________________
पुद्गल-कोश भावेण अपएसा जे ते कालेण हुति दुविहा वि।
दुगुणादयो वि एवं भावेणं जावऽणतगुणा ॥५॥ अभयदेवसूरि टीका-भावतो ये-अप्रदेशा एकगुणकालत्वादयो भवन्ति ते कालतो द्विधाऽपि भवन्ति–सप्रदेशाः, अप्रदेशाश्च इत्यथः तथा भावेन द्विगुणादयोऽपि अनन्तगुणान्ताः- 'एवं' इति द्विविधा अपि भवन्ति । ततश्च
रत्नदेवसूरि टीका-भावतो येऽप्रदेशास्ते कालतो द्विविधा अपि भवन्ति, अप्रदेशाः सप्रदेशाश्चेत्यर्थः। तत्र एकसमयस्थितिका अप्रदेशाः, द्वयादिसमयस्थितयस्त्वेकायकोत्तरेण यावदसंख्यातसमयस्थितयस्ते सर्वे सप्रदेशा इत्यभिप्रायः। तथा भावेन द्विगुणादयोऽनन्तगुणान्ताः, एवमिति द्विविधा, कालतः सप्रदेशा अप्रदेशा भवन्तीत्यर्थः । ___ भाव से जो पुदगल अप्रदेशी होते हैं वे काल से अप्रदेशी-सप्रदेशी-दोनों प्रकार के होते हैं। इसी प्रकार जो पुदगल भाव से सप्रदेशी अर्थात् द्विगुण यावत् अनन्तगुणवाले होते हैं वे काल से अप्रदेशी-सप्रदेशो-दोनों प्रकार के होते हैं। भावगुण की अपेक्षा एक समय की स्थिति वाले पुद्गलों को कालतः अप्रदेशी कहा जाता है तथा दो समय से लेकर असंख्यात समय की स्थिति वाले पुद्गलों को कालतः सप्रदेशी कहा जाता है।
कालाऽपएसयाणं एवं एक्केक्कओ हवइ रासी। - एक्केक्कगुणठाणम्मि एगगुणकालयाईसु॥६॥
अभयदेवसूरि टोका—एकगुणकाल-द्विगुणकालादिषु गुणस्थानकेषु मध्ये एकस्मिन् गुणस्थानके कालाऽप्रदेशानाम् एकको राशिर्भवति, ततश्चाऽनन्तत्वाद् गुणस्थानकराशीनाम् अनन्ता एव कालाऽप्रदेशराशयो भवन्ति ।
रत्नसिंहसूरि टीका-एकगुणकालकद्विगुणकालकादिषु मध्ये एककस्मिन् गुणस्थानके कालाप्रदेशानामेकैकराशिर्भवति । अयमर्थः-एकगुणकालकादय एकाद्य कोत्तरया गुणवृद्धयाऽनन्तगुणकालकान्ताः प्रतिगुणस्थानमनन्ताः पुद्गलाः सन्ति । एवमेकगुणनीलकादयोऽपि लभ्यन्त इति । ततश्चानन्तत्वाद्गुणस्थानकराशीनामनन्ता एव कालाप्रदेशराशयो भवन्तीति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org