________________
वर्धमान जीवन-कोश
मास्थामनुप्राप्तं नारकभवायालं, क्षीयमाणं तियरामरभवायेति तदत्यन्तक्षयाच्च मोक्ष इति, यथा अत्यन्तापथ्याहारसेवनात् परमनारोग्यं, तस्यैव किञ्चित्किञ्चिदपकर्पादारोग्यसुखं, अशेपपरित्यागान् मृतिकल्पो मोक्ष इति, अन्येषां तूभयमप्यन्योऽन्यानुविद्ध स्वरूपकल्पं सम्मिश्रसुखदुःखाख्यहेतुफलभूतं, तथाहि-नैकान्ततः किल संसारिणः सुखं दुःखं वाऽस्ति, देवानामपि चेष्य दियुक्त वात ,, नारकाणामपि वा, पंचेन्द्रियत्वानुभवात् , इत्थंभूतपुण्यपापाख्यवस्तुक्षयाच मोक्ष इति, अपरेपा तु स्वतन्त्रमुभयं विविक्तसुखदुःखकारणं, तत्क्षयाच्च निःश्रेयसावाप्तिरिति, तदेवंदर्शनानां परस्परविरुद्धत्वेनाप्रमाणदव्यादस्मिन् विपये प्रमाणाभाव इति ।
तथा 'पुप्य पुण्येने' त्यादिना प्रतिपादिता तत्सत्ता, ततः संशयः, तत्र वेदपदानां चार्थ, चशब्दात् युक्ति हृदयं च, न जानासि, यतस्तेषामयमर्थः, तत्र द्वितीयगणधरवक्तव्यतायां वेदपदानामर्थः स्वभावपक्षनिराकरणप्रवणोऽभिहितस्तथाऽत्र वक्तव्यः, सामान्यकर्मसिद्धिरपि तथैव वक्तव्या, यच्च दर्शनानामप्रमाण्यं परस्परविरुद्धत्वेन मन्यसे तदसाम्प्रतम , एकस्य प्रमाणत्वात् , तथाहि
पाटलिपुत्रादिविविधस्वरूपाभिधायकाः सम्यक्स्वरूपाभिधायकयुक्ताः परस्परविरूद्धवचसोऽपि न सर्व एवाप्रमाणनां भजन्ते, तत्र यत्प्रमाणं तत् अपमाणनिरासद्वारेण प्रदर्शयिष्यामः, तत्र न नावत्पुण्यमेवापचीयमानं दुःखकारण, तस्य सु वहेतुत्वेनेष्टत्वात् , स्वल्पस्यापि स्वल्पसुवसाधकत्वात् , तथा चाणोयसो हेमपिण्डादणुरपि सौवर्ण एव घटोभवति, न मार्तिको राजतो वेति, न च पुण्याभावो दुःखहे स्तस्य निरूपाख्यनया हेतुत्वायोगात् , न च सुखाभाव एव स्वसत्ताविकलो दुःखं, तस्यानुभूयमानत्वात् , ततः स्वानुरूपकारणपूर्विका दुःखानुभूतिः, अनुभूतित्वित सुखानुभूतिवंदिति कंवलपुण्यवादनिरासः, केवलपापपक्षेऽपि इहमेवोपपत्तिजालं विपरीतं वक्तव्य, नापि मर्वथाऽन्योऽन्यानुविद्ध स्वरूपमुभयात्माकमेकं निरंशवन्त्वन्तरमभ्युपगन्तुं युक्त, सम्मिश्रसुखदुःखाख्यकार्यप्रसङ्गात् , अथ च परस्परपरिहारेण विविक्ते सुखदुःखे अनुभूयते, तथा स्वसंवेदनप्रमाणसिद्धत्वात् , अन्यञ्च --केवलसुखानुभव श्रूयतेऽनुत्तरसुराणां, केवल : वानुभवो नारकाणां, न च सर्वथा सम्मिश्रकरूपात्कारणादेवं विविक्तः कार्यभेदो युक्तः, तस्मादन्यदेव निमित्तं सुखातिशयम्यान्यदेव च दुःग्वातिशयस्य, न च सर्वथैकरूपस्य सुवातिशयनिबंधनांशवृद्धि ग्वातिशयकारणाशहान्या सुखातिशयप्रभवाय दुःखातिशय निवंधनांशवृद्धिः सुखातिशयकारणांशहान्या दुःग्वातिशयप्रभवायकल्पयितुं न्याय्या, भेदप्रसङ्गात् तथा च यद्वृद्धावपि यस्य वृद्धिन भवति तत्ततो भिन्न प्रतीतमेवेति सर्वथैकरूपता पुण्यपापयोर्न सङ्गता, कर्मसामान्यापेक्षायात्वविरुद्धाऽपि, तथा हिसातसम्यक्त्वहास्यरतिपुरुपवेदशुभायुर्नामगोत्राणि पुण्यमन्यत् पापं, सवं च तत् कर्मेति, तस्माद्विविक्त पुण्यपापे इति प्रत्तिपत्तव्यम , सर्वस्यापि च संसारिण एतदुभयमप्यस्ति, कंवलं किञ्चित् कस्यचिदुपशान्तं किञ्चित्ज्ञयोपशममुपगतं किञ्चित क्षीणं किञ्चिदीर्णं ततः सुखदुःखवैचित्र्यं जन्तृनामिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org