________________
( १३२४ ) अभिधानराजेन्द्रः ।
बिहार
र्यात्, स्त्री वा नपुंसको वा तमेकाकिनमुदारशरीरं दृष्ट्वा बलादपि गृह्णीयात् तिर्यञ्चो या दुष्गवादयस्तमभिघातयेयुः, तिर्यग्योनिकां वा स एकाकी प्रतिसेवेत, यो वा अवधावनप्रेक्षी स एकाकी निर्गतः सन् तत एवमपज्ञायेत, स्त्रिया वा पण्डकेन वा प्रतिस्खलितः सन् भग्नवतोऽहं जात इति बुद्ध्या वैहायसमुद्बन्धनं कुर्यात्, व्यालेन वा सर्पेण दश्येत् मूर्छा या तत्र गतस्य भवेत् तद्वशेन भूमौ प्रपतेत् । तस्य परितापमद्दादुःखप्रभृतयो दोषाः ।
अस्या एव गाथाया लेशतो व्याख्यानमाहथडे तिरंगी य, खलितो बेहाणसं च श्रोधावे । तणोवधीसरीरे, गहणाऽऽदी मारणं जोये ।। १०६२ ।। स्त्रियां पण्डके तिर्यग्योनिकायां वा स्खलितो-मैथुनप्रतिसेवनया अपराधमापन्नः सन् भग्नव्रतस्य किं मे जीवितेनेति बुद्ध्या वैहायसमभ्युपगच्छेत् । यो वा अवधावनप्रेक्षी स तत एवावधावेत् । शेषाणि सप्त द्वाराणि तेषु यथाक्रममेते दोषाः । तद्यथा - स्तेनेषूपधिशरीरग्रहणम् । आरक्षिकेषु ग्रहणाऽऽकर्षणादि देशेषु तु श्वापदादिभारणमुपघातः संयतस्य भवतीति योजयेत् — योजनं कुर्यात् ।
यत एवमतः -
दुपभि अम्मा, ण य सहसा साहसं समायरति । वारेति च णं वितिओ, पंच य सक्खी उ धम्मस्स । १०६३ । द्विप्रभृतयः साधवो रात्रौ कायिकीभूमौ गच्छन्तः स्तेनारक्षकादीनामगस्या भवन्ति, न च द्वितीये साधौ तटस्थे सति सहसा साहसं - मैथुनप्रति सेवनवैहायसादि समाचरति, समाचरितुकाममपि तमात्मद्वितीयः साधुर्वारयति । यतो धर्मस्य पञ्चमहाव्रतस्य पञ्च साक्षिणो भवन्ति । तद्यथा - अर्हन्तः सिद्धाः साधवः सम्यग्दृष्टयो देवा श्रात्मा चेति । श्रतः साधौ तृतीयसाक्षिणि पार्श्ववर्त्तिनि न सहसा साहसं समाचरति, एवं तावत्कायिकी भूमिमङ्गीकृत्योक्तम् ।
अथोच्चारभूमिमधिकृत्याहएए चैव य दोसा, सविसेसुन्चारमायरंतस्स | सबितिजगणिक्ख मरणे, परिहरिया ते भवे दौसा । १०६४ | एत एव स्तेनारक्षिकादयो दोषाः सप्रायश्चित्ताः सविशेषाःसमधिका रजन्यामैकाकिन उच्चारमाचरतो मन्तव्याः । यदा तु विचारभूमौ गच्छन् सद्वितीयः प्रतिश्रयान्निष्क्रमकरोति तदा स्तैन्यादयो दोषाः परिहृता भवेयुः । कथमित्याहजति दोपि तिमि वेदितु, खेति तेणभए वातिदारेको । सावयभयम्मिएको, णिसिरति तं रक्खती बितिश्रो १०६५ । यदि द्वौ संयतौ कायिकीभूमौ निर्गच्छतः तदा यस्तत्र जागर्ति तस्य निवेद्य द्वावपि निर्गच्छतः । स्तेनभये तु ततो द्वयोर्मध्यादेको द्वारे तिष्ठति, द्वितीयः कायिकीं व्युत्सृजति । अथ श्वापदादिभये एकः तत्र कायिक निसृजति, द्वितीयो दण्डकवस्तस्तं कायिकी व्युत्सृजन्तमात्मानं च रक्षति ।
Jain Education International
For Private
बिहार (३५) अथैकाकिनो यतना प्रतिपाद्यते - सभया सति मत्तस्स, एक्को उवओोगदंड हत्थे । वतिकुते कडिं, कुणति य दारेऽवि उपभोगं ।। १०६६ ।। यदि समयं द्वितीयस्य तत्राऽभावः, ततः मात्रके व्युत्सर्जनीयम् । अथ मात्रकं न विद्यते तत उपयोगं कृत्वा दण्डकं हस्ते गृहीत्वा वृतेर्वा कुड्यस्य वा अन्तेन - पार्श्वेन कटिं कृत्वा कायिक व्युत्सृजति । द्वारेऽपि स्तेनादिप्रवेशविषयमुपयोगं करोति
बितियपदे तु गिलाण - स्स, कारणा महव होज एगागी । पुञ्चट्ठियनिद्दोसे, जतणाऍ पिवेदि उच्चारे ||१०६७|| द्वितीयपदे तु ग्लानस्य कारणादेकोऽपि निर्गच्छेत् । श्रथवा स साधुशिवादिभिः कारणैरेकाकी भवेत्, यद्वा-तत्र पूर्व निर्दोषं निर्भयमिति मत्वा स्थितः पश्चात्सभयं सञ्जातं तत्राऽपि यतनया निवेद्य तथैवोच्चारभूमौ वा गच्छन्ति ।
अथ ग्लानस्य कारणादिति पदं व्याख्यानयतिएगो गिलाणपासे, बितिओ पुच्छिऊण तं नीति । चिरगतगिलाणमितरो,जग्गंते पुच्छिउं गीति ॥ १०६८ ।। इह ते प्रयो जनाः, तेषां च मध्ये एको ग्लानो विद्यते, एकश्च तस्य ग्लानस्य पार्श्वे तिष्ठति, द्वितीयस्तमापृच्छय कायिकयादिभूमौ निर्गच्छति । स च यदि चिरगतो भवति तत इतरो ग्लानस्य पार्श्वे स्थितो ग्लानं जाग्रतमापृच्छ्य निर्गच्छति ।
जहि यं पुण ते दोसा, तेणाऽऽदीया ण होज पुव्वृत्ता । एकोऽवि णिवेदेतुं, तो वि तहिं णऽतिक्कमति । १०६६ ।। यत्र पुनस्ते पूर्वोक्ताः स्तेनादयो दोषा न भवन्ति तत्रैकोऽपि साधूनां जाग्रतां निवेद्य निर्गच्छन् भगवदाशां नातिक्रामति । एवं विचारभूमिविषयो विधिरुक्तः ।
अथ विहारभूमिविषयमाह
बहिया विहारभूमी, दोसा ते चैव हियछकाया । पुव्वदिट्ठे य कप्पर, बितियं आगाढसंविग्गो ॥ १०७० ॥ प्रतिश्रयाद्वहिर्विहारभूमौ स्वाध्यायभूमौ रात्रावेकाकिनो गच्छतस्तत एव स्तेनारक्षिकादयो दोषा भवन्ति, अधिकाश्च पायविराधनानिष्पन्नाः । द्वितीयमपवादपदमत्रोच्यते कल्पते रात्रावपि स्वाध्यायभूमौ पूर्वदृष्टायां दिवा प्रत्युपेक्षितायां गन्तुं तत्राप्यागाढकारणे यः संविग्नः स गच्छति । श्रथाऽऽगाढपदं व्याचष्टे
ते तिमि दोष्णी अहवेकतूर्ण
एवं च सुत्तप्पसगासमस्स । समातियं णत्थि रहस्ससुतं,
याऽवि पेहाकुसलो स साहू || १०७१ ॥ ते साधवो रात्रौ विहारभूमौ गच्छन्त उत्सर्गतस्त्रयो जना गच्छन्ति, त्रयाणामभावे द्वौ गच्छतः । श्रथ ग्लानादिकार्यव्यापृततया द्वितीयोऽपि न प्राप्यते एवमेकाक्यपि गच्छेत् । किमर्थमित्याह- अस्य - विवक्षित साधोर्नवम् - अधुनाऽधीतं
Personal Use Only
www.jainelibrary.org