________________
४२४
पुद्गल-कोश
प्रकर्षापकर्षवृत्ततद्गुणवैषम्ये सति भवत्येव बंधः, तद्यथा - एकगुणस्निग्धस्त्रिगुण स्निग्धन, द्विगुणस्निग्धश्चतुर्गुण स्निग्धेन, त्रिगुणस्निग्ध: पंचगुणस्निग्धेन, चतुर्गुणस्निग्धः षड्गुण स्निग्धेनेत्येवं यावदनन्तगुणस्निग्धो विषमगुण इति । अन्ये त्वमिदधति सूरयः -- एक गुणस्निग्धस्य द्विगुण स्निग्धेनैकगुणरूक्षस्य द्विगुणरूक्षेणेति भावनीयम्, एतच्च सम्प्रदायेनागमोपनिबंधदर्शनेन च प्रायो विसंवति इत्यनादरः ।
-- तत्त्व० अ ५ । सू ३३
भाष्य - अत्राह - किमविशेषेण गुणवैषम्ये सदृशानां बंधो भवतीति ? अत्रोच्यते ।
टीका - अत्राहेत्यादिः संबंध प्रतिपादनपरो ग्रन्थः, किमविशेषेण गुणवैषम्ये सदृशानां बंधो भवतीति यद्यविशेषेण ततः एकगुणस्निग्धस्य द्विगुणस्निग्धेनापि बंध प्रसंगोऽनिष्टं चैतदा ( दित्या ? ) रेकमाण प्रष्टरि सूरिराहअनोच्यत इति, न सवषामेव, सदृशानां, कि तहि ?
— तत्त्व ० अ ५ । सू ३४
भाष्य - द्वयधिकादि गुणानां तु सदृशानां बंधो भवति ।
सिद्ध० टीका - द्वयधिकादिगुणानां तु सदृशानां बंधो भवतीत्यादि भाष्यम् । द्वाभ्यां गुणविशेषाभ्यामन्यस्मादधिको यः परमाणुः स आदिर्येषां ते यधिकादिगुणाः गुणशब्दोऽत्र गुणिवचनः । गुणवंतो गुणाः परमाणवः इत्यर्थः तेषां द्वद्यधिकादिगुणानामणुनां सदृशानां बंधो भवति, सदृशानामिति स्नेहसामान्यं रूक्षसामान्यं चाश्रित्य सादृश्यं व्याख्येयम् x x x
— तत्त्व० अ ५ । सू ३५
भाष्य - द्वयधिकादि गुणानां तु सदृशानां बंधो भवति । तद्यथा - स्निग्धस्य द्विगुणाधिक स्निग्धन, द्विगुणाद्यधिकस्निग्धस्य एकगुणस्निग्धंन, रूक्षस्यापि द्विगुणाद्यधिकरूक्षण, द्विगुणाद्यधिकरूक्षस्य एकगुणरूक्षेण, एकादिगुणाधिकयोस्तु सदृशोर्बन्धो न भवति । अनतु शब्दो व्यावृत्ति विशेषणार्थ, प्रतिषेधं व्यावर्तयति बधं च विशेषयति ॥ ३५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org