________________
वर्धमान जीवन - कोश
२४३
धर्मत्वाच्चैतन्यस्य, तेन चामूनि किल शरीरातिरिक्तात्मोच्छेदपराणि वर्त्तन्ते, 'सत्येन लभ्यस्तपसा प इत्यादीनि तु देहतिरिक्तात्मप्रतिपादकानि ततः संशयः, युक्ता च भूतसमुदायमात्रधर्म्मता चेतनायाः, तस्याः भूतसमुदायमात्र एवोपलम्भात् गौरतादिवन् ।
प्रत्यक्षादिप्रमाणगोचरातिक्रान्तश्च देहातिरिक्त आत्मा इति, तत्र वेदपदानां चार्थं न जानासि, च शब्दात युक्तिहृदये च तेषामयमर्थ:: - तत्र विज्ञानघनेत्यादीनां वेदपदानामर्थः प्रागेव व्याख्यातः, सत्येन लभ्य इत्यादीनि तु सुप्रतीतानि भूतातिरिक्तात्मप्रतिपादकानि, तथाहि - सत्येन - सत्यवचनेन तपसाअनशनादिरूपेण ब्रह्मचर्येण च स्फुटं नित्यं नियमेन ज्योतिर्मयो- - ज्ञानमयः शुद्धो भवति, यं तथाभूतमात्मानं धीराः - परमज्ञानकलिता यतयो - महर्षयः संयतास्मानो ध्यानैकनिषण्णा पश्यति, न च चेतनाया भूतसमुदायमात्र एवोपलभ्यात् भूतधर्म्मता, विलक्षणतया तस्या मूर्त्तत्वायोगात्, एतच्चत्रागेव भावितम्, नच तस्मिन् सत्येवोपलम्भस्तद्धर्मत्वानुमानायालं, व्यभिचारदर्शनात्, तथाहि - स्पर्शे सत्येव रूपादय उपलभ्यन्ते, न च तेषां तद्धर्म्मतेति ।
ततः शरीरातिरिक्तात्माख्यपदार्थ धर्मश्चेतनेति स्थितं, प्रत्यक्षसिद्धोऽप्येष आत्मा, तद्गुणस्यावप्रहादिज्ञानस्य स्पष्टसंवेदनप्रत्यक्ष सिद्धत्वात् ।
अनुमानगम्योऽपि तच्चेदं – देहेन्द्रियातिरिक्त आत्मा, तदुद्विगमेऽपि तदुपलब्धार्थानुस्मरणात्, पञ्चवातायनोपलब्धार्थानुम्मतृ देवदत्तवत्, इह स्मरणमनुभव पूर्व तया व्याप्तं, व्याप्यव्यापकभावश्चानयोः प्रत्यक्षेणैव प्रतिपन्नः, तथाहि - योऽर्थोऽनुभूतः स स्मर्यते न शेषस्तथा स्वसंवेदनप्रत्यक्षेण प्रतीतेः, विपक्षे चातिप्रसङ्गो बाधकं प्रमाणं, अननुभूते हि विषयेयदि स्मरणं भवेत् ततोऽननुभूतत्वाविशेषात् खरविपाणादेरपि स्मरणप्रसक्तिरित्यतिप्रसङ्गः, विवक्षिते देहे विवक्षितेषु च इन्द्रियेषु सत्सुपलभ्यो योऽर्थः स भवान्तरे तद्विगमेऽपि जातिस्मरणे स्मर्यते, ततोऽवश्यं तस्यार्थम्योपलम्भको देहातिरिक्त आत्मा प्रतिपत्तव्यो न तन्मात्रः, तन्मात्रत्वे तदविगमे तदुपलब्धार्थानुस्मरणायोगात् अधिकृतदेहेन्द्रियमात्रेण तस्यानुपलब्धत्वारिति, आगमगम्यता त्वस्य सुप्रसिद्धैव, सत्येन लभ्य इत्यादिवेद - प्रमाणाभ्युपगमात् । एवं भगवता व्याकृते स किं कृतवान् ? इत्याह-
छिन्नंमि संसयंमी जाइजरामरणविप्प मुक्केण । सो समणो पव्त्रइतो पंचहिं सह खंडियस एहिं || ६०६ || मलय टीका - अस्या व्याख्या पूर्ववत् । प्रथम गणधरादिदं नानात्वं तस्य जीवसत्तायां संशयः, अस्य तु शरीरातिरिक्त खल्वात्मनि, न तुतत्सत्तायामिति ||
- आव० निगा ६०६ / भाग २
(ख) सस्मिन्नपि प्रत्रजिते वायुभूति चिन्तय ॥ ! जितौ मे भ्रातरौ येन सर्वज्ञः खल्वयं ततः ||१११।। तदेतस्य भगवतोऽभ्यर्हणा वन्दनादिभिः । धौतकल्मषकालुष्यः स्यां छिनयि च संशयम् ॥ ११२ ॥ एवं विचिन्त्य सोऽप्यागात् स्वामिनं प्रणनाम च । स्वाम्यप्युवाच जीवः स तद्वपुश्चेतिते भ्रमः ||११३|| प्रत्यक्षाद्यग्रहणेन जीवो भिन्नस्तनोर्न हि । जलबुदबुदवत्सोऽङ्ग मूर्च्छतीति तवाशयः ॥ ११४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org