________________
वर्षमान जीवन-कोश एए खलु पडिसत्त, कित्तीपुरिसाण वासुदेवाणं । सव्वेऽवि चक्केजोही सव्वेऽवि हया सचक्केहिं ॥४३॥
-आव० मूलभाष्य । गा ४२, ४३ __ मलयटीका-गमनिका-एते खलु प्रतिशत्रवः, एत एव खलु शब्दस्यावधारणार्थत्वात् , नान्ये, कीर्तिपुरुषार्ण -वासुदेवानां, सर्वेच चक्रयोधिनः, सर्वेच हताः स्वचक्ररिति, यतस्तान्येव चक्राणि वासुदेवव्यापत्तये क्षिप्तानि तैः पुण्योदयाद्वासुदेवं प्रणम्य तानेव ब्यापादयन्तीति ।
वासुदेव के प्रतिज्ञत्रु भी नव होते है-प्रथम प्रतिशत्रु प्रतिवासुदेव-अश्वग्रीव था। प्रथम प्रतिवासुदेव वासुदेव को मारने के लिए स्वरहस्त से चक्र चलाते है । चक्र चक्रवासुदेवों को प्रणाम करता है । उसी चक्र को वासुदेव स्वहस्त से ग्रहण करते हैं तथा स्वहस्तचक्र से वासुदेव के द्वारा प्रतिवासुदेव मारे जाते है।
त्रिपृष्ठ वासुदेव के द्वारा-प्रतिशत्रु-प्रतिवासुदेव अश्वग्रीव माग गया।
.१० त्रिपृष्ठ वासुदेव द्वारा केशरी सिंह का मारा जाना(क; विशाखनन्दिजीवोऽथ भवं भ्रान्स्वा मृगाधिपः जातस्तुगगिरौ शंखपुरदेशमुपाद्रवत् ॥ १२१ ।।
तदानीताश्वप्रीवेण भूभुजा प्रविविष्णुना। मम मृत्युःकुतः इति पृष्टो नैमित्तिकोऽवदत् ॥ १२२ ॥ हन्ता स ते चन्डवेगं यो दूतं धर्षयिष्यति । मारयिष्यति यस्तुगगिरिसिंह च हेलया ।। १२३ ॥ अश्वग्रीवस्ततः शंखपुरे शालीनवापयत् । तद्रक्षार्थं चादिदेश वारिकेण महीपतोन् ॥ १२४ ।। सोऽऔषीच्च महावीर्यो पुत्रौ राज्ञः प्रजापतेः । तस्मै द्रतं चंडवेगं प्रेषीत् चार्थेन केनचित् ॥ १२५ ॥ प्रजापतेः कारयतः संगीतं निजपर्षदि। अकस्मात्प्राविशचंडवेगः स्वामिबलोन्मदः ।। १२६ ॥ आगमाध्ययनस्येवाकालविधुत्समुद्गमः । स विघ्नभूतो गीतस्याभ्युत्तस्थे तेनभूभुजा ॥ १२७ ।। मन्त्रिणश्च कुमाराभ्यां पृष्टा आख्यन् पुमानयम् । प्रधानभूतोऽश्वग्रीवमहाराजस्य दोष्मतः ।। १२८ ॥ यदा व्रजत्ययं दूतो ज्ञापनीयस्तदा हिनौ । इति स्वकीयानचलत्रिपृष्ठावूचतुर्नरान ॥ १२६ ।। स प्रजापतिनान्येा विसृष्टोऽभ्यर्च्य गौरवात् । ययौ कुमारयोराशु ज्ञापितश्च निजैर्नरः ॥ १३० ।। गत्वा कुमारौ मार्गार्धे तमकुट्टयतां भटैं। पलायांचक्रिरे सद्यस्तत्सहायास्तु काकवत् ।। १३१ ।। तत्प्रजापतिना ज्ञात्वा भीतेनानायितो गृहे। सत्कृत्य चाधिकं चंडवेग एवमभाष्यत ।। १३२ ।। कुमारयोदु विनयं मा स्माख्यः स्वामिनः खलु । अज्ञानजाद् दुर्विनयान्न कुप्यन्ति महाशयाः ॥ १३३ ।। आमेत्युक्त्वा ययौ दृत स्नत्यौस्नात्त्वग्रतो गतात् । विदाञ्चकाराश्वग्रीवस्तद्धर्षणमशेषतः ॥ १३४ ।। तद्विदं च हयग्रीवं ज्ञात्वा दूतो यथातथम्। स्वधर्षणं तदाचख्यावलीकाख्यानकातरः ॥ १३५ ।। अश्वग्रीवेण शिष्ट्वाऽन्यः प्रहितो ना प्रजापतिम् । गत्वावोचद्रक्ष सिंहाच्छालीनाज्ञा प्रभोरियम् ॥१३६।। प्रजापतिः सुतावूचे युवाभ्यां कोपितः प्रभुः । प्रददौ यदवारेऽपि शासनं सिंहरक्षणे ॥ १३७ ।। इस्युक्त्वा प्रस्थितं भूपं कुमारौ प्रतिषिध्य तौ। प्रजग्मतुः शंखपुरं सिंहयुद्धसकौतुकौ ॥ १३८ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.