्यं विज्ञानमानन्दं ब्रह्मेत्यप्यपरा श्रुतिः ॥ ३१ ॥ उपचार इति श्रत्र मुक्तिसुखप्रतिपादिकायाम् उक्तस्मृतौ, उपचारो न दुःखाभावे सुखपदस्य लाक्षणिकत्वम् । श्रबाधादु-बाधाभावात् जन्यस्याप्यभावस्येव भावस्यापि कस्यचिदनन्तत्वसंभवात् । श्रत्र मुक्तिसुखे नित्यं विज्ञानमानन्दं ब्रह्म' इति श्रपराऽपि श्रुतिः साक्षिणी वर्त्तते, तया नित्यशानानन्दब्रह्माभेदबोधनादिति ॥ ३१ ॥
परमानं दलयतां, परमानं दयावताम् । परमान्दपीनाः स्मः, परमानन्दचर्चया ।। ३२ ।। परमानमिनि परेषामेकान्ताभिनिविष्टानां मानं कुबेतुं
Personal Use Only
www.jainelibrary.org