________________
१००
पुद्गल-कोश नोऽपि लभ्यन्त इति । तथा च सति द्वयणुकादीनामनन्तनाणुकान्तानां क्षत्रतोऽप्रदेशानां प्रतिप्रदेशं परमाणुवृद्धिस्थानमेकैक एव राशिरिति ।
एभ्यः क्षेत्राप्रदेशेभ्यः सकाशात् क्षेत्रतः सप्रदेशा असंख्यातगुणा। यत एककप्रदेशावगाढान् स्कंधान्मुक्त्वा 'सेसावगाहणया' इति द्वयादिनभःप्रदेशावगाहिनः स्कंधा सर्वेपीह गान्त इति । अयमर्थः -द्वयणुकस्कंधानां क्षेत्रावगाहनापेक्षया द्वौ राशी। एक एककनभःप्रदेशावगाढानां स्कंधानां, द्वितोयस्तु द्विद्विनभःप्रदेशावगाढानां स्कंधानाम् । तथा व्यणुकस्कंधानां क्षेत्रावगाहनापेक्षया त्रयो राशयः । एक एककनभःप्रदेशावगाढानां, द्वितीयो द्विद्विनभःप्रदेशावगाढानां, तृतीयस्तु त्रिविनभःप्रदेशावगाढानां स्कंधानाम् । तथा चतरणुकस्कंधानां चत्वारो राशयः। एक एककनभःप्रदेशावगाढागाम्, द्वितीयो द्विद्विनभःप्रदेशावगाढानाम्, तृतीयस्त्रित्रिनभःप्रदेशावगाढानाम्, चतुर्थस्तु चतुश्चतुर्नभःप्रदेशावगाढानां स्कंधानाम्। एवं पञ्चाणुस्कंधानां पञ्च राशयो यावदसंख्याताणुकस्कंधानां क्षेत्रावगाहनापेक्षयाऽसंख्याता राशयः। अनन्ताणुकस्कंधानां तु क्षेत्रावगाहापेक्षया नानन्ता राशयः, सकललोकाकाशप्रदेशाग्रस्यासंख्यातस्यैव सर्वत्र भणनादिति। एवं च सति ये द्वयणुकादयोऽनन्ताणुकान्ताः स्कंधा एककनभःप्रदेशाधगाहिस्कंधराशिवर्जा द्वयादिनभःप्रदेशावगाहिनो राशयस्ते सर्वे क्षेत्रतः सप्रदेशा इति ।
ते पुद्धिप्रदेशावगाहनादिकाः 'सव्वपुग्गला' इति समस्ता द्वयणुकादयोऽनन्ताणुकान्ताः स्कंधाः शेषा व्यतिरिक्ताः क्षेत्राप्रदेशपुद्गलेभ्य इत्यस्याध्याहारः। ते पुनः क्षेत्रतः सप्रदेशा असंख्यातगुणाः अवगाहनास्थानानां बाहुल्यात् । अयमाशयः-परमाण्वादीनामन्ताणुकस्कंधानामपि पुदगलानामेकैकनभःप्रदेशलक्षणमेकमेवावगाहनास्थानम् । क्षेत्राप्रदेशानां क्षेत्रतः सप्रदेशानां द्वयादिनभःप्रदेशप्रभृतीन्यसंख्यातनभःप्रदेशपर्यन्तान्यसंख्यातान्यवगाहनास्थानानोति। अथ द्रव्यतः कालतो भावतश्च सप्रदेशानां प्रमाणमाह
एभ्यः क्षेत्रतः सप्रदेशेभ्यो द्रव्यतः सप्रदेशाः पुद्गला विशेषाधिकाः । तथा द्रव्यतः सप्रदेशेभ्यः कालतः सप्रदेशाः पुद्गला विशेषाधिकाः। एवं कालतः सप्रदेशेभ्यो भावतः सप्रदेशा विशेषाधिका इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org