________________
पुद्गल-कोश
१०७ हैं ; द्रव्यतः सप्रदेशी पुद्गल ९५००० हैं, कालतः सप्रदेशी पुद्गल ९८००० हैं, भावतः सप्रदेशी पुद्गल ९९००० हैं।
जैसा सम्भव हो वैसा ही राशियों का अर्थोपन्यास करना चाहिए और सद्भाव से सम्यग् प्रकार से ऐसा जानना चाहिए। जिनेश्वरों ने राशि अनन्त कही है।
'०८२ परमाणु पर विवेचन गाथा
खित्तोगाहणदव्वे, भावट्ठाणाउ अप्पबहुअत्ते ।
थोवा असंखगुणिया, तिन्नि अ सेसा कहं नेया ? ॥१॥ . रत्नसिंहसूरि टीका-इह पुद्गलानां क्षेत्रे, अवगाहनायां, द्रव्ये, भावे च स्थितिकालमाश्रित्य अल्पबहुत्वविचारे क्षेत्रस्थितिरल्पा। अवगाहनादीनां स्थितयः शेषास्तिस्रोऽपि प्रत्येक क्रमेणाऽसंख्यगुणिताः कथं ज्ञेया? इति संक्षेपार्थः। विस्तरार्थस्तु-स्थानायुरिति पदं क्षेत्रादीनां प्रत्येकमभिसंबध्यते। तत्र क्षेत्रस्थानायुः, अवगाहनास्थानायुः, द्रव्यस्थानायुः, भावस्थानायुश्च । तत्र क्षेत्रस्थानायुः क्षेत्रे एकप्रदेशादौ स्थानं यत्पुद्गलानामवस्थानं तद्र पमायुः क्षेत्रस्थानायुः, पुद्गलानामेकक्षेत्रेऽवस्थानमित्यर्थः १ अवगाहनाया नियतपरमाणनभःप्रदेशव्यापित्वस्य पुद्गलानां स्थानमवस्थानं तद्पमायुरवगाहनास्थानायुः, पुद्गलानामेकयावगाहनयावस्थानकाल इत्यर्थः २ द्रव्यस्याणुत्वादिभावेन यदवस्थानं तद्रू पमायु व्यस्थानायुः, पुद्गलानामेकस्कंधपरिणामेनावस्थानकाल इत्वर्थः ३भावस्य कृष्णत्वादिगुणकदम्बकस्य स्थानमवस्थानं तद्रूपमायुर्भावस्थानायुः, पुद्गलेषु विवक्षितकृष्णत्वादिगुणानामवस्थानकाल इत्यर्थः ४। ननु क्षेत्रस्यावगाहनायाश्च को भेदः ? उच्यते, क्षेत्रमवगाढमेव, अवगाहना तु विवक्षितात्क्षेत्रादन्यत्रापि पुद्गलानां तत्परिमाणक्षेत्रावगाहित्वमिति ।
अयमभिप्रायः- यदा विवक्षितक्षेत्रे कश्चित्पुद्गलस्कन्धोऽसत्कल्पनया नभःप्रदेशदशकावगाढो यावत्तिष्ठति, तावत्क्षेत्रस्थानायुरित्युच्यते। यदा तु विवक्षितक्षेत्रात्क्षेत्रान्तरेषु स एव पुद्गलस्कन्धो नभःप्रदेशदशकावगाढतयैव यावत्संचरति, तावदवगाहनास्थानायुरित्युच्यते । यस्तु स एव पुद्गलस्कन्धो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org