________________
पमा
अन्निधानराजेन्द्रः।
पमागा
उपपत्यन्तरं प्रकटयन्तिन वै सन्निकर्षाऽऽदेरज्ञानस्य प्रामाण्यमुपपन्नम्, तस्याथोंन्तरस्येव स्वार्थव्यवसितौ साधकतमत्वानुपपत्तेः ॥ ४॥ श्रयमर्थः-यथा सम्प्रतिपन्नस्य पटाऽऽदेरर्थान्तरस्याज्ञानरूपस्य स्वार्थव्यवसितौ साधकतमत्वाभावात् प्रामाण्यं नोपपत्तिश्रियमशिश्रियत्, तथा सन्निकर्षाऽऽदेरपि । प्रयोगः-संनिकर्षाऽऽदिर्न प्रमाणव्यवहारभाक्, स्वार्थव्यवसितावसाध. कतमत्वाद्, यदेवं तदेवम्, यथा-पटः, तथा चायम् , तस्मात्तथा ॥४॥ (३) [सन्निकर्षोपरि विचारः] अथाऽस्य साधनस्या
सिद्धिसंबन्धवैधुर्य व्यञ्जयन्तः सूत्रद्वयं बुवतेन खल्वस्य स्वनिर्णीतौ करणत्वं, स्तम्भाऽऽदेरिवाऽचे. तनत्वात् , नाऽप्यनिश्चिती, स्वनिश्चितावकरणस्य कुम्भाऽऽदेरिव तत्राऽप्यकरणत्वात् ॥ ५॥ अस्येति संनिकर्षाऽऽदे,करणत्वं साधकतमत्वम् ।नाऽव्यर्थनिश्चिताविति, अस्य करणत्वमिति योगः। तत्राऽपीति, अर्थनिश्चितावपीत्यर्थः। शेषमशेषमुत्तानार्थम्। प्रयोगौ तु-सन्निकर्षाऽऽदिः स्वनिर्णीतौ करणं न भवति,अचेतनत्वात्य इत्थं स इत्थम् , यथा स्तम्भः,तथा चायम् ,तस्मात्तथा । सन्त्रिकर्षाऽऽदिरर्थनिश्चिती करणं न भवति, स्वनिश्चितावकरणत्वात् , य एवं स एवम् . यथा स्तम्भः, यथोक्तसाधनसंपन्नश्वायम् , तस्माद्यथोक्नसाध्यः।
अत्र केचिद्यौगाः संगिरन्ते"संनिकर्षाऽऽदिर्न प्रमाणव्यवहारभार"इत्यादि यदवापि,तत्रा. 5ऽदिशब्दसूचितकारकसाकल्याऽदेः काममप्रामाण्यमस्तु,सनिकर्षस्य तु प्रामाण्यापकों नोमर्षप्रकर्षसिद्धये,तस्यार्थोपलब्धौ साधकतमत्वावधारणेन स्वार्थव्यवसिताबसाधकतमत्वादित्यत्र हेत्वेकदेशस्य सिद्धेः। यत्तु तत्सिद्धौ साधनमधुनैयाभ्यधुः, तदसाधीयः, प्रदीपेन व्यभिचारात् , तस्य स्वनिश्चितावकरणस्याप्यर्थनिश्चिती करणत्वादिति । तदेतत् त्रपापात्रम् अर्थोपलब्धौ संनिकर्षस्य साधकतमत्वासिद्धेः। यत्र हि प्रमात्रा व्यापारिते सत्यवश्यं कार्यस्योत्पत्तिः, अन्यथा पु. नरनुत्पत्तिरेव, तत्तत्र साधकतमम् , यथा छिदायां दावम् , न च नभसि नयनसंनिकर्षसंभवेऽपि प्रमोत्पत्तिः । रूपस्य सहकारिणोऽभावात् तत्र तदनुत्पत्तिरिति चेत् । कथमसौ रूपेऽपि स्यात् ?, न हि रूपे रूपमस्ति, निर्गुणत्वाद् गुणानाम् । नाऽपि तदाधारभूते द्रव्ये रूपाऽन्तरमस्ति, याववव्यभाविसजातीयगुण द्वयस्य युगपदेकन त्वयाऽनभ्युपगमात् । अवयवगतं रूपमवयविरूपोपलब्धौ सहकारि समस्त्येवेति चेत् । कथं ध्यणुकाऽवयविरूपोपलम्भो भवेत् ?, न हि ब्यणुकल कणाऽवयवत्रयवर्तिरूपमुपलभ्यते, यतः सहकारि स्यात् । अनुपलभ्यमानमपि तत्तत्र सहकारीति चेत्, तर्हि कथं न तप्तपाथसि पावकोपलम्भसं. भवः १ तदवयवेष्वनुपलभ्यमानस्य रूपस्य भावात् । यदि च रूपं सहकारि कल्पते, तदा समाकलितसकलनेत्रगोलकस्य दूराऽऽसन्नतिमिररोगावयविनः कथं नोपलब्धिः ? । अथाऽत्यन्ताऽऽसत्यभावोऽपि सहकारी, न चाइसौ तिमिरेस्तीति चेत् । नन्वियमासत्तिरात्मापेक्षया, श-
११२
रीरापेक्षया, लोचनापेक्षया. तदधिष्ठानापेक्षया वा विवक्षाचक्रे प्रेक्षादक्षण ?। श्राधे कल्पे, कथं कस्याऽपि पदार्थस्योपलब्धिः ?, व्यापकस्याऽऽत्मनः सर्वभावरासत्तिसम्भ. वात् । द्वितीये,कथं करतलतुलितमातुलिङ्गाऽऽदेरुपलम्भः ।। तृतीये, कथं क्वाऽपि चाक्षुषप्रत्यक्षमुन्मज्जेत् ?,चक्षुषः प्राप्यकारित्वकक्षीकारेण सर्वत्र खगोचरेणाऽऽससिसद्भावात् । तुरीये, कथमधिष्ठानसंयुक्ताअनशलाकायाः समुपलब्धिः ।। अथ येनांशेन तस्यास्तत्र संसर्गः स नोपलभ्यत एव । नैवम् , अवयविनो निरंशत्वेन स्वीकारात् । अपि च-कथ. मुदीची प्रति व्यापारितनेत्रस्य प्रमातुन काञ्चन काञ्चनाचलोपलब्धिमनुभवामः । न च दवीयस्त्वान्न तत्र नेत्ररश्मयः प्रसतुं शक्काः, तेषां शशाङ्केऽपि प्रसरणाभावाऽऽपत्तेः। अथ तदालोकमिलितास्ते वर्धन्ते, तर्हि खरतरफरनिकरनिरन्तराऽऽपूरितविष्टपोदरे मरीचिमालिनि सति सुतरां सुरादिमभिसर्पतां तेषां वृद्धिर्भवेत् । न च दिनकरमरीचीनां नितरां कठोरत्वेन तैस्तेषां प्रतिघातः, तदाऽऽलोककलापाऽऽकलितकलशकुलिशाऽऽदिपदार्थानामप्यनुपलम्भाऽऽपत्तेः। ततो न सन्निकर्षसद्भावेऽप्यवश्यं संवेदनोदयोऽस्ति । नापि तदभावेऽभाव पच,प्रातिभप्रत्यक्षाणामार्षसंवेदनविशेषाणां च त. त्कालाविद्यमानवस्तुविषयतया संनिकर्षाभावेऽपि समुद्भवात् । तन्न सन्निकर्षस्य साधकतमत्वं साधुत्वसौधाध्यासधैर्यमार्जिजत् । यं च प्रदीपेन व्यभिचारमुदचीचरः, सोऽपि न चतुरचेतश्चमत्कारचञ्चुः, प्रदीपस्य मुख्यवृत्या करणत्वानुपपत्तेः, नेत्रसहकारितया करणत्वोपचारात् । यथा चोपचारादर्थव्यवसितौ करणमयं, तथा स्वव्यवसितावपि, न हि प्रदीपोपलम्भे प्रदीपान्तरान्वेषणमस्ति । किं त्वात्मनैवाऽऽत्मानमयं प्रकाशयतीति क्व व्यभिचारः। तन्न सन्निकपस्यार्थव्यवसितावसाधकतमत्वमसिद्धम् । अनयैव दिशा कारकसाकल्याऽऽदेरप्यर्थव्यवसितावसाधकतमत्वं समर्थनीयम् । इति न हेत्वेकदेशासिद्धिः । रत्ना० १ परि।
(४) नायनरश्मिविचार:अथ यद्यपि नायना रश्मयोऽध्यक्षतो न प्रतीयन्ते, तथा:प्यनुमानतः प्रतीयन्ते।अनुमानं च तेजोरश्मिवत् चक्षुः,रूपा
दीनां मध्ये रूपस्यैव प्रकाशकत्वात्, प्रदीपकलिकावदिति तद्रश्मिसत्वप्रतिपादक,नैवं भास्करकरसत्त्वप्रतिपादकं क्षपायामनुमानमस्ति, न निशायां बहुलान्धकारायां वृषदंशचक्षुर्बाह्याऽऽलोकसव्यपेक्षम्,अप्रकाशकचाक्षुषत्वात्,दिवा पुरुषचखुर्वदित्यस्याऽनुमानस्य रात्रौ तत्सत्वप्रतिपादकस्य भावात् । अथ वृषदंशाऽऽदेश्चाक्षुषं तेजोऽस्तीत्यर्थसिद्धेर्न किञ्चित् भास्करज्योतिषा अनुभूतरूपेण प्रकल्पितेन, तर्हि मनुष्याऽऽदीनामपि तदस्तीति किमुद्भूतरूपेण बाह्यतेजसा तेषां कृ. त्यम् ? अथ यद्यथा दृश्यते तत्तथाऽभ्युपगम्यत इति तु दिवा नायनं सौर्य भवेदेवं यदि तथा दर्शनं स्यात् यावता यथा रात्रौभास्करकरा दर्शनं तथा दिवा चाक्षुषरश्म्यदर्शनं,यथा वा दिवा भास्करावभासनं तथा क्षपायां वृषदर्शने लोकावलोकनम्। विशेषस्त्वयम्-एकदा भास्कररश्मयोऽन्यदा नायनारते. ऽनुमेया इति । अथान्धकारावष्टधनिशीथिनीसमयेऽपि भास्करकरसंभवे नक्तश्चराणामिव रूपदर्शनं स्यात्, न,संतोऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org