________________
(११७६) अभिधानराजेन्द्रः ।
विषय
नूनमन्पश्रुतस्यापि, गुरोराचारशालिनः । हीलना भस्मसात्कुर्याद्, गुणं वह्निरिवेन्धनम् ।। १० । 'नूनमिति' नूनं - निश्चितमल्पश्रुतस्याप्यनधीतागमस्यापि कारणान्तरस्थापितस्य गुरोराचार्यस्याचारशालिनः पञ्चविधाचारनिरतस्य हीलना गुणं स्वगतचारित्रादिकं भस्मसात् कुर्यात् इन्धनमिव वह्निः ॥ १० ॥ शक्त्यग्रज्वलनन्याल - सिंहक्रोधातिशायिनी । अनन्तदुःखजननी, कीर्तिता गुरुहीलना ॥ ११ ॥ शक्त्यप्रेति-शक्तिः प्रहरणविशेषस्तदग्रं शक्त्य, ज्वलनोऽग्निः व्यालसिंहयोः - सर्पकेसरिणोः क्रोधः - कोपः, तदतिशायिनी - तेभ्योऽप्यधिका अनन्तदुःखजननी गुरुहीलना कीतिता दशवेकालिके ॥ ११ ॥
पठेद्यस्यान्तिके धर्म-पदान्यस्यापि सन्ततम् । कायवाङ्मनसां शुद्धया, कुर्याद्विनयमुत्तमम् ॥ १२ ॥ पठेदिति - यस्यान्तिके धर्मपदानि-धर्मफलानि सिद्धान्तपदानि पठेत् । अस्य सन्ततमपि निरन्तरमपि न तु सूत्रग्रहणकाल एव, कुशलानुबन्धव्यवच्छेदप्रसङ्गात् । कायवानसां शुद्धा उत्तमं विनयं कुर्यात् ॥ १२ ॥ पर्यायेण विहीनोsपि, शुद्धज्ञानगुणाधिकः । ज्ञानप्रदानसामर्थ्यादतो रत्नाधिकः स्मृतः ॥ १३ ॥ पर्यायेणेति - श्रतो धर्मपाठकस्य सदा विनयाईत्वात् पर्या येण चारित्रयर्यायेण विहीनोऽपि शुद्धज्ञानगुणेनाधिको शानप्रदानसामार्थ्यमधिकृत्य रत्नाधिकः स्मृत श्रावश्यकादौ । स्वापेक्षितरत्नाधिक्येन तस्वव्यवस्थितेः । विवेचितमिदं सामाचारीप्रकरणे ॥ १४ ॥
शिल्पार्थमपि सेवन्ते, शिल्पाचार्य जनाः किल । धर्माचार्यस्य धर्मार्थ, किं पुनस्तदतिक्रमः ॥ १४ ॥ शिल्पार्थमिति व्यक्तः ॥ १४ ॥
ज्ञानार्थ विनयं प्राहु-रपि प्रकटसेविनः ।
अत एवापवादेना- न्यथा शास्त्रार्थबाधनम् ॥ १५ ॥ शानार्थमिति श्रत एव ज्ञानादिग्रहणे विनयपूर्वकत्वनियमस्य सिद्धान्तसिद्धत्वादेवापवादेन ज्ञानार्थे प्रकटसेविनो ऽपि विनयमाहुः, पर्यायादिकारणेष्वेतदन्तर्भावात् । अन्य था तथाविधकारणेऽपि तद्विनयानादरे शास्त्रार्थबाधनं शाखाशाव्यतिक्रमः । तदुक्तम्- "एयाइँ श्रकुव्वतो, जहारिहं श्ररिहदेसिए मग्गे । णं हवद्द पवयणभत्ती, अभत्तिमतादश्रो दोसा ॥१॥" |
नन्वेवमपवादतोऽपि प्रकटप्रतिषेविणोऽगृहीतग्रहिलनुपन्यायेन द्रव्यवन्दनमेव यदुक्तं तद्भङ्गापत्तिर्ज्ञानगुणबुद्धया तइन्दने भाववन्दनावतारादित्याशङ्कय तदुक्तिप्रायिकत्वाभिप्रायेण समाधत्ते
न चैवमस्य भावत्वाद्, द्रव्यतोक्तिर्विरुध्यते । सद्भावकारणत्वोक्ने-र्भावस्याप्यागमाख्यया ।। १६॥ न चैवमिति - न चैवं ज्ञानार्थ प्रकटप्रतिषेविणोऽपि विनयकरणेऽस्य शानार्थविनयस्य भावत्वाद्द्रव्यत्वाक्शिरापवा
Jain Education International
For Private
विण्य दिकविनयस्योपदेश पदादिप्रसिद्धा विरुध्यते भावस्यापि श्रागमाख्यया - आगमनाम्ना सद्भावकारणत्वोक्तः पुष्टालम्बनत्ववचनादस्वारसिक कारणस्थल एवोशनियमादिति । भावलेशस्तु मार्गानुसारी यत्र कचिदपि मार्गोद्भासनार्थ वन्दनादिविनयाईतानिमित्तमेव श्रूयते । यदुक्तं बृहत्कल्पभाष्ये - " दंसणनाणचरितं तवविण्यं जत्थ जत्तियं पासे । जिणपन्नन्तं भक्ती - इ पूयए तं तर्हि भावं " ॥ १६ ॥ विनयेन विना न स्या - जिनप्रवचनोन्नतिः | पयःसेकं विना किं वा, वर्धते भुवि पादपः ॥ १७ ॥ विनयं ग्रामाणो यो, मृदुपायेन कुप्यति । उत्तमां श्रियमायान्तीं, दण्डेनापनयत्यसौ ॥ १८ ॥ त्रैलोक्येऽपि विनीतानां दृश्यते सुखमङ्गिनाम् । त्रैलोक्येऽप्यविनीतानां, दृश्यतेऽसुखमङ्गिनाम् ॥१६॥ ज्ञानादिविनयेनैव, पूज्यत्वाप्तिः श्रुतोदिता । गुरुत्वं हि गुणापेचं, न स्वेच्छामनुधावति ॥ २० ॥ विनये च श्रुते चैव तपस्याचार एव च । चतुर्विधः समाधिस्तु, दर्शितो मुनिपुङ्गवैः ॥ २१ ॥ शुश्रूषति विनीतः सन् सम्यगेवावबुध्यते । यथावत् कुरुते चार्थ, मदेन च न माद्यति ॥ २२ ॥ श्रुतमेकाग्रता वा मे, भविताऽऽत्मानमेव वा । स्थापयिष्यामि धर्मेऽन्यं, वेत्यध्येति सदागमम् ॥२३॥ कुर्यात्तपस्तथाऽऽचारं, नैहिकामुष्मिकाशया ।
द्यर्थं च नो किंतु, निष्कामो निर्जराकृते ॥ २४ ॥ इत्थं समाहिते स्वान्ते, विनयस्य फलं भवेत् । स्पर्शाख्यं स हि तचाप्ति - बधमात्रं परः पुनः ॥ २५ ॥ अक्षेपफलदः स्पर्श - स्तन्मयी भावतो मतः । यथा सिद्धरसस्पर्श - स्ताम्रे सर्वानुवेधतः ।। २६ । इत्थं च विनयो मुख्यः, सर्वानुगमशक्तितः । मिष्ठान्नेव सर्वेषु निपतनिक्षुजो रसः ।। २७ ।। दोषाः किल तमांसीव, क्षीयन्ते विनयेन च । प्रसृतेनांशुजालेन, चण्डमार्तण्डमण्डलात् ॥ २८ ॥ श्रुतस्याप्यतिदोषाय, ग्रहणं विनयं विना । यथा महानिधानस्य, विमानधनसन्निधिम् ॥ २६ ॥ विनयस्य प्रधानत्व - द्योतनायैव पर्षदि । तीर्थं तीर्थपतिर्नत्वा कृतार्थोऽपि कथां जगौ ॥ ३० ॥ for fact यैस्तु शुश्रूषोऽपि परैरपि । तैरप्यग्रे सरीभूय, मोक्षमार्गो विलुप्यते ॥ ३१ ॥ नियुक्ते यो यथास्थान - मेनं तस्य तु सन्निधौ स्वयंवराः समायान्ति परस्य रतिसंपदः ॥ ३२ ॥ अर्थः स्पष्टः ॥ ३२ ॥ द्वा० २६ द्वा० ।
I
Personal Use Only
www.jainelibrary.org