________________
( ३१८ ) श्रभिधानराजेन्द्रः |
मुत्ति
द्धलयतां स्याद्वादमुद्गरेण, किं भूतं ? परः प्रकृष्टो मानो दर्पो यस्मात्तत्तथा । दयावतामनेकान्तप्रणयितया जगदुद्दिधीर्षावतां सिताम्वरसाधूनां परमानन्दचर्चया - महोदयमीमांसया वयं परमेणोत्कृष्टेनानन्देन, पीनाः- पुष्टाः स्मः ॥ ३२ ॥ द्वा० ३१ द्वा० ।
मुक्तिफलम् -
मुत्तीए गं भंते ! जीवे किं जणयइ १, मुत्तीए गं किंचणतं जणयइ, अकिंचणै य जीवे अत्थलोभाणं पुरस्रासं पत्थणिजे भवइ ॥ ४७ ॥
हे भगवन् ! मुक्त्या – निर्लोभत्वेन, जीवः किं जनयति ? गुरुराह - हेशिष्य ! मुक्त्या अकिञ्चनत्वम् - निष्परिग्रहत्वम् उत्पादयति । अकिञ्चनत्वेन जीवः अर्थ लोभानाम् श्र प्रार्थनीयो भवति, कोऽर्थः - योऽकिञ्चनो - निष्परिग्रहो भवतिस पुरुषोऽर्थे लोभो येषां तेऽर्थ लोभाः द्रव्यार्थिनश्चौरादयः पुरुषास्तेषाम् श्रप्रार्थनीयः - तैरवञ्चमीयः, चौरादयो हि निपरिग्रहं किं कुर्वन्ति, परिग्रहवतां चौरेभ्यो भीतिः स्यात् । उत्त० २६ श्र० । अशेषकर्मप्रच्युतौ सूत्र० २ श्रु० २ ० । भवोपप्रा हिकर्मभ्यः प्रच्युतौ, पं० सं० २ द्वार । कर्म० । ध० । मोक्षगतौ, श्रातुः । निःसङ्गतायाम्, श्रा० चू० ४ श्र० । मुच्यन्ते सकलकर्मभिर्यस्यामिति मुक्तिः । ईषत्प्राग्भारायां पृथिव्याम्, स्था० ८ ठा० ३ उ० । परमपदे, " लोगं परमपयं मुत्ती सिद्धी सिवं च निव्वाणं " पाइ० ना० २० गाथा । मूर्ति - स्त्री० । शरीरे, विशे० । “ मुक्ती गतं बुंदी संघयं निग्गहो तर काओ 95 पाइ०ना० ५६ गाथा । आ० म० । स्था० । वर्णादिमस्त्रे, यद्योगान्मूर्त भवति । स्था० ४ ठा० १ उ० । गुणविशेषाश्रये सम्म० । " व्यक्तिर्गुणविशेषाश्रयो मूर्त्तिः " [ न्यायद० श्र० २ श्र० २ सू० ६६ ] इति । श्रस्यार्थो वार्त्तिककारमतेन - “विशिष्यत इति विशेषः गुणेभ्यो विशेषो गुणविशेषः कर्माभिधीयते, द्वितीयश्चात्र गुणविशेषशब्द एकशेषं कृत्वा निर्दिष्टः तेन गुणपदार्थों गृह्यते - गुणाश्च ते विशेषाश्च गुणविशेषाःविशेषग्रहणमाकृतिनिरासार्थम् । तथाहि श्राकृतिः संयोगविशेषस्वभावा, संयोगश्च गुणपदार्थान्तर्गतः ततश्चासति विशेषग्रहणे श्रकृतेरपि ग्रहणं स्यात् न च तस्या व्यक्लावन्तर्भाव इष्यते पृथक् स्वशब्देन तस्या उपादानात् । श्राश्रयशब्देन द्रव्यमभिधीयते - तेषां गुणविशेषाणामाश्रयस्तदाश्रयो द्रव्यमित्यर्थः सूत्रे 'तत्' शब्दलोपं कृत्वा निर्देशः कृतः, एवं च विग्रहः कर्त्तव्यः - गुणविशेषाश्च गुणविशेषाश्चेति गुणविशेषाः तदाश्रयश्चेति गुणविशेषाश्रयः, समाहारद्वन्द्व श्चायम् “ लोकाश्रयत्वात् लिङ्गस्य " [ श्र० २ पा० २ ० २६ महाभाष्ये पृ० ४७९ पं० ८ ] इति नपुंसकलिङ्गाऽनिर्देशः । तेनायमर्थो भवति - योऽयं गुणविशेषाश्रयः सा व्यक्तिचोच्यते मूर्त्तिश्चेति। तत्र यदा द्रव्ये मूर्तिशब्दस्तदाऽधिकरणसाधनो द्रष्टव्यः मूर्छम्त्यस्मिन्नवयवा इति मूर्त्तिः, यदा तु रूपादिषु तदा कर्तृसाधनः- मूर्च्छन्ति द्रव्ये समवयन्तीति रूपादयो मूर्त्तिः । व्यक्तिशध्दस्तु द्रव्ये कर्म्मसाधनः रूपादिषु क. रणसाधनः " [ ० २ श्र० २ सू० ६८ न्यायवा० पृ० ३३२
Jain Education International
Sarve
पं० ३-२४ ] भाष्यकारमतेन च यथाश्रुति सूत्रार्थः - गुणविशेषाणामाश्रयो द्रव्यमेव व्यक्क्रिर्मूर्त्तिश्चेति तस्यैष्टम् । यथोलम् - "गुणविशेषाणां रूप-रस- गन्ध-स्पर्शानाम् गुरुत्व-द्रवत्व - घनत्व - संस्काराणाम् श्रव्यापिनश्च परिमाणविशेषस्याश्रयो यथासम्भवं तद् द्रव्यं मूर्त्ति ( मूर्त्तिः ) मूच्छितावयवत्वात् " [ न्यायद० वात्स्या० भा० पृ० २२४ ] इति । सम्म० १ काण्ड १ गाथा ।
मुत्तिअट्ठिन् - मुक्त्यर्थिन् - पुं० । मुक्तेः परमपदस्यार्थी अभिला श्री । कैवल्यसुखार्थिनि ध० ३ अधि० । मुत्तिश्रदोस - मुक्त्यद्वेष- पुं० । मनाङ्मुक्त्यनुरागे, द्वा० । उक्तेषु पूर्व सेवाभेदेषु मुक्त्यद्वेषं प्राधान्येन पुरस्कुर्वन्नाहउक्तभेदेषु योगीन्द्रे - मुक्त्यद्वेषः प्रशस्यते । मुक्त्युपायेषु नो चेष्टा, मलनायैव यत्ततः ॥ १ ॥ ( उक्तभेदेष्विति ) मलनायैव - विनाशनिमित्तमेव तद्धिभवोपायोत्कटेच्छया स्यात् । सा च न मुक्त्यद्वेष इति मुक्त्युपायमलनाभावप्रयोजकोऽयम् ।
विषान्नतृप्तिसदृशं, तद्यतो व्रतदुर्ग्रहः ।
उक्तः शास्त्रेषु शस्त्राग्नि- व्यालदुर्ग्रहसन्निभः ॥ २ ॥ (विषेति ) तन्मुक्त्युपायमलनं विषाऽन्नतृप्ति सदृशम् श्रापाततः सुखाभासहेतुत्वेऽपि बहुतरदुःखानुबन्धित्वात् । यद् - यस्माद् व्रतानां दुर्ग्रहो ऽसम्यगङ्गीकारः उक्तः । शास्त्रेषु योगस्वरूपनिरूपकग्रन्थेषु शस्त्राग्निव्यालानां यो दुर्ग्रहो-दुगृहीतत्वं तेन सन्निभः सदृशः श्रसुन्दरपरिणामत्वात् ॥२॥
,
द्वा० १३ द्वा० ।
संमोहादननुष्ठानं, सदनुष्ठानरागतः ।
तद्धेतुरमृतं तु स्याच्छ्रद्धया जैनवर्त्मनः ॥ १३ ॥ ( संमोहादिति ) संमोहात् संनिपातोपहतस्येव सर्वतोsनध्यवसायादननुष्ठानमुच्यते, अनुष्ठानमेव न भवततिकृत्वा । सदनुष्ठानरागतस्तात्विकदेवपूजाद्याचारभावबहुमाना
विधार्मिककालभाविदेवपूजाद्यनुष्ठानं तद्धेतुरुच्यते । क्यद्वेषेण मनाग् सुक्त्यनुरागेण वा शुभभावलेश संगमादस्य सदनुष्ठानहेतुत्वात्, जैनवर्त्मनो - जिनोदितमार्गस्य, श्रद्धया इदमेव तत्त्वमित्यध्यवसायलक्षणया त्वनुष्ठानममृतं स्याद्, श्रमरणहेतुत्वात् । तदुक्तम्- " जिनोदितमिति त्वाहुर्भावसारमदः पुनः । संवेगगर्भमत्यन्त-ममृतं मुनिपुङ्गवाः ! ॥ १ ॥ " ॥ १३ ॥ द्वा० १३ द्वा० | मुत्तिणिलय-मुक्तिनिलय-पुं० । शत्रुञ्जये, ती० १ कल्प । मुत्तित्थि - मुक्तिस्त्री-स्त्री० । मुक्तिरूपयोषिति, “मुञ्चाग्रहमिमं मात- मनुषीषु न मे मनः । मुक्तिस्रो सङ्गमोत्कण्ठ- मकुठमवतिष्ठते ॥ १ ॥ " कल्प० १ अधि० ७ क्षण ।
मुत्तिधारापुडग - मुक्तिधारापुटक- न० । मुक्तिसम्पुटे, प्रश्न०५
स
संव० द्वार ।
मुत्तिपह- मुक्तिपथ - पुं० । मोक्षमार्गे. 'ज्ञानदर्शनचारित्राणि सस्यग्दर्शनज्ञानचरित्राणि मोक्षमार्ग' इति । नं० ।
For Private & Personal Use Only
www.jainelibrary.org