________________
४२३
पुद्गल-कोश ... सति गुणसाम्ये तुल्य संख्यत्वे सदृशानां बंधो न भवति, गुणानां साम्येन ये सदृशाः, न क्रियासाम्येन, ते सति गुणसाम्ये सदृशास्तेषां बंधो नास्ति, पूर्वापवादविशेष समर्थनार्थमेवेदं - न जघन्यगुणानाम् (सू ३३) इत्यभिधाय तद्विशेषमपवदते, तं चापोद्यमानमुवाहरणेन स्पष्ट यति । तद् यथेत्युदाहणोपन्यासः, तुल्य गुणस्निग्धस्य तुल्यगुणस्निग्धेन तुल्यगुणरूक्षस्य तुल्यगुणरूक्षणेति सामान्योपन्यासः समस्तक गुणस्निग्धरूक्षादि समगुणविकल्प संग्रहार्थः। तुल्यगुणः स्निग्धो यस्य स तुल्यगुणस्निग्धः, तुल्यः स्नेहगुणो यस्येत्यर्थः तस्यानेन सदृशेन व तुल्यगुणस्निग्धेन बंधो मास्ति, परस्परं परिणति शक्तरभावात् x xx। ___ एक गुणस्निग्धो हि नैकगुणस्निग्धेन बध्यते, तथाऽनन्तपर्यवसानाद द्विगुणादिस्निग्धाः द्विगुणादिस्निग्धेः समगुणरनन्तपर्यवसानः सह न बध्यत्ते, एवमेकगुणरूक्षोऽप्येकगुणरूक्षेण सह न बध्यते x x x। तथा द्विगुणादिक्षा न द्विगुणाविरूझरनन्तावसानः सह बंधमनुभवन्तीति ।
-तत्त्व. अ ५ । सू ३४ भाष्य-अवाह-सदृशग्रहणं किमपेक्षत इति ? अनोच्यते-गुणवैषम्ये सदुशानां बंधो भवतीति ॥३४॥
टीका-'अत्राह-सदृश ग्रहणं किमपेक्षत इति । एवं मन्यते प्रष्टा, गुणसाम्ये सति बंधो न भवति, येषां च समा गुणाः प्रकर्षापकर्षवृत्ताः प्रतिविशिष्टसंख्यावच्छिन्नास्ते नियमेन गुणः सदृशाः, इत्येतावताऽभिलषितेऽर्थे सिद्ध सदृश ग्रहणमतिरिच्यमानमपरार्थापेक्षि भवति, तं चापरमर्थमजानानः प्रश्नयति किमपेक्षते सदृशग्रहणमिति, आचार्योऽपि विशिष्टार्थप्रतिपत्तये सदुशग्रहणे चेतसि निधायाह अत्रोच्यत इति ।
गुणवैषम्ये सदृशानां बंधो भवतीति, स्नेहगुणवैषम्ये रूक्षगुण वैषम्ये च बंधः समस्ति, केषामत आह-सदृशानामिति । एवमर्थ सदृशग्रइणमपेक्षते, सादृश्यं च स्नेहगुणमाननिबंधनं रौक्ष्यगुणमात्रनिबंधनं च संख्यानमादित्य ग्राहयम्, अतः सदृशानामपि स्नेहगुणसामान्येन रोक्ष्यगुणसामान्येन च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org