________________
४२६
पुद्गल-कोश ऽधिकृतं च बंधं विशिनष्टि, गुणवैषम्ये सति सदृशानां गुणद्वयाधिकानां बंधो भवतीत्येवं विशेषणार्थः, ततश्च व्यावृत्ते प्रतिषेधे बंधे च विशेषिते द्वयधिकादिगुणानां बंधः सिद्धो निरपवाद इति। आगमगाथासंवादी चायं सूत्रचतुष्टयार्थः -
निद्धस्स निद्धण दुआधिएण, लुक्खस्स लुक्खेण दुआधिएण। निद्धस्स लुक्खेण उवेति बंधो, जहण्णवज्जो विसमो समो वा।
-पण्ण० प १३ गुणवेषम्ये सदृशानां द्वयधिकादिगुणानां तु बंधो भवतीत्यस्य वाचकं गाथाशकलमाद्य, स्निग्धस्य स्निग्धेन सह रूक्षस्यापि रूक्षेण सहेति ततश्च "गुणसाम्ये सदृशामां" ( सू ३४ ) भवति बंध इत्येतत् सूत्र लब्धम् । अथ स्निग्धरूक्षयोः परस्परेण कथमित्याह-पाश्चात्यमर्धम् । एतेन च "स्निग्धरूक्षत्वाद् बंधः" (मू० ३२) "न जघन्यगुणानाम्" (सू० ३३ ) इति सूत्रद्वयपरिग्रहः स्निग्धगुणरूक्षयोश्च जघन्यगुणवर्जः परस्परेण विषमगुणयोः समगुणयोश्च बंधो भवतीति ॥३५॥
-तत्त्व. अ५ । सू ३५ भाष्य -अत्राह - परमाणुषु स्कंधेषु च ये स्पर्शादयो गुणास्ते कि व्यवस्थितास्तेषु आहोस्विदव्यवस्थिता इति ? अनोच्यते-अव्यवस्थिताः। कुतः ? परिणामात् । अत्राह-द्वयोरपि वध्यमानयोगुणवत्त्वे सति कथं परिणामो भवतीति ? उच्यते।
टीका अवाह-परमाणुष्वित्यादिना ग्रन्थेन सूत्रं सम्वन्धाति । अत्रेत्यौत्सगिके बंधलक्षणे सापवादे प्रतिपादिते पृच्छत्यजानानः, परिणामविशेषो हि बंधः, स च स्निग्धे रूक्षलक्षणपरिणामान्तरापाद्यः, अतः परमाणुषु ये स्पर्शादिगुणपरिणामाः स्कंधषु वा शब्दादयस्ते कि नित्याः-सर्वदाव्यवस्थितास्तेषु परमाण्वादिष्वाहोस्विव्दयवस्थिता-भृत्वा पुनर्नभवन्तीति ? अयमभिप्रायः प्रश्नयितुः -परमाणवः संहन्यमाना द्विप्रदेशादिकस्कंधाकृत्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org