________________
वर्धमान जीवन-कोश
१६६
.३ अपापा नगरी में दीक्षा-ग्रहण :
विप्रः पुर्यामपापायां यष्टुमाठ्योऽथ सोमिलः। आनिनाय श्रद्धया तान् यज्ञकर्मविचक्षणान् ॥६१॥ तदा च तत्र समवसृतं वीरं विवन्दिषून ॥ सुरानापततः प्रेक्ष्य बभाषे गौतमो द्विजान ॥६॥ मंत्रेणास्माभिराहूताः प्रत्यक्षा नन्वमी सुराः। इह यज्ञ समायान्ति प्रभावं पश्यत क्रतोः ॥६३॥ त्यक्त्वा चण्डालवेश्मेव यज्ञवाट सुरेषुतु। प्रति समवसरणं यात्सु लोकोऽब्रवीदिति ॥६४॥ उद्याने समवसृतः सर्वज्ञोऽतिशयान्वितः। तं वन्दितुं सुराः यान्ति पौराश्चामी प्रमोदिनः ॥६५॥ सर्वज्ञ इत्यक्षराणि श्रुत्वाऽऽक्रोशमिवोच्चकैः। इन्द्रभूतिः प्रकुपितः स्वानेवमवदन्जनान् ॥६६।। मां त्यक्त्वा किममी यान्ति पाखण्डिनममं जनाः। त्यक्त्वा चूतमिवाऽविज्ञाः करीरं मरमानुपाः ॥६॥ ममापि पुरतोऽत्रास्ति सर्वज्ञ इति कोऽपि किम्। पंचाननस्य न ह्यग्रे भक्त्यन्यः पराक्रमी ॥६॥ मनुष्या यद्यमी मूर्खा यान्त्येनं यान्तु तन्ननु। देवाः कथममी यान्ति दम्भः कोऽप्यस्यतन्महान् ।।६।। यादृशो वैष सर्वज्ञो देवा अपि हि तादृशः। यदि वा यादृशो यक्षो जायते तादृशो बलिः ॥७०।। अस्य सर्वज्ञतादपमसावयहराम्यहम् । देवानां मानवानां च पश्यतामेव सम्प्रति ।।७।। सोऽहंकारादुदीर्यैवं शिष्यपंचशतीवृतः । ययौ समवसरणे वीरं सुरनरावृतम् ॥७२।। तत्रद्धिं स्वामिनं प्रेक्ष्य रूपं तेजश्च तादृशम् । किमेतदिति साश्चर्य इन्द्रभूतिरवा स्थित ॥७३।। भौ गौतमेन्द्रभुते ! किं तव स्वागतमित्यथ । सुधामधुरया वाचा तं बभाषे जगद्गुरुः ।।७४|| गौतमोऽचिन्तयन्मेऽसौ गोत्रं नाम च वेत्ति किम् ? जगत्प्रसिद्धमथवा को जानाति न मामिह ।।५।। संशयं हृदयस्थं मे भाषते च छिनति च। यद्यसौ ज्ञानसंपत्त्या तदाऽऽश्चर्यकरः खलु ॥७६।। इत्यन्तः संशयधरं तमूचे परमेश्वरः। अस्ति जीवो न वेत्युच्चैर्विद्यते तव संशयः ॥७॥ अस्त्येव जीवः स पुन:यो गौतम ! लक्षणैः। चित्तचैतन्यविज्ञानसंज्ञाप्रभृतिभिः खलु ||७|| न जीवोऽवस्थितश्चेत्स्याद्भाजनं पुण्यपापयोः। यागदानादिकं तहिं किंनिमित्तं तवाप्यहो ॥७४।। इति स्वामिवचः श्रुत्वा मिथ्य त्वेन सहैव सः । उज्झाश्चकार संदेहं स्वामिनं प्रणनामच ||८|| ऊचे च त्वत्परीक्षार्थ दुर्बुद्धिरहमागमम् । उत्तुंगवृक्षमुद्युक्तः प्रमातुमिव वामनः ।।८।। बोधितोऽस्मि त्वया साधु दुष्टोऽप्येषोऽहमद्य तत् । भवाद्विरक्त प्रव्रज्यादानेनानु गृहाण माम ॥२॥ आद्य गणधरं ज्ञात्वा भाविनं तं जगद्गुरुः । स्वयं प्रव्राजयामास पंचशिष्यशतीयुतम् ।।३।।
-त्रिशलाका० पर्व १०/सर्ग ५
(ख) उक्त मानुषङ्गिक, प्रकृतमुच्यते-ते हि देवास्तं यज्ञपाट परिहत्य समवसरणभुवि निपतितवन्तः, ताश्च तथादृष्ट्वा लोकोऽपि तत्रैव जगाम, भगवन्तं त्रिदशलोकेन पूज्यमानं दृष्ट्वा अतीव हर्ष चक्र प्रवादश्च सजातः - सर्वज्ञोऽत्र समवमृतस्तं देवाः पूजयन्तीति, अत्रान्तरे खल्या कर्णितसर्वज्ञश्यादोऽमाध्मात इन्द्रभूतिर्भगवन्तं प्रति प्रस्थितः, तथा चाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org