________________
२६८
.४७ अष्टम् अकंपित गणधर
. १ अकम्पित गणधर का भगवान् महावीर के पास आगमन
वर्धमान जीवन-कोश
(क) ते पव्वइए सोउ अकंपिओ आगच्छइ जिणसगासं । वच्चामि ण वंदामी वंदित्ता पज्जुवासामि | ६२६ | मलय टीका - व्याख्या पूर्ववत्, नवरमत्राकम्पिक आगच्छति - जिनसकाशमिति नानात्वम् । आभट्ठो य जिणेणं जाइजरामरणविष्पमुक्केणं । नामेण य गोत्तेण य सव्वन्नूसव्वदरिसीण । ६२७| मलय टीका - अस्याः सपातनिका व्याख्या प्राग्वत् ।
किं मन्ने नेरइया अत्थी नत्थित्ति संसओ तुझं । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो । ६२८ मलय टीका - नरान् स्वयोग्यान् कायन्ति शब्दयन्ति आकारयन्तीति नरकास्तेषु भवा नारकाते नारकाः किं सन्ति उत न सन्तीति मन्यसे, व्याख्यान्तरं प्राग्वत्, अयं च संशयस्तव विरुद्धपदश्रुतिसमुद्भवो वर्त्तते तानि चामूनि वेदपदानि -नारको वैएष जायते, यः शूद्रान्नमश्नाति, इत्यादि, अस्यायमर्थः - एषः ब्राह्मणो नारको जायते यः शूद्रान्नमश्नातीत्यादीनि किल वेदवाक्यानि नारक सत्ताप्रतिपादकानि, 'नह वै प्रेत्य नारकाः सन्ती' त्यादीनि तु नारकाभावप्रतिपादकानि, तथा सौम्यः त्वमित्थं मन्यसे - देवा हि चन्द्रादयस्तावत्प्रत्यक्षा एव, अन्येपि औपयाचितकादिफलदर्शनतोऽनुमानतोऽवगम्यन्ते, नाग् कास्त्वभिधानव्यतिरिक्तार्थशून्याः कथं प्रत्येतव्या इति तदभावः, तथा चात्र प्रयोगः-न सन्ति नारकाः साक्षादनुमानतो वाऽनुपलब्धेः व्योमकुसुमवन्, व्यतिरेके देवाः, तत्र 'वेदपदानां चे' त्यादि, तत्र वेदपदानामर्थं च शब्दादयुक्ति भावार्थं च न जानासि, यतस्तेषां वेदपदानामयमर्थः – ये खलु निरूपाधितपः संयमादिना उपचितपुण्यप्राग्भारास्ते न ह वै - - न प्रेत्य-परलोके नारकाः सन्ति- भवन्ति जायन्ते, तेपां स्वर्ग सत्कुलप्रत्यायातिपरम्परया केषाञ्चित्तद्भवेऽपि मोक्षगमनात्, ततो नामूनि नारकाभावप्रतिपादकानि वेदपदानि किन्तु पुण्यवतां नारकभवनप्रतिषेधकानीत्ययुक्तः संशयः, तथा सौम्यः ! ते नारकाः कर्म्मपदतन्त्रत्वादिहागन्तुमशक्ताः भवद्विधानामपि कर्म्मपरतन्त्रत्वादेव तत्र गमनशक्त्यभावः, ततो न युष्मादृशां तदुपलब्धिः क्षायिकज्ञानसम्पदुपेतानां तु वीतरागाणां ते प्रत्यक्षा एव, अपाम्त ममस्तावरणतया समस्तवस्तुज्ञानोपेनत्वात् न च वाच्यमशेपपदार्थविद एव क्षायिकज्ञा न सन्तीति, यतो ज्ञस्वभाव आत्मा केवलं यथा ज्ञानावरणीयस्य कर्मणः क्षयोपशमस्तथा तस्य रूपाविर्भावविशेषो दृश्यते ।
,
तथा च कश्चिद्बहु जानाति कश्चिद्वहुतरमिति, न चायं ज्ञानविशेषः खल्वात्मनस्तत्स्वभावतामन्तरेणोपपद्यते, ततोऽवश्यमसौ ज्ञस्वभावः प्रतिपत्तव्यः, तस्य चाशेपावरणविलये समस्तज्ञेयपरिच्छेदकता ज्ञ स्वभावत्वात् तथा चास्मिन्नर्थे लौकिको दृष्टान्तो यथा पद्यरागादिरूपल विशेषो भास्वरस्वरूपोऽपि स्वगतलकलङ्काङ्कितस्तदा वस्त्वप्रकाशयन्नपि क्षारमृत्पुटपाकाद्युपायतः स्वगतमललेपापगमे प्रकाशयति, एवमात्मापि ज्ञवभावः कर्ममलकलङ्काङ्कितः प्रागशेषं वत्वनाशयन्नपि
,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org