________________
पडिकमण
अभिधानराजेन्दः।
पडिकमण
चक्खायपावकम्मे दिया वा राश्रो वा एगो वा परिसागओ वा सुत्ते वा जागरमाणे वा । एवमिति प्रागुक्तप्रत्याख्याने संपन्ने सति, किमित्याहभवति जायते, क इत्याह-भिक्षुर्वेति-प्रारम्भत्यागाधर्मकायपरिपालनाय भिक्षणशीलो भिक्षुः। एवं भिक्षुक्यपि,पुरुषोत्तमो धर्म इति कृत्वा भिनुर्विशेष्यते । तद्विशेषणानि च भिक्षुक्या अपि द्रष्टव्यानीत्याह-संयतविरतप्रतिहतप्रत्याख्यातपापकर्मा-तत्र सामस्त्येन तः संयतः सप्तदशप्रकारसंयमापेतस्तथा विविधमनेका द्वादशविधे तपसि रतो विरतस्ततश्च संयतश्चासौ विरतश्च संयतविरतः । तथा प्रतिहतं स्थितिहासतो अन्थिभेदेन विनाशितं प्रत्याख्यातं च हेत्वभावतः पुनर्वृद्धयभावेन निराकृतं पापमशुभं कर्म ज्ञानाऽम्बरणीयाऽऽदि येन स तथाविधस्ततः पुनः पूर्वपदेन सह कर्मधारयः । दिवा वा दिवसे वा, रात्री वा रजन्यां वा, एकको वा कारणिकावस्थायामसहायो चा, पर्षद्गतो वा साधुसंहतिमध्यवर्ती वा, सुप्ती वा रात्रिमध्ययामद्धये निद्रागतो वा, जाग्रद्वा निद्रावियुक्तो वेति ।
साम्प्रतं प्राणातिपातविरतिमेव स्तुबन्नाहएस खलु पाणाइवायस्स वेरमणे हिए सुहे खमे निस्सेसिए अणुगामिए सब्बोसि पाणाणं सव्वेसिं भूयाणं सव्वेसिं जीवाणं सव्वेसि सत्ताणं अदुक्खगयाए असोयणयाए अजूरणयाए अतिप्पणयाए अपीडणयाए अपरियावणयाए अणोदवणयाए महत्थे महागुणे महाणुभावे महापुरिसाणुचिथे परमरिसिदेसिए पसत्थेतं दुक्खक्खयाए कम्मक्खयाए मोक्खयाए बोहिलाभाए संसारुत्तारणाए त्ति कद्दु उवसंपजित्ता णं विहरामि। (एस त्ति) लिङ्गव्यत्ययादिदमधिकृतम्,खलु निश्चयेन,प्राणातिपातस्येति विभक्तिव्यत्ययात्प्राणातिपाताज्जीवहिंसायाः (वेरमणे ति) विरमणं निवृत्तिर्वर्तते । किमित्याह-(हिए त्ति) हितं कल्याणं तत्कारित्वाद्धितं पथ्यभोजनवत् । तथा-सुखं शर्म तद्धेतुत्वात्सुखं पिपासितशीतलजलपानवत् । तथा-क्षम युक्त सङ्गतमुचितरूपमिति यावत् । तथा-(निस्सेसिए त्ति) प्राकृतत्वन यकारलोपात् निःश्रेयसो मोक्षस्तत्कारणत्वान्निःश्रेयसं तदेव निःश्रेयसिकम् । तथा-प्रानुगामिकमनुग. मनशीलं भवपरम्पराअनुबन्धिसुखजनकमित्यर्थः । कथमिदमेवंविधमित्याह-सर्वेषां निःशेषाणां प्राणा इन्द्रियपञ्चक मनःप्रभृतित्रिविधबलोच्छासनिःश्वासाऽऽयुलक्षणा असवो विद्यन्ते येषां तेऽतिशायनार्थमत्व यात्प्रत्ययविधानासमग्रप्राणधारिणः प्राणाः, पञ्चेन्द्रियप्राणिन इत्यर्थः । तेषाम् । तथा-सर्वेषां समस्तानामभूवन् भवन्ति भविष्य. न्ति चेति भूतानि पृथिवीजलज्वलनपवनवनस्पतयः कालप्रयव्यापिसत्तासमन्वितास्तेषाम् । तथा-निरुपक्रमजीवितेन जीवन्तीति जीवाः देवनारकोत्तमपुरुषाऽसङ्ख्येयवर्षाऽऽयुस्तिर्यड्नरचरमशरीरिलक्षणा यथोपनिबद्धजीवनधर्माणस्ते. षाम् । तथा-सर्वेषां लोकोपकारमात्रहेतुसत्त्वोपेतत्वात्सत्त्वाः सोपक्रमाऽऽयुषस्तिर्यङ्मनुष्याः असम्पूर्णप्राणभाजो द्वित्रि
चतुरिन्द्रयाश्च तेपाम् । क्वाप्यमीषां परस्परमेवं विशेषो दृश्यते। यथा-" प्राणा द्वित्रिचतुःप्रोक्ताः,भृतास्तु तरवः स्मृताः। जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा इतीरिताः ” ॥१। ए. कार्थिकानि वैतान्यत्यादररक्षणीयताख्यापनाय नानादशज्ञ. विनेयानुग्रहाय प्रयुक्तानीति । एतेषां च (अदुक्खणयाए त्ति) अदुःखनतया अदुःखोत्पादनेन, मानसिकासातानुदीरणेनेत्यर्थः । तथा-शोचनतया शोकानुत्पादनेन । तथा-अजूरणतया शरीरजीर्णत्वाऽविधानेन, दृश्यन्ते चाऽऽरम्भिको जना भारवाहनाऽऽहारनिरोधकशलताशारानिपाताऽऽदिभिर्वृषभमहिषावकरिकरभरासमाऽऽदीनां शरीराणि जूरयन्तोऽतस्तदकरणेनेति । तथा-अपनतया स्वेदलालाऽश्रुजलक्षरण - कारणपरिवर्जनेन । तथा-अपांडनतया पादाऽऽद्यनवगाहनेन। तथा-अपरितापनतया समन्ताच्छरीरसन्तापपरिहारतः । तथा अनवद्रावणतया उत्वासनकरणाभावेन, मारणपरिहरणेन वा । किं च-इदं प्राणातिपातविरमणपदं महार्थ महान प्रभूतोऽर्थः फलस्वरूपाऽऽद्यभिधेयं यस्य तन्महाध महागी. चरम् । तथा-महांश्चासौ गुणश्च महागुणः,सकलगुणाऽऽधार. त्वान्महावतानामिति । तथा-महानतिशायी अनुभावः स्वर्गापवर्गप्रदानाऽऽदिलक्षणं माहात्म्यं यस्य तन्महानुभावम् । तथा-महापुरुषैस्तीर्थकरगणधराऽऽदिभिरुत्तमनरैरनुचीर्णमे. कदासेवनात्पश्चादप्यासेवितं महापुरुषानुचीर्णम् । तथा-परमर्षिभिस्तीर्थकराऽऽदिभिरेव देशितं भव्योपकाराय कथितं परमर्षिदेशितम् । तथा-प्रशस्तमत्यन्तशुभं सकलकल्याणकलापकारणत्वात् , यतश्चयमतस्तत्प्राणातिपातविरमणं दुःखक्षयाय शारीरमानसानेकलेशविलयाय, कर्मक्षयाय शानाऽऽवरणाऽऽद्यदृष्टवियोगाय मोक्षाय,पाठान्तरतो मोक्षतायै,प. रमनिःश्रेयसायेत्यर्थः । बोधिलाभाय जन्मान्तरे सम्यक्त्वाऽ5दिसद्धर्मप्राप्तये, संसारोत्तारणाय महाभीमभवभ्रमणपारग. मनाय, मे भविष्यतीति गम्यते, इति कृत्वा इति हेतोः, उ. पसंपद्य तदेव सामस्त्यनाङ्गीकृत्य,विहरामि मासकल्पाऽऽविना सुसाधुविहारेण वत्ते, अन्यथा व्रतप्रतिपत्तेर्वैयर्थ्यप्रसङ्गादिति ।
अथ व्रतप्रतिपत्तिं निगमयन्नाहपढमे भंते ! महव्वए उवडिओ मि सव्याओ पाणाइवायाप्रो वेरमणं । प्रथमे भदन्त ! महाव्रते,किमित्याह-उप सार्माप्येन तत्परि. णामाऽऽपत्त्येत्यर्थः । स्थिती व्यवस्थितोऽस्मि अहं,ततश्च इत प्रारभ्य मम सर्वस्मानिःशेषात्प्राणातिपाताजीवहिंसाया विरमणं निवृत्तिरिति । अत्र च भदन्त ! इत्यनेन गुर्वामन्त्रणवचसाऽऽदिमध्यावसानोपन्यस्तेन गुरुमनापृच्छय न किञ्चित्कर्त्तव्यं कृतं च तस्मै निवेदनीयमेवं तदाराधितं भवतीत्येतदाह । दोषाश्चेह प्राणातिपातकर्तृणां नरकगमनाल्पाऽऽयुबहुरोगित्वकुरूपाऽऽदयो वाच्याः । इत्युक्तं प्रथमं महावतम् ।
इदानी द्वितीयमाहअहावरे दोच्चे भंते ! महव्वए मुसावायाप्रो वेरमणं,सव्यं भंते ! मुसावायं पच्चक्खामि, से कोहा वा १ लोहा वा २ भया वा ३ हासा वा ४,नेव सयं मुसं वएजा, ने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org