________________
(४४६) अन्निधानराजेन्द्रः।
पमाया
पमाग
तदा तत्करान नराणां रूपदर्शनजननप्रकृताः यथा त एव वासरे उलूकाऽऽदीनाम्, भावशक्तीनां विचित्रत्वात्, तस्मादनुपलम्भात् क्षपायां यथा नभास्करकरास्तथा नायना रश्मयोsन्यदेति स्थितम् । यदपि परेण प्रोक्तम्-दूरस्थितकुड्याऽऽदिप्रतिफलितानामन्तराले गच्छतां प्रदीपरश्मीनां सतामप्यनुपलम्भदर्शनानानुपलम्भात् तदभावसिद्धिरिति,तदप्यनेनैव निरस्तम् । रविरश्मीनामपि पायामभावासिद्धिप्रसक्नेः। किं चयोगिन आत्ममन संयोगो यदा सदसवर्गाऽऽलम्बनमेकं शानं जनयति तदा सकलसदसद्वर्गः तस्य चेत्सहकारी तर्षर्थवत् प्रमाणमित्यत्रार्थः सहकारी, यस्य विशिष्टप्रमितौ प्रमातृप्रमे याभ्यामर्थान्तरं तदर्थवत्प्रमाणमिति विरुध्यते । सहकारीचेदसौ देशाऽऽद्यन्तरितोऽपि तर्हि तत्कुड्याऽऽदेः प्रभासुरतयोत्पत्तीप्रदीपो देशव्यवहितोऽपिसहकारीति नान्तराले तद्र. श्मिसिद्धिः। ततो न तैरनुपलम्भव्यभिचारः। अत एव ताप्यमानमुदकं तेज उखाऽऽदिव्यवहितमप्युष्णस्पर्श जनयिष्यतीतिनोदके उष्णस्पर्शोपलम्भादनुद्भूतनास्वररूपस्य तेजसःसिद्धिः। यदपि चक्षुः खरश्मिसंबद्धार्थप्रकाशकं तेजसत्वात् प्रदीपवदित्यनुमानम् अनेन किं चक्षुषो रश्मयः साध्यन्ते, उतान्यतः सिद्धानां ग्राह्यार्थसंबन्धस्तेषां साध्यत इति? । आद्य पक्ष तरुणनारीनयनानां दुग्धबलक्षतया भासुररश्मिरहितानामध्यक्षतः प्रतीतेरध्यक्षबाधितकर्मनिदेशान्तरप्रयुक्तत्वेन कालात्ययापदियो हेतुः । अथ यदध्यक्षप्रहणयोग्यसाध्यमध्यक्षत एव तत्र नोपलभ्यते तत्र तद्वाधः कर्मणः । यथा-अनुष्णोऽ. ग्निः,सत्वादिति, न चाध्यक्षग्रहणयोग्या नायना रश्मयः, सदा तेषामदश्यत्वात्,न। पृथिव्यादिद्रव्येऽप्येतेषां साध्यप्रसक्तः (?) तथाहि-रश्मिवन्तो भूम्यादयः, सत्वात्प्रदीपवदित्यप्यवमातुं शक्यत्वात् । यथैव हि तैजसत्वं प्रदीपे रश्मिवत्तया व्याप्तिमुपलब्धं, तथा सवमप्यस्यान्यथाऽपि सम्भवेन तैजसत्वस्येति कुतो विभागः। अथ भूम्यादेस्तत्साधनेऽध्यक्षबाधः। न । दुग्धवलक्षाबलालोचनानामपि तत्साधने तद्विरोधः समानः । अथ वृषवंशवक्षुबोऽध्यक्षतो वीच्यन्ते रश्मय इति कथं तद्विरोधः। ननु यदि तत्र ईक्षन्तेऽन्यत्र किमायातम्. त एवाम्यत्र तत्साधने हेम्नि पीतत्वप्रतीतौरजते पीतत्वप्रसङ्गः। प्रमाणसाधनमुभयत्र तुल्यम् । अथ तत्र तत्प्रतीयन्ते नान्यत्र सत्त्वेन ते साध्यन्ते,अपिच अनुमानतस्तत्तु दृष्टान्तमात्रम्, न म्वत्र नेत्रत्वादिति यदि हेतुः, तैजसत्वादित्यस्याऽऽनथक्यम्। अत एव प्रकृतसिद्धेरध्यक्षबाधा चात्रापि तदवस्थितैव, तैजसत्वादित्यस्य हेतुत्वे प्रदीपदृष्टान्तेनवार्थसिद्धेःवृषदंशनेत्रनिदर्शनमनर्थकम् न च तस्य तैजसत्वं प्रतिसिद्धमिति तत्साधनविकल्पनात् तदपेक्षया दृष्टान्तदोषः न च रश्मिववाद्विडाललोचनस्य तैजसत्वं सिद्ध मण्यादीनामपि तत्प्रसक्तान चरश्मियच्चान्मण्यादीनामपि तैजसत्वम् उष्णप्रभाया एव तैजसत्वात्। अन्यथा तरुणतरुकिशलयानामपि तैजसत्वं स्यात् न च नारीनयनानां तैजसत्वं सिद्धमिति सिद्धो हेतुः। न च रशिमवरवादेव तेषांतत्साध्यते इतरेतराऽऽश्रयदोषप्रसक्तः,सिद्ध भास्वरप्रभावत्वे तैजसत्वसिद्धिस्ततश्च भास्वरप्रभाववेच त. सिद्धिरिति कथं नेतरेतराश्रयदोषः । अथ तैजसत्वं चक्षुषः, रूपाऽऽदीनां मध्यं रूपस्यैवप्रकाशकत्वात्प्रदीपवदित्यतोऽनुमानात् तैजसरबसिद्धेर्नेतरेतराऽऽश्रयदोषः। नन्वत्र भाव
ररूपोष्णस्पर्शतेजोद्रव्यसमवेतगोलकस्य भावकार्यद्रव्यं यदि शब्दवाच्यं तदा तस्य तैजसत्वसाधने अध्यक्षावरोध, तद्विपरीतरूपस्पर्शाऽऽधाररूपतया अध्यक्षतः प्रतिपत्तेः । तथा हि-अबलापारावतबलीवर्दाऽऽदीनां चक्षुषो धवललोहितनीलरूपतयोष्णस्पर्शविकलतया वाऽऽध्यक्षतः प्रतिपत्तिः सिद्धव । न च गोलकव्यतिरिक्तं चक्षः तद्ग्राहकप्र. माणाभावात् सिद्धमित्याश्रयासिद्धिः स्वरूपासिद्धिस्वरूपस्यैव प्रकाशकत्वादिति हेतुरनैकान्तिकश्च । तुहिनकरनिकरेण तस्य रूपस्यैव प्रकाशकत्वेऽप्यतेजसत्वात् । न । त. स्यापि पक्षीकरणाददोषः व्यभिचारविषयस्य पक्षीकरणादेकान्तिकत्वे सर्वत्रानकान्तिकहेत्वभावप्रसक्तेः। न चैवं, जलानलयोः विशेषगुणशङ्करादभेदसिद्धेः । न च तनिकरान्तर्गतं तेजस्तत्रापि रूपप्रकाशकमिति न व्यभिचारः, प्रदीपेडप्यन्यस्य तदन्तर्गतस्य तत्प्रकाशकस्य प्रकल्पनात् दृष्टान्ता. सिद्धिप्रसक्तेः प्रत्यक्षबाधोभयत्र च रूपसम्बन्धेन रूपस्यैव प्रकाशकेन च व्यभिचारः, न चाऽसौ रसाऽऽदेरपि प्रकाशक इन्द्रियान्तरपरिकल्पनाशिफलप्रसक्तः। रूपप्रकाशकत्वं च रूपज्ञानकत्वं, तच्च नीलरूपे विद्यते, अन्यथाऽर्थवत्प्रमाणमित्यप्रार्थसहकारित्वं तस्य न स्यादिति तेन व्यभिचारः। अथ द्रव्यत्वे सति तैजसत्वं करणस्य चक्षुषो रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वादिति विशेषणान सम्बन्धरूपाऽऽभासनमनेकान्तः। ननु यथा सम्बन्धाऽऽदेरद्रव्यादेरप्यतैजसस्य रूपक्षानजननं तथा चक्षुषोऽपि किं स्यात् । न चादर्शनादित्युत्तर समर्थम्, दर्शने निवृत्तेऽनिवर्तकत्वात्प्रदीपवदिति दृष्टान्तस्यापि रूपप्रकाशकत्वासिद्धेः साधनविकलता दृष्टान्तस्य । न च प्रदीपे सति प्रतिनियतप्राणिनां रूपदर्शनसम्भवात्तस्य रूपप्रकाशकत्वमञ्जनाऽऽदिसंस्कृतचक्षुबां तभावेऽपि रूपदर्शनसद्भावात् । न च यदन्तरेणापि यद् भवति न तत्कायमितरत् तत्कारणम्, अन्वयव्यतिरेकनिबन्धनत्वात् तदावस्य । अथ प्रदीपे सति यद् दर्शनं तत्तदभावे न भवति यतु तदभावे भवति न तत्तत्राऽपि तत्सदृशम्,न चान्यस्य च व्य. भिचारे अन्यस्यासौ अतिप्रसङ्गात्। असदेतत्यतो यादृशमेव रूपदर्शनमालोके संस्कृतचक्षुषा तदभावेऽपि तादृशमेव तत्, भेदानवधारणात् । तथाहि-तद्भेदकल्पने न किश्चित् कस्यचिद्वस्तुनः सदृशमिति सौगतमतानुप्रवेशः स्यात्, रूपप्रदीपयोश्च सहोत्पन्नयोर्युगपदर्शने प्रदीपवद्रूपस्याऽपि प्रदीपप्रकाशकत्वाद् रूपं तैजसं भवेत्, अन्यथा न प्रदीपोऽपि तैजसः स्यात्,तजनकत्वाविशेषात्तयोः। न चान्यदा प्रकाशकत्वोपलब्धिसिद्ध एव तदापि प्रकाशकः,अन्यदाऽप्यञ्जनाऽऽदिसंस्कृतचक्षुषां तदभावेऽपि रूपदर्शनसद्भावात् तस्य तत्प्रकाशकत्वासिद्धेः अथ तस्मिन् सति कदाचित्कस्यचिद्रूपदर्शनात्तस्य तत्प्रदर्शकत्वंतर्हि नक्तञ्चराणां संतमसे रूपदर्शनात्, तदभावे तदभावात् हेतुफलभावस्य सर्वत्र तन्निबन्धनत्वात् तमोऽपि रूपप्रकाशत्वात्प्रदीपवत्तैजसं भवेत् अन्यथा हेतोरनेनैव व्यभिचारः स्यात्।ालेोकाभाव एव तम इति चेत्,न,श्रालोकस्याऽपि तमोऽभावरूपताप्रसक्तः। पालोकस्य तरतमादिरूपतयोपलम्भात् नाभावरूपतेति चेत्,न तमस्यप्यस्य समानत्वा त्। यथा चाऽऽलोकः प्रतिभासविषयस्तथा तद्विषयः। न चाऽऽलोकप्रतिभासाभाव एव तम प्रतिभासः,इतरत्राप्यस्य समानत्वात् न च चक्षुापाराभावेऽपि तत्प्रतिभाससंवेदनादा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org