________________
पुद्गल-कोश
२३७ 'सर्वेण सर्व स्पृशति' इतिकोऽर्थ.स्वात्मना सौ अन्योऽन्यस्य लगतः, न पुनरर्धाद्य शेनअर्द्धादिदेशष्य तयोरभावात्, घटाद्यभावाऽऽपत्तिस्तु तदेव प्रसज्येत यदा तयोरेकत्वाऽऽपत्तिः, न च तयोः, सा स्वरूपभेदान् । 'सत्तम-नवमेहि फुसइ, त्ति 'सर्वेण देशम्' 'सर्वेण सर्वम्' इत्येताभ्याम् – इत्यर्थः, तत्र यदा द्विप्रदेशिकः प्रदेशद्वयाऽवस्थितो भवति तदा तस्य परमाणुः सर्वेण देशं स्पृशति, परमाणोः तद्देशस्येव विषयत्वात्, यदा तु द्विप्रदेशिकः परिणामसौक्षम्याद् एक प्रदेशस्थो भवति तदा तं परमाणुः सर्वेण सर्व स्पृशति' इत्युच्यते। निपच्छिमएहि तिहिं फुसइ' त्ति त्रिप्रदेशिकम् असौ स्पृशस्त्रिभिरन्त्यः स्पृशति, तत्र यदा त्रिप्रदेशिकः प्रदेशत्रयस्थितो, भवति तदा तस्य परमाणुः–'सर्वेण देशं स्पृशति, परमाणोस्तद्दशस्यैव विषयत्वात् । यदा तु तस्यैकत्र प्रदेशे द्वौ प्रदेशौ, अन्यत्र एकोऽवस्थितः स्यात् तदा एकप्रदेशस्थितपरमाणुद्वयस्य परमाणोः स्पर्शविषयत्वेन 'सर्वेण देशौ स्पृशतिः इत्युच्यते । ननु द्विप्रदेशिकेऽपि युक्तोऽयं विकल्पः, तताऽपि प्रदेशद्वयस्य स्पृश्यमानत्वात् ? नवम्' यतस्तत्र द्विप्रदेशमात्र एवाऽवयवीति कस्य देशौ स्पृशति ? त्रिप्रदेशिकेतु त्रयाऽपेक्षया द्वयस्य स्पर्शने एकोऽवशिष्यते, ततश्य 'सर्वेण देशौ' त्रिप्रदेशिकस्य स्पृशतीति व्यपदेशः साधुः स्याद् इति । यदा तु एकप्रदेशाऽवगाढोऽसौ तवा 'सर्वण सर्व स्पृशति' इति स्यादिति।। ____ 'दुपएसिए णं' इत्यादि। 'तइय-नवमेहि फुसइ' ति यदा द्विप्रदेशिको द्विप्रदेशस्थस्तदा परमाणु 'देशेन सर्व स्पृशति' इति तृतीयः यदा तु एकप्रदेशाऽवगाढोऽसौ तवा 'सर्वेण सर्वम्' इति नवमः। 'दुप्पएसिओ दुप्पएसियं' इत्यादि। यदा द्विप्रदेशिको प्रत्येक द्विप्रदेशावगाढौ तदा 'देशेन देशम्' इति प्रथमः, यदा तु एकः एकत्र, अन्यस्तु द्वयोस्तदा 'देशेन सर्वम्' इति तृतीयः, तथा 'सर्वेण देशम्' इति सप्तमः, नवमस्तु प्रतीत एवेति-अनया दिशाऽन्येऽपि व्याख्येया इति।
परमाणु पुद्गलादि को स्पर्शना की अपेक्षा नव विकल्प (भंग ) बनते हैं । १-एक देश से एक देश का स्पर्श । २-एक देश से बहुत देशों का स्पर्श ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org