________________
पुद्गल - कोश
४२७
परिणमन्ते परिमंडलादिपंचप्रकार संस्थानरूपेण वेति, तत्र यदि व्यवस्थिताः परमाणुषु परिणामाः स्पर्शादयः स्कंधेषु वा स्पर्शादिशब्दादयस्ततस्तेषां व्यवस्थितत्वात् सर्वदा नोत्पादो न विनाशः, तौ चान्तरेण स्निग्धरूक्षगुणयोरण्वोः परिणामभावे तदवस्थयो कुतो द्वयणुकादिस्कंधपरिणामः ? स्कंधेषु स्पर्शादिशब्दादिपरिणामस्यैकस्येव नित्यतयेष्टत्वात् शेषस्पर्शादिशब्दादिपरिणामाभावः अथाव्यवस्थिताः, सर्वमिष्यमाणमुपपद्मम्, पूर्वकपरिणामत्यागेनोत्तरपरिणामान्तराभ्युपगमे स्पर्शादयोऽन्ये चान्ये च स्पर्शादिशब्दादयश्च क्षेत्रकालद्रव्यभाव परिणामविशेषाः स्युरित्यवगम्येत यथापरिणामं वस्त्विति, तन्नजाने कथमेतदिति, सति चाप्यव्यवस्थित्वे कि समगुणः समगुणतयंव परिणमयत्युत विषमगुणतयाऽपीति सन्दिहानं प्रतोदमनोच्यते - अव्यवस्थिताः परमाणुस्कंधेषु स्पर्शादयः, स्पर्शादि शब्दादयश्चेति, अनवस्थितत्वे प्रतिज्ञाते पुनः प्रश्नयति - कुतः पुनरनवस्थितत्वम् ? एवं मन्यते - fक प्रतिज्ञामात्रेणानवस्थितत्वमुत काचिद् युक्तिरप्यस्तीतिएवमाशंकिते युक्तिमाह - परिणामादिति ।
"तद्भावलक्षण परिणामी " वक्ष्यते ( सू० ४१ ) स एव हि परमाणुः स्कंधो वा द्रव्यत्वादिजातिस्वभावमजहत् स्पर्शान्तरादिगुण शब्दान्तरादिगुणं प्रतिपद्यते, स्पर्शादिसामान्यमजहतः परमाण्वादयः स्पर्शादिविशेषाना साधयन्ति, अतोऽवस्थितानवस्थितत्वमेषां स्पर्शादीनाम्, परिणन्तारो हि स्वशक्तिपाटवभाजो मरिचलवणहिङ् ग्वादयः परिणम्यं वस्तु क्वथिततक्रादिस्याद्वाद्याकारेणात्मसात्कुर्वन्तो दृष्टाः केचित् तु दधिगुडादयः परिणमनशक्तिस्वाभाव्यात् परस्परपरिणतिहेतवः, पूर्वषामेकतः परिणतिशक्तिः पाटवाति शयात्, एवं परिणामादनवस्थिताः स्पर्शादिशब्दादयः, परिणामानवस्थितत्वे प्रतिपादिते लब्धावकाश: पुनः अवाह - द्वयोरपि बध्यमानयोर्गुणवत्वे सति कथं परिणामो भवतीति ? एवं मन्यते भवतु परिणतिविशेषादनवस्थितं गुणवत्वम्, अण्वोस्तु बध्यमानयोर्गुणवस्वे सति तुल्यगुणयोविषमगुणयोर्वा संख्या द्विगुणस्निग्धस्य द्विगुणरूक्षस्य वेत्यादेस्तथेकगुण स्निग्धस्य त्रिगुणस्निग्धस्य चेत्यादेरेकगुणरूक्षस्य त्रिगुणरूक्षादेः कथं केन प्रकारेण परिणामो भवति ?
Jain Education International
--
For Private & Personal Use Only
www.jainelibrary.org