________________
पुद्गल-कोश एतो खेत्ताएसेण चेव सपएसिया असंखगुणा। एगपएसोगाढे मोत्तु सोसाऽवगाहणया ॥२२॥ ते पुण दुपएसोगाहणाइया सव्वपोग्गला सेसा। ते य असंखेज्जगुणा, अवगाहणट्ठाण बाहुल्ला ॥२३॥ दम्वेण होंति एत्तो सपएसा पोग्गला विसेसाहिया। कालेण य भावेण य, एमेव भवे विसेसाहिया ॥२४॥
*पाठान्तर-लब्भइ इक्किक्को च्चिय रासो खेत्ताऽपएसाणं । भवाइया वुड्डो, असंखगुणिया जं अपएसाणं । तो सप्पएसियाणं खेत्ताइविसेसपरिवुड्डी ॥२५॥ अभयदेवसूरि टीका-एतद्भावना च वक्ष्माणस्थापनातोऽवसेया।
रत्नसिंहसूरि टीका-इतो द्रव्याप्रदेशेभ्यः क्षेत्राप्रदेशिका असंख्यातगुणा भवन्ति । यस्मात्ते एव परमाणवः 'ता' इति तावदर्थे स च क्रमोपन्यासे । वक्ष्यमाणगाथोक्तद्विप्रदेशादिद्रव्यापेक्षया एकैकनभःप्रदेशावगाहितया सर्वेऽपि क्षेत्रतोऽप्रदेशा एवेति। नह्य कः परमाणुर्बादरपरिणामोऽपि द्वयादीन्नभःप्रदेशान् व्याप्नोति ।
प्रदेशशब्दः परमाणुपर्याय इह गृह्यते। ततो द्विप्रदेशादिकेष्वपि स्कंधेषु प्रदेशपरिवद्धितेषु स्थानेस्वेकाद्य कोत्तरेण परमाणुपरिवद्धितेषु क्षेत्राप्रदेशानामेकैक एव राशिर्लभ्यते। अयमर्थः-द्वयणुकस्कंधा बादरपरिणामतया केचिद् द्विद्विनभःप्रदेशावगाहिनः, केचित्तु सूक्ष्मपरिणामतयैकैकनभःप्रदेशावगाहिन इति। एवं व्यणुकस्कंधाः केचिद्बादरपरिणामतया त्रिविनभ:प्रदेशावगाहिन., केचिद्बादरसूक्ष्मपरिणामतया द्विद्विनभःप्रदेशावगाहिनः, केचिदसूक्ष्मपरिणामतयककनभःप्रदेशावगाहिनः। एवं चतुरणुस्कंधा अपि केचिच्चतुश्चतुर्नभःप्रदेशावगाहिनः, केचित्त्रिविनभःप्रदेशावगाहिनः, केचिद्द्विद्विनभःप्रदेशावगाहिनः, केचित्त्वेककनभ.प्रदेशावगाहिन इति । अनया दिशा पञ्चाणुकषडणुकादयोऽनन्ताणुकान्ताः स्कंधा एकैकनभःप्रदेशावगाहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org