________________
पुद्गल-कोश (छ) x x x। जघन्यो गुणो येषां ते जघन्यगुणास्तेषां जघन्यगुणानां नास्ति बंधः। एतदुक्तं भवति–एकगुणस्निग्धस्य एक गुणस्निग्धेन द्वितीयादिसंख्येयाऽसंख्येयानन्तगुणस्निग्धेन वा नास्ति बंधः। तस्यैवैकगुणस्निग्धस्य एकगुणरूक्षेण द्वयादिसंख्येयाऽसंख्येयानन्तगुणस्निग्धेन वा नास्ति बंधः । तथा एकगुणरूक्षस्यापि योज्यमिति ।
x x x। सदृशग्रहणे पुनः सति द्विगुणस्निग्धानां द्विगुणस्निग्धैद्विगुण रूक्षाणां द्विगुणरूक्षरित्येवमादिषु बंधनिषेधः कृतो भवति ।
द्वयधिकश्चतुर्गुणः॥१॥ द्वाभ्यां गुणाभ्यामधिकोः द्वयधिकः । कः पुनरसौ ? चतुर्गुणः ?
आदिशब्दस्य प्रकारार्थत्वात् पंचगुणादिसंप्रत्ययः ॥२॥ द्वयाधिकादीत्ययमादिशब्दः प्रकारार्थः। कः पुनरसौ प्रकारः ? द्वाभ्यामधिकता। तेन पंचगुणादीनां संप्रत्ययो भवति । 'अवयवेन विग्रहः समुदायो वृत्त्यर्थः' इति चतुर्गुणस्यापि ग्रहणं भवति । तेन द्वयधिकादिगुणानां तुल्यजातीयानामतुल्यजातीयानां च बंध उक्तो भवति, नेतरेषाम् । तद्यथा-द्विगुणस्निग्धस्य परमाणोः एकगुणस्निग्धेन द्विगुणस्निग्धेन त्रिगुणस्निग्धन वा नास्ति बंधः, चतुर्गुणस्निग्धेन पुनरस्ति बंधः। तस्यैव पुनद्विगुणस्निग्धस्य पंचगुणस्निग्धेन षट्सप्ताष्टनवरशसंख्येयाऽसंख्येयानन्तगुणस्निग्धेन बंधो न विद्यते ।
एवं विगुणस्निग्धस्य पंचगुणस्निग्धेन बंधोऽस्ति, शेषः पूर्वोत्तरैर्नभवति । चतुगुणस्निग्धस्य षट्गुणस्निग्धेनास्ति बंधः शेषः पूर्वोत्तर स्ति। एवं शेषेष्वपि योज्यः। तथा द्विगुणरूक्षस्य एकद्वित्रिगुणरूक्षेर्नास्ति बंधः, चतुर्गुणरूक्षेण त्वस्ति बंधः। तस्येव द्विगुणरूक्षस्य पंचगुणरूक्षादिभिरुत्तरैर्नास्ति बंधः। एवं त्रिगुणरूक्षादिनामपि द्विगुणाधिकर्बन्धो योज्यः। एवं भिन्नजातीयेष्वपि द्विगुणस्निग्धस्य एकद्वित्रिगुणरूक्षेर्नास्ति बंधः, चतुगुणरुक्षेणत्वस्ति बंधः, उत्तरैः पंचगुणरूक्षादिभिर्नास्ति। एवं त्रिगुणस्निग्धादीनां पंचगुणरूक्षादिभिरस्ति, शेषैः पूर्वोत्तरर्नास्ति बंधः इति योज्यः ।
-तत्त्वराज० अ ५ । सू ३३ से ३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org