________________
वर्धमान जीवन-कोश अथ स्वभाव एव नियामका वैचित्र्यस्य न कम्र्मेति कर्मासिद्धिः। x x x अथ मूर्त तहिं स मूर्त्तवस्तुधर्मः पुद्गलपर्यायएवान्यस्य मूर्तवस्तुधर्मत्वायोगात्, कर्मापि च पुद्गलपर्यायानन्यरूपमिति कर्मसिद्धिः। अन्यच्च-समानेऽपि च सेवाद्यारम्भे समानेऽपि च स्वामिचित्तपरिज्ञानादिरूपे तदुपाये यः खलु परस्परं मनुष्याणां फलभेदः सहेत्वन्तरं विना न युक्तिमियति, कारणभेदमन्तरेण कार्यभेदायोगात् । ततो यदेव तत्र किञ्चनापि हेत्वन्तरं तत्कन्र्मेति प्रतिपत्तव्यम् , उक्तञ्च
तथा तुल्येऽपि चारम्भे, सदुपायेऽपि यो नृणाम् । फलभेदः स युक्तो न, युक्त्या हेत्वन्तरं विना ।।१।। तस्मादवश्यमेष्टव्यमत्र हेत्वन्तरं परैः। तदेवादृष्टमित्याहुरन्ये शास्त्रकृतश्रमाः ॥२॥ ( शास्त्रवा० )
आगमगम्यं चैतत् , 'पुण्यः पुण्येन कर्मणा, पापः पापेन कर्मणे ति श्रुतिवचनप्रामाण्यात् , अथकर्मास्तीति प्रतीमः, तच्च कर्म पुद्गलस्वरूपं नामूर्त्तमिति कथं प्रतिपत्तव्यम् ? x x x
तथा च सति यस्योपाघेः सम्पर्कवशात् सा शक्तिरात्मनो नारकादिभवभ्रमणरूपा समुदपादि तदेवास्माकं पौद्गलिकं कम्मेति न काचित्क्षति। यदप्युक्तम् , अन्यच्चामूर्त अ.त्मा मूत्तं च कर्मेत्यादि तदप्यसम्यक् , अमूर्तस्याप्याकाशस्य मूर्तेन घटादिना सह यदिवा द्रव्यस्य पराभिप्रायेणामूर्तया क्रियया सह संयोगभावात् , उक्तं चमुत्तस्सामुत्तिमया जीवेण कहं हवेज संबंधो ?। सोम ! घडस्सव नभसा जह वा दव्वस्स किरियाए ।।१।।
(वि० १६३५) तथा अमूर्तस्याप्यात्मनो मूर्तकर्मकृतावनुग्रहोपघातावविरुद्धौ, विज्ञानस्य ब्राहम्यौषध्यादिमदिरापानादिभिरनुग्रहोपघातदर्शनात् , आह चमुत्तेणामुत्तिमतो उवघायाणुग्गहो कहं होजा ? जइ विनाणाईणं मदिरापाणोसहाई हिं ॥१।। (वि० १६३७)
एवं भगवताऽभिहितेऽग्निभूतिः किं कृतवानित्याहछिन्नंमि संसयंमी जाइजरामरेणविप्पमुक्केण । सो समणो पव्वइओ पंचहिं सह खंडियसएहिं ।६०५।। टीका-उक्तप्रमाणेन जिनेन-भगवता वर्द्धमानस्वामिना जरामरणाभ्यामुक्तलक्षणाभ्यां विप्रमुक्त इव
विप्रमुक्तः तेन छिन्ने-निराकृते संशये स अग्निभूतिः पंचभिः खण्डिकशतैः सह श्रमणः प्रबजितः सन् साधु संवृत्त इत्यर्थ ॥
इन्द्रभूति को दीक्षित हुआ जानकर अग्निभूति ने विचार किया कि उस इन्द्रजालिक ने अवश्य ही इन्द्रभूति को छल लिया है। अतः मैं वहां जाकर सर्वज्ञ नहीं होने पर भी अपने को सर्वज्ञ माननेवाले धूतारे को जीतना चाहिए और माया से पराजित किये हुए मेरे भाई को वापस लाना उचित है।
सर्व शास्त्र के रहस्य को जानने वाला और मोटो बुद्धि वाले इन्द्रभूति को माया बिना जोतने में कौन समर्थ हो सकता है। क्योंकि माया रहित पुरुषों में माया-विजय देखा जाता है। परन्तु जो यह मायावी हमारे हृदय के संशय जानकर छेदता है तो मैं भी इन्द्रभूति की तरह शिष्यों सहित उनका शिष्य हो जाऊंगा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org