________________
बिहार
(१२६४) अभिधानराजेन्द्रः ।
पडिलेहसंकमविही, ठिए य मेरं परिकहेऽहं ।। ६२० ॥' वर्षावासे प्रतीते - अतिक्रान्ते अष्टसु ऋतुबद्धमासेषु वारो मासे मासे क्षेत्रान्तरगमनलक्षणो विहारो भवति श्रतः शरदादिरयं मन्तव्यः । तत्र च क्षेत्रप्रत्युपेक्षणाविधि क्षेत्रान्तरसंक्रमणविधि प्रत्युपेक्षिते च क्षेत्रे 'ठिए' त्ति स्थितानां सतां या काचिन्मर्यादा तामहं परिकथयिष्यामि ।
प्रतिज्ञातमेव यथाक्रमं व्याचिख्यासुराहनिग्गमम्मिय पुच्छा, पत्तमपत्ते इत्थिए वाऽवि । वाघायम्मि अपत्ते इत्थिए तस्स असतीए ॥ ६२१|| यत्र वर्षावासः कृतस्ततः क्षेत्रान्निर्गमने पृच्छा, किं कार्त्तिक. चतुर्मासिके निर्गन्तव्यम्, उताऽप्राप्ते श्राहोस्विदतिक्रान्ते ।। उच्यते - यदि कोऽपि व्याघातस्तदा श्रप्राप्ते या श्रतिक्राते वा निर्गच्छन्ति तस्य व्याघातस्याऽसत्यभावे प्राप्ते चातुर्मासिकदिने मार्गशीर्षप्रतिपदि निर्गत्य बहिर्गत्वा पारयन्ति ।
कः पुनव्यार्घात इत्याहपत्तमपत्ते रिक्खं, असाइमं पुत्रमासिणिमहो वा । पडिकूल त्तिय लोगो, मा वोच्छिह तो अईअम्मि । ६२२ | प्राप्ते चातुर्मासिक दिवसे अप्राप्ते वा यथाऽऽवार्याणाम् ऋऋदक्षं नक्षत्रमसाधकम् - अननुकूलं पूर्णमासीमहो वा तदा भवेत् कार्त्तिकीमहोत्सव इत्यर्थः । तत्र च लोको निर्गच्छन् साधून् दृष्ट्वा श्रमङ्गलं मन्यमानः प्रतिकूला अस्मिन्महोत्सवप्रतिपन्थिनोऽमी इत्येवमावश्यति ततोऽतीते निर्गन्तव्यम् ।
पत्ते इत्थिए वा, असाहगं तेरा गिति अप्पत्ते । नाऊं निग्गमकालं, पडिचरए एस बिंति तहा ||६२३|| प्राप्ते अतिक्रान्ते वा निर्गमनकाले नक्षत्रमसाधकम्, उपलक्षणत्वान्मेघो वा वर्षणानोपरंस्यते, पन्थानः कईमदुर्गमाश्च भविष्यन्तीत्यतिशयज्ञानवशेन परिशाय तेन कारणेनाप्राप्ते चातुर्मासके निर्गच्छन्ति, निर्गमनकालं ज्ञात्वा प्रतिवरकान् — क्षेत्रप्रत्युपेक्षकान् प्रेषयन्ति । तथा तेष्वायातेषु सत्सु निर्गमनकाल उपढौकते । तच क्षेत्रं द्विधा दृष्टपूर्वम्, अदृष्टपूर्व च । उभयमपि नियमेन प्रत्युपेक्षणीयम् । कुत इति चेदुच्यते
अप्पडिलेहिऍ दोसा, वसही भिक्खं च दुल्लहं होआ । बालाइगिलाणाण व, पाउग्गं अहव सज्झाओ ॥ ६२४ ॥ अप्रत्युपेक्षिते क्षेत्रे गच्छतामेते दोषाः । सा पूर्वदृष्टा वसतिः स्फोटिता पतिता वा भवेत् श्रन्ये वा साधवस्तत्र स्थिता बा भवेयुः, भैक्षं वा दुर्लभं भवेत्, दुर्भिक्षाऽऽदिभावात् बालादीनां ग्लानानां वा प्रायोग्यं दुर्लभं भवेत्, स्वाध्यायो वा दुर्लभः स्यात् ; मांसशोणितादिभिरस्वाध्यायिकैराकीरत्वात् ।
यतचैवमतः किं विधेयमित्याहतम्हा पुत्र पडिले - हिऊण पच्छा विहीऍ संकमणं । पेसह जह अणापु-च्छिउं गणं तत्थिमे दोसा || ६२५।।
Jain Education International
For Private
विहार तस्मात्पूर्व प्रत्युपेक्ष्य पश्चाद्विधिना संक्रमणं तत्र कर्त्तव्यम् । श्रथाप्रत्युपेक्षिते व्रजन्ति ततश्चतुर्लघु, श्राशाभने चतुर्गुरु, अनवस्थायां चतुर्लघु । यद्वा - संयमविराधनादिकं प्राप्नुवन्ति तनिष्पन्नं प्रायश्चित्तम् । यदि पुनराचार्यो गणं गच्छुमनापृच्छय क्षेत्रे प्रत्युपेक्षकान् प्रेरयति तदा मासलघु ।
तत्र च गणमनापृच्छ्य प्रेषणे इमे दोषाः
खा साव-मसगा, ओम - ऽसिवे सेह - इत्थि - पडिणीए । थंडिल्लवसहि उट्ठा-ण एवमाई भवे दोसा ।। ६२६ ॥ स्तेना द्विविधाः- शरीरस्तेना, उपधिस्तेनाश्च । श्वापदा:सिंहव्याघ्रादयः मशकाः प्रतीताः अवमं- दुर्भिक्षम् श्रशिवं - व्यन्तरकृतोपद्रवः शैक्षस्य वा तत्र मारिकं स्त्रियो वा स्नेहोद्रेकबहुलाः साधूनुपसर्गयन्ति, प्रत्यनीको वा को 5प्युपद्रवति, स्थण्डिलानि वा तत्र न विद्यन्ते, वसतिर्षा नास्ति, उट्ठाणे ' त्ति उत्थितः स देशः एवमादयस्तत्रापातराले पथि गच्छतां दोषा भवन्ति ।
तत्र स्थाने प्राप्तानां पुनरिमे दोषाःपश्चंत तावसीओ, सावय दुब्भिक्ख तेणपउराई | नियगयउप्पव्वायण, फेडण्या हरियपत्तीए ॥ ६२७ ॥ स ग्रामः प्रत्यन्तो म्लेच्छाद्युपद्रवोपेतः, तापस्यो वा तत्र प्रचुरमोहाः संयमात्परिभ्रंशयन्ति, श्वापद्भयं दुर्भिक्षः, स्तेनप्रचुराणि च तानि क्षेत्राणि, शिक्षकस्यान्यस्य वा कस्याs पि साधोस्तत्र निजकाः स्वजनास्ते तमुत्प्रवाजयन्ति, प्रद्विष्टो वा प्रत्यनीकस्तत्र साधूनुपद्रवति, उत्थितो वा सग्रामः स्फुटिता वा सा वसतिः स्फिटितानि वा परिणामितानि तानि कुलानि येषां निश्रया तत्र गम्यते । अत्र चूर्णिकृत् -" फिडियाणि वा ताणि कुलाणि जेसि निस्साए गम्मइ " ति हरियपसीए' सि हरितपत्रशाकं बाहुल्येन तत्र भक्ष्यते । अथवा-तत्र देशे केषुचिद्गृहेषु राज्ञा दण्डं दत्त्वा देशतापहारार्थमागन्तुकः पुरुषो मार्यते, गृहस्य चोपरिष्टादावृक्षशाखाचिह्नं क्रियते, एतेन चिहेना ऽस्माभिराक्यात मेवाभवद् यन्मारणेऽप्यस्माकं न दोष इति, यत एते दोषा अतः सर्वमपि गणमामन्य क्षेत्रप्रत्युपेक्षकाः प्रेषणीयाः ।
यदि पुनर्न सर्वमपि गणमामन्त्रयते तत एते दोषाः । सीसे जइ श्रमंते, पडिच्छगा तेरा बाहिरं भावं । जर इअरे तो सीसा, तेऽवि समत्तम्मि गच्छति ॥ ६२८ ॥ तरुणा बाहिरभावं न य पडिलेडोवहिं न किइकम्मं । मूलगपत्तसरिसगा, परिभूया वचिमो थेरा ॥ ६२६ ॥ यद्याचार्यः शिष्यान् केवलानामन्त्रयति कस्यां दिशि क्षेत्रप्रत्युपेक्षकाः प्रेषयितुमुचिता इति ततो मासलघु, श्राशादयश्च दोषाः प्रतीच्छुका तेन कारणेन बाह्यं भावं गच्छेयुः । श्रहो अद्य शिष्या एवामीषां सर्वकार्येषु प्रमाणं न वयमित्यतो रागद्वेषदूषितत्वात्को वा नामामीषामुपकण्ठे स्थास्यतीति । यदि इतरान् प्रतीच्छुकानामन्त्रयति ततः शिष्याः बर्हिर्भावं गच्छेयुः, प्रतीच्छुका एव तावदमीषां प्र
Personal Use Only
www.jainelibrary.org