________________
( ६५५ ) अभिधान राजेन्द्रः ।
केवलि (ग् )
धातू ॥ १ ॥ ( दग्धेति च पुनर्वेदनीय कर्मणो दग्धरज्जुलमत्वात्तादृशेन तेन स्वकार्यस्य क्षुद्वेदनोदयस्य जनयितुमशक्यवात् । देहगतयोः शरीराश्रितयोः सुखदुःखयोरक्कोद्भवतयेन्द्रि याधनतयाऽतीन्द्रियाणां भगवतां तदनुपपत्तेः ॥ २ ॥ ( मोहादिति ) मोहादू मोहनीयकर्मणः परप्रवृत्तेः परव्यप्रवृत्तनि मोहस्य सत श्राहारादिपरव्यप्रवृत्त्यनुपपत्तेः । सातवेद्यस्य सातावेदनीयस्यानुदीरणात् सातासातमनुजायुषामुदीरणायाः सप्तमगुणस्थान एव निवृत्तेः केवलिनः कवलभुक्तौ तज्जन्यसातोदीरणप्रसङ्गात् । च पुनराहारकथयाऽन्युश्चैरत्यर्थ प्रमादजननादाहारस्य सुतरां तथात्वात् ॥ ३ ॥ ( भुक्त्येति ) नुकत्या कबलाहारेण निद्रादिकस्योत्पत्तेः, आदिना रासनमतिज्ञानेर्याप थपरिग्रहः । केवलिनां च निषाद्यभावात् तद्व्याप्यभुक्तेरख्ययोगात् । तथा चुक्तौ सत्यां ध्यानतपसोर्व्ययात्, केवलिनश्च तयोः सदातनत्वात् तां विनाऽपि च भुक्तिं विनाऽपि च परमोदारिकाङ्गस्थ स्थास्नुत्वाच्चिरकालमवस्थितिशीलत्वात्तदर्थे केवलिनस्तत्कल्पनायोगात् ॥ ४ ॥ ( परेति ) परोपकारढानेश्च भुक्तिकाले धर्मदेशनाऽनुपपत्तेः सदा परोपकारस्वभावस्य भगवतस्तदूव्याघातायोगात् । पुरीषादिजुगु
या क्तौ तौ व्यात् । व्याभ्युत्पत्तेश्च भुतेस्तन्निमित्तत्वात् । भगवान् केवली भुङ्क्ते न इति दिगम्बरा वदन्ति ॥ ५ ॥ सिदान्तश्चायमधुना, लेशेनास्मानिरुच्यते । दिगम्बरमतव्याल - पलायनकलागुरुः || ६ || हन्ताज्ञानादिका दोषाः, घातिकर्मोदयोद्भवाः । दावेsपि किं न स्याद्वेदनीयोवा क्षुधा ॥ ७ ॥ अव्यावाधविघाताच्चेत्, सा दोष इति ते मतम् । नरत्वमपि दोषः स्यात्, तदा सिद्धत्वदूषणात् ॥ ८ ॥ घातिकर्मक्षया देवा - दता च कृतकृत्यता । तदभावेऽपि नो बाधा, जवोपग्राहि कर्मभिः ॥ ६ ॥ आहारसंज्ञा चाहार - तृष्णाख्या न मुनेरपि । किं पुनस्तदजावेन, स्वामिनो मुक्तिबाधनम् ॥ १० ॥ अनन्तं च सुखं भर्तु-र्ज्ञानादिगुणसङ्गतम् । क्षुधादयो न बाधन्ते पूर्ण त्वस्ति महोदये ।। ११ ।। दग्धरज्जुममत्वं च वेदनीयस्य कर्मणः ।
वदन्तो नैव जानन्ति, सिद्धान्तार्थव्यवस्थितिम् ॥ १२ ॥
सिद्धान्तश्चायमिति व्यक्तः ॥ ६ ॥ ( इन्तेति) हन्त अज्ञानादिका घातिकर्मोदयोद्भवा दोषाः प्रसिद्धाः। तदभावेऽपि वेदनीयोद्भवा कुधा किं न स्यात् । न हि वयं भवन्तमित्र तस्वमनालोss कुत्पिपासादिनैव दोषानभ्युपेमो येन निर्दोषस्य केवलिनः कुधाद्यनावः स्यादिति भावः ॥ ७ ॥ ( श्रन्याबाधेति ) अभ्या बाधस्य निरतिशयसुखस्य विघातात् सा कुधा दोषो, गुणदूपण. स्यैव दोषलक्षणत्वादिति चेद् यदि ते तब मतं, तदा नरत्वमपि जवतो दोषः स्यात्, सिद्धत्वदूषणात् । तस्मात्केवलज्ञानप्रतियधकत्वेन घातिकर्मोदयोद्भवानामज्ञानादीनाभिव दोषत्वं न तु
वादीनामिति युक्तमुत्पश्यामः ॥ ८ ॥ ( घातीति) घातिकर्मक्षयादेवाताऽहीना च कृतकृत्यता भवोपग्राहि कर्मभिर्वेदनीयादिभिः सद्भिद्भावेऽपि कृतकृत्यत्वाभावेऽपि (नो / नैव बाधा ।
Jain Education International
केवल ( )
सर्वथा कृतकृत्यत्वस्य सिद्वेष्वेव संभवात् उपादित्साभावेप्युपादेयस्य मोक्कस्य सयोगिकेवलित्वकालेऽसिद्धः । रागाद्यनावमात्रेण कृतकृत्यत्वस्य च मुक्तिपत्तेऽप्यबाध एवेति कथितप्रायमेव ॥ ए ॥ ( आहारसंज्ञा चेति ) श्राहारसंज्ञा चाढारतृ
या मोहाभिव्यक्तचैतन्यस्य संज्ञा पदार्थत्वान्न मुनेरपि भावसाधोरपि किं पुनस्तदभावेनाहारसंज्ञाभावेन स्वामिनो जगवतो मुक्तिबाधनम् । तथा चाहारसामान्ये तद्विशेषे वा श्राहारसंज्ञया हेतुत्वमेव नास्तीत्युक्तं भवति । न च तद्विशेषे तकेतुत्वमेवाप्रमत्तादीनां चाहाराभावान्न व्यभिचार इति कुचो - द्यमाशङ्कनीयम्, आहारसंज्ञाया प्रतिचारनिमित्तत्वेन कदापि निरतिचाराहारस्य साधूनामप्राप्तिप्रसङ्गात् ॥ १० ॥ ( अनन्तं चेति ) अनन्तं च सुखं भर्तुर्जगवतो ज्ञानादिगुणसङ्गतं तन्मयीभूतमिति यावद् श्रज्ञानादिजन्यदुःखनिवृत्तेः सर्वेषामेव कर्मणां परिणामदुःखहेतुत्वाच्च क्षुदादयो न बाधन्ते स्वभावनियतसुखानामेव तैर्बाधनं, पूर्ण तु निरवशेषं तु सुखं महोदये मोके sस्ति, तत्रैव सर्वकर्मक्षयोपपत्तेः ॥। ११ ( दग्घेति ) दग्धरज्जुसमत्वं च वेदनीयस्य कर्मणो वदन्तः सिद्धान्तार्थव्यवस्थिति नैव जानन्ति ॥ १२ ॥
For Private
पुण्यप्रकृतितीव्रत्वा-दसाताद्यनुपश्यात् । स्थितिशेषाद्यपेक्षं वा तद्वचो व्यवतिष्ठते ॥ १३ ॥ इन्द्रियोक्ता व्यं, बाह्ययोः सुखदुःखयोः । चित्रं पुनः श्रुतं हेतुः कर्माध्यात्मिकयोस्तयोः ॥ १४ ॥ आहारादिप्रवृत्तिश्व, मोहजन्या यदीष्यते । देशनाssदिप्रवृत्त्यापि भवितव्यं तदा तथा ॥ १५ ॥ यत्नं विना निसर्गाच्चेत्र, देशनाऽऽदिकमिष्यते । भुक्त्यादिकं तथैव स्याद् दृष्टवाधा समोजयोः ॥ १६ ॥ नुक्त्या या सातवेद्यस्यो - दीरणाऽऽपाद्यते त्वया । साऽपि देशनयाऽसात - वेद्यस्यैतां तत्राक्षिपेत् ॥ १७ ॥ उदीरणाख्यं करणं, प्रमादव्यङ्ग्यमंत्र यत् । तस्य तत्मजानानाः खिद्यसे स्थूलया धिया ॥ १८ ॥ आहारकथया हन्त, प्रमादः प्रतिबन्धतः । तदजावे च नो नुक्त्या, श्रूयते सुमुनेरपि ॥ १७ ॥ निद्रा नोत्पाद्यते भुक्त्या, दर्शनावरणं विना । उत्पाद्यते न दमेन, घटो मृत्पिण्डमन्तरा ॥ २० ॥ रासनं च मतिज्ञान-माहारेण जवेद्यदि । घ्राणीयं स्याचदा पुष्पं, घ्राणतर्पणयोगतः ॥ २१ ॥ र्याप प्रसङ्गश्च समोऽत्र गमनादिना ।
ते ध्यानतपसी, स्वकालासंभवे पुनः ॥ २२ ॥ (एयेति पुग्यप्रकृतीनां तीर्थकरनामादिरूपाणां तीव्रत्वाश्रीविपाकत्वात्तज्जन्य सातप्राबल्ये वेदनीयमात्रस्य दग्धरज्जुसमत्यासिकेर सातादीनामनुपक्याद सातावेदनीयस्यापि तदसिद्धेः पापप्रकृतीनां नगवति रसघातेन नीरसत्वाभ्युपगमे स्थितिघातेन निःस्थितिकत्वस्याप्यापत्तेः, अपूर्व करणादौ वध्यमानप्रकृतिविषयकस्यैव तस्य व्यवस्थितेः। ननु तर्हि कथं भवोग्राहि कर्मणां केवलिनां दग्ध रज्जु कल्पत्वानिधानम्, आवश्यक
Personal Use Only
www.jainelibrary.org