________________
वर्धमान जीवन-कोश
२३७ सर्वशास्त्ररहस्यज्ञमिन्द्रभूतिं महामतिम्। कोऽलं जेतुं विना मायां-माया जैत्री त्वमायिषु १६६।। स चेन्म संशयं ज्ञाता छेत्ता च हृदयस्थितम् । तदाऽहमपि तच्छिष्यः सशिष्योऽपीन्द्रभूतिवत् ॥१७॥ अग्नि तिर्विमृश्यैवं पञ्चशिष्यशताऽऽवृतः । ययौ समवसरणे तस्थौ चोपजिनेश्वरम् ॥८॥ तमालपत्प्रभुर्विप्र. भूतं ! गो..नान्वय ! । अस्ति वा नास्ति किं कर्मेत्येष ते संशयोहदि ॥१६॥ प्रत्यक्षादिप्रमाणानामगम्यं कर्म मूर्तिमत् । कथंक..रं स बध्नीयाजीवो मूर्तत्ववर्जितः ॥१००|| उपघाताऽनुग्रहाश्च कथं मूतेन कर्मणा! जीवस्य स्युरमूर्तस्येत्याशंका हि मुधैव ते ॥१०१।। प्रत्यक्षं कर्मातिशयज्ञानिनां त्वादृशां पुनः। अनुमानाभिगम्यं तज्जीववैचित्र्यदर्शनात् ॥१०२।। कर्मणामेव वैचित्र्याद्भवन्ति च शरीरिणाम् । सुखदुःखादयो भावास्तत्कर्मास्तीति निश्चिनु ॥१०३।। तथाहि स्युनृपाः केऽपि हरत्यश्वरथवाहनाः। केचित्तत्र भवे पादचारिणो निरुपानहः ॥१०४।। सहस्रकुक्षिभरयो भवन्त्यक महर्द्धयः। भिक्षया स्वोदरमपि पूरयन्त्यपरेपुनः ॥१०५।। देशकालादितुल्यत्वेऽप्येकस्य व्यवहारिणः। भूयिष्ठो जायते लाभो मूलनाशोऽपरस्यतु ॥१०६॥ एवंविधानां कार्याणां ज्ञेयं कर्मैव कारणम् । न विना कारणं कार्यवैचित्र्यमुपजायते ॥१०७|| मूर्तानां कर्मणां जीवेनामूर्तेन च संगमः । समीचीनः सोऽपि नूनमाकाशघटयोरिव ॥१०८॥ उपघाताऽनुग्रहाश्य नानाविधसुरौषधैः। अमूर्तेऽपि भवन्तीति निरवद्यमदोऽपिहि ॥१०६।। एवं च स्वामिना च्छिन्नसंशयस्त्यक्तमत्सर । अग्निभूतिः प्रवव्राज शिष्यपंचशतीयुतः ॥११०॥
-त्रिशलाका० पर्व १०/सर्ग ५ तं पइव्वअं सोउं बीओ आगच्छई अमरिसेणं ।
बच्चाम णमाणेमी पराजिणि ता ण तं समणं ॥६०२।। मलय टीका-तं-इन्द्रभूतिं प्रव्रजितं श्रुत्वा द्वितीय :- खल्वग्निभूतिरत्रान्तरे अमर्षेण प्राग्व्यावर्णितस्वरूपेण
हेतुभूतेन आगच्छति भगवत्समीपं। केनाभिप्रायेणेत्याह-व्रजामि, णमिति वाक्यालंकारे आनयामि, निजभ्रातरमिन्द्रभूतिमिति गम्यते पराजित्यं णमिति पूर्ववत् तं श्रमणमिन्द्रजासिककाल्पमिति। पुनरपि किं चिन्तयन्नसावागत इत्याह
छलिओ छलाइणा सो मन्ने माइंदजालिओ वावि ।
को जाणइ कहवत्तं इत्ताहे वट्टम णी से ॥१२७ भा॥ मलय टीका- दुर्जयस्त्रिभुवनस्यापि मद्भ्रान्ता इन्द्रभूतिः, केवलमहमिदं मन्ये छलादिना छलितोऽसौतेन
सहि छलजातिनिग्रहणस्थानग्रहणनिपुणः सम्भाव्यते, अथवा मायेन्द्रजालिकः कोऽपि निश्चितमसौ येनतस्यापि जगद्गुरोर्मद्भातुर्भमितं चेतः, यदिवा को जानाति तयोः किमपि वादस्थानं कथमपि वृत्तं ? मत्परोक्षत्वाद्. अत ऊर्दू मयि तत्र गते 'से' तस्य छलादिकुशलस्य मायेन्द्रजालकुशलस्य वा 'वट्टमाणी ति या काचित् वार्ता वर्तनि वा भविष्यति, तां द्रक्ष्यत्ययं समग्रोऽपि लोकइति गम्यते। इदं च तेन तत्रागच्छता प्रोक्तम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org