________________
૪૪૭
लेश्या-कोश
भावमात्रया मात्रा शब्द आकारभावातिरिक्तपरिणामान्तरप्रतिप्रतिपत्तिव्युदासार्थः, 'से' इति सा कृष्णलेश्या नीललेश्यारूपतया स्यात् यदिवा प्रतिभागः - प्रतिबिम्बमादर्शादाविव विशिष्टः प्रतिबिब्यवस्तुगत आकारः प्रतिभाग एव प्रतिभागमात्रा तथा अत्रापि मात्राशब्दः प्रतिबिम्बातिरिक्त-परिणामान्तरव्युदासार्थः स्यात् कृष्णलेश्या नीललेश्यारूपतया परमार्थतः पुनः कृष्णलेश्यैव नो खलु नीललेश्या सा, स्वस्वरूपापरित्यागात्, न खल्वादर्शादयो जपाकुसुमादिसन्निधानतस्तत्प्रतिबिम्बमात्रामादधाना नादर्शादय इति परिभावनीयमेतत् केवलं सा कृष्णलेश्या तत्र- स्वस्वरूपे गता - अवस्थिता सती उत्वकते तदाकार भावमात्रधारणतस्तत्प्रतिबिम्बमात्रधारणतो वोत्सर्पतीत्यर्थः, कृष्णलेश्यातो हि नीललेश्या विशुद्धा ततस्तदाकारभावं तत्प्रतिबिम्बमात्रं वा दधाना सती मनाक् विशुद्धा भवतीत्युत्सर्पतीति व्यपदिश्यते, उपसंहारवाक्यमाह - ' से एएण्ड ण' मित्यादि सुगमं । एवं नीललेश्यायाः कापोतलेश्यामधिकृत्य कापोतलेश्यायास्तेजोलेश्यामधिकृत्य तेजोलेश्यायाः पद्मलेश्यामधिकृत्य पद्मलेश्यायाः शुक्ललेश्यामधिकृत्य सूत्राणि भावनीयानि ।
सम्प्रतिपद्मलेश्यामधिकृत्य शुक्ललेश्याविषयं सूत्रमाह-से नूणं भंते! सुक्कलेसा पम्हलेसं पप्प' इत्यादि; एतच्च प्राग्वद् भावनीयं; नवरं शुक्ललेश्यापेक्षया पद्मलेश्या हीनपरिणामा ततः शुक्ललेश्या पद्मलेश्याया आकारभावं तत्प्रतिबिम्बमात्रं वा भजन्ती मनागविशुद्धा भवति ततोऽवष्वष्कते इति व्यपदिश्यते; एवं तेजः कापोतनीलकृष्णलेश्याविषयाण्यपि सूत्राणि भावनीयानि ततः पद्मलेश्यामधिकृत्य तेजः कापोतनीलकृष्णलेश्याविषयाणि तेजोलेश्यामधिकृत्य कापोतनीलकृष्णविषयाणि कापोतलेश्वामधिकृत्य नीलकृष्णलेश्याविषये नीललेश्यामधिकृत्य कृष्णलेश्याविषयमिति; अमूनि च सूत्राणि साक्षात् पुस्तके बुन दृश्यन्ते केवलमर्थतः प्रतिपत्तव्यानि तथा मूलटीकाकारेण व्याख्यानात्; तदेवं यद्यपि देव नैरयिकाणामवस्थितानि लेश्याद्रव्याणि तत्तदुपादीयमान लेश्यान्तरद्रव्य सम्पर्कतः
तथापि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org