________________
४१४
लेश्या-कोश
९६ लेश्या और मरण
(क) बालमरणे तिविहे पन्नत्ते, तंजहा-ठिअलेस्से, संकिंलिहलेस्से, पज्जवजायलेस्से। पंडिथ मरणे तिविहे पन्नत्ते, तं जहा–ठिअलेस्से, असंकिलिट्ठलेस्से, पज्जवजायलेस्से। बालपंडियमरणे तिविहे पन्नत्ते, तं जहा--ठिअलेस्से, असंकिलिट्ठलेस्से, अपज्जवजायलेस्से ।
-ठाण० श्था ३ । उ ४ । सू २२२ । पृ० २२० टीका-स्थिता-अवस्थिता अविशुध्यन्त्यसंक्लिश्यमाना च लेश्या कृष्णादिर्यस्मिन् तस्थितलेश्यः, संक्टिष्टा-संक्लिश्यमाना संक्लेशमागच्छन्तीत्यर्थः, सा लेश्या यस्मिंस्तत्तथा, तथा पर्यवाः-पारिशेष्याद्विशुद्धिविशेषाः प्रतिसमयं जाता यस्यां सा तथा, विशुद्ध या वर्धमानेत्यर्थः, सा लेश्या यस्मिंस्तत्तथेति, अत्र प्रथमं कृष्णादिलेश्यः सन् यदा कृष्णादिलेश्यस्वेव नारकादिपूत्पद्यते तदा प्रथमं भवति, यदा तु नीलादिलेश्यः सन् कृष्णादिलेश्येषूत्पद्यते तदा द्वितीयं, यदा पुनः कृष्णलेश्यादिः सन् नीलकापोतलेश्येषूत्पद्यते तदा तृतीयम्, उक्त चान्त्यद्वयसंवादि भगवत्याम् यदुत-"से गूणं भंते ! कण्हलेसे, नीललेसे जाव सुक्कलेसे भवित्ता काउलेसेस नेरइएसु उववज्जइ ? हंता, गोयमा ! से केणणं भंते ! एवं वुच्चइ ? गोयमा ! लेसाठाणेसु संकिलिस्समाणेसु वा विसुज्झमाणेसु वा काऊलेम्सं परिणमइ परिणमत्ता काऊलेसेसु नेरइएसु उववज्जइ" त्ति,एतदनुसारेणोत्तरसूत्रयोरपि स्थितलेश्यादि विभागो नेय इति । पन्डितमरणं संक्लिश्यमानता लेश्याया नास्ति, संयतत्वादेवेत्ययं बालम रणाद्विशेषः, बालपण्डितमरणे तु संक्लिश्यमानता विशुद्ध यमानता च लेश्याया नास्ति, मिश्रत्वादेवेत्ययं विशेष इति । एवं च पण्डितमरणे वस्तुतो द्विविधमेव, संक्लिश्यमानलेश्यानिषेधे अवस्थितवद्धमानलेश्यत्वात् तस्य, त्रिविधत्वं तु व्यपदेशमात्रादेव, बालपण्डितमरणं त्वेकविधमेव, संक्लिश्यमानपर्यवजातलेश्यानिषेधे अवस्थितलेश्यत्वात् तस्येति, त्रैविध्यं त्वस्येतरब्यावृत्तितो व्यपदेशत्रयप्रवृत्तरिति ।
-ठाण० स्था ३ । उ ४ । सू २२२ । टीका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org