________________
२५२
पुद्गल-कोश त्ति ) निश्चलता जघन्यकाललक्षणम् ( उक्कोसेणं असंखेज्ज कालं ति ) निश्चलताया एवोत्कृष्टकाललक्षणं, तत्र जघन्यतोऽन्तरं परमाणुरेकं समयं चलनादुपरम्य पुनश्चलतीत्येवम्, उत्कर्षतश्च स एवासंख्येयं कालं क्वचिस्थिरो भूत्वा पुनश्चलतीत्येवं दृश्यमिति । (परट्ठाणंतरं पडुच्च त्ति ) परमाणोर्यत्परस्थाने द्वयणुकाऽऽदावन्तभूतस्यान्तरं चलनव्यवधानं तत्परस्थानान्तर, तत्प्रतीत्य। ( जहन्नेणं एक्कं समयं उक्कोसेणं असंखेज्जंकालं त्ति) परमाणुपुद्गलो हि भ्रमन् द्विप्रदेशाऽऽदिकस्कंधमनुप्रविश्य जघन्यतः तेन सहैकः समयं स्थित्वा पुनम्यिति' उत्कर्षतस्तु असंख्येयं कालं द्विप्रदेशाऽऽदितया स्थित्वा पुनरेकतया भ्राम्यतीति। (निरेयस्सेत्यादि ) निश्चलः सन जघन्यतः समययेक परिभ्रम्य पुननिश्चलस्तिष्ठति, उत्कर्षतस्तु निश्चलतः सन्नावलिकाया असंख्येयं भागं चलनोत्कृष्ट कालरूपं परिभ्रम्य पुननिश्चिल एवं तिष्ठतीति स्वस्थानान्तरमुक्तम् । परस्थानान्तरं तु निश्चलः सन् ततः स्थानाच्चलितो जघन्यतो द्विप्रदेशाऽऽदौ स्कंधे एक समयं स्थित्वा पुननिश्चल एव तिष्ठति। उत्कर्षतस्त्वसंख्येयं कालं तेन सह स्थित्वा पृथग्भूत्वा पुनस्तिष्ठति। (दुपएसियस्सेत्यादि ) ( उक्कोसेणं अणंत कालं ति ) कथं द्विप्रदेशिकः संश्चलितस्ततोऽनन्तः पुद्गलः सह कालभेदेन संबंध कुवन्ननन्तेन कालेन पुनस्तेनव परमाणुना सह संबंध प्रतिपद्य पुनश्चलतोत्येवमिति ।
(ग) परमाणुपोग्गलस्य णं भंते ! सन्वेयस्स केवइयं काल अंतर होइ ? गोयमा ! सट्टाणंतरं पडुच्च जहन्नेणं एक्कं समयं, उक्कोसेणं असंखेज्जं कालं ; परट्ठाणंतरं पडुच्च जहन्नेणं एक्कं समयं, उक्कोसेणं एवं चेव। निरेयस्स केवइयं अंतर होइ? सट्टाणंतरं पडुच्च जहन्नेणं एवक समयं, उक्कोसेणं आवलियाए असंखेज्जइभागं, परट्ठाणतरं पडुच्च जहन्नेणं एक्क समयं, उक्कोसेणं असंखेज्ज काल ।
दुपएसियस्स णं भंते ! खंधस्स देसेयस्स केवयइयं कालं अंतरं होइ ? सट्ठाणंतरं पडुच्च जहन्नेणं एक्कं समयं, उक्कोसेणं असंखेज्ज कालं, परट्ठाणंतरं पडुच्च जहन्नेणं एक्कं समयं, उक्कोसेणं अणंतकालं । सत्वेयस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org