SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ पुद्गल-कोश एतो कालाएसेण अप्पएसा भवे असंखगुणा । किं कारणं पुण भवे ? भण्णइ परिणामबाहुल्ला ॥४॥ - गन्ध-रस स तस्मिन् अभयदेवसूरि टीका - अयमर्थः - यो हि यस्मिन् समये यद्वर्ण ‍ स्पर्श संघातभेद - सूक्ष्मत्व- बादरत्वादिपरिणामान्तरमाऽऽपन्नः समये तदपेक्षया कालतोऽप्रदेश उच्यते । तत्र एकसमयस्थितिः इति, अन्ये परिणामाश्च बहव इति प्रतिपरिणामं कालाऽप्रदेश संभवात् तद्बहुलत्वमिति, एतदेव भाव्यते । ८९ रत्नसिंहरि टीका - इतो भावाप्रदेशेभ्यः कालाप्रदेशा असंख्यगुणा भवेयुः, कुतो हेतोः ? उच्यते - परिणामानां बहुत्वात् । अयमर्थः - यो हि यस्मिन्समये यद्वर्णगंधरसस्पर्श संघात भेदसूक्ष्म बादरत्वादिपरिणामान्तरापन्नः स तस्मिन्समये तदपेक्षया कालतोऽप्रदेश उच्यते । तत्र वर्णाः पञ्च गन्धौ द्वौ, रसाः पञ्च, स्पर्शा अष्टौ, एतेषु च विशतौ पदेषु प्रतिपदमेकगुणकालकादयोऽनन्तगुणकालकपयवसाना एकाद्य कोत्तरेणानन्ता भेदाः पुद्गलानां प्राप्यन्ते तेषु च सर्वेषु भेदेषु प्रतिभेदं यदेकसमयस्थितिकास्तदा कालतोऽप्रदेशा भवन्ति । तथा विशकलितानां परमाणूनामेकपुद्गलस्कन्धतया परिणमनं संघातः । एकद्रव्यात्परमाणूनां विचटनं भेदः । एकस्मिन्नपि नभः प्रदेशे द्वयादीनां परमाणूनामवस्थानं सूक्ष्मत्वम् सूक्ष्मपरिणामपरिणतस्य द्रव्यस्य परमाणु संख्यानतिक्रमेण प्रतिसमयमनेकनभः प्रदेशव्यापितया भवनं बादरत्वम् । एतेष्वपि परिणामान्तरेषु यदा यदा तदात्वेन पुद्गला एकसमयस्थितिकाः प्राप्यन्ते, तदा तदा कालतोऽप्रदेशा उच्यन्ते । इति प्रतिपरिणामं कालाप्रदेशसंभवात्तद्बहुत्वमिति । भावतः अप्रदेशी पुद्गलों की अपेक्षा कालतः अप्रदेशी पुद्गल असंख्यातगुण होते हैं, क्योंकि परिणामों की बहुलता है । जिस समय में पुद्गल वर्ण-गध-रस-स्पर्शसंघात-भेद-सूक्ष्मत्व-बादरत्वादि अनेक परिणामों को प्राप्त होता है, उस समय वह काल की अपेक्षा अप्रदेशी रहता है अर्थात् उक्त प्रत्येक 'परिणाम' एक समय को स्थिति वाला भी हो सकता है । परिणामों की बहुलता है तथा प्रति परिणाम में कालतः एक समय की स्थिति प्राप्त होती है - अतः भावतः अप्रदेशी पुद्गलों की अपेक्षा एक समय की स्थिति वाले कालतः अप्रदेशी पुद्गल असंख्यातगुण होते हैं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016030
Book TitlePudgal kosha Part 1
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1999
Total Pages790
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy