________________
पुद्गल-कोश (१०) श्र तसागरसूरि :अणोः एकस्य परमाणोः प्रदेशाः न भवन्ति ।
-तत्त्ववृत्ति० अ५ सू ११ (११) हेमचंद्राचार्य :परमाणुः पुनरप्रदेश इति न केनचिज्जन्यते ।
--विशेभा• गा १७३७ । टीका •०६३ प्राचीन आचार्यों द्वारा की गई स्कंध की परिभाषा (१) पूज्यपादाचार्य :__(क) द्वयोरेकनोभयत्र च बद्धयोरबद्धयोश्च । त्रयाणामप्येकन द्वयोस्त्रिषु च बद्धानामबद्धानां च। एवं संख्येयासंख्येयानन्तप्रदेशानां स्कंधानामेकसंख्येयासंख्येयप्रदेशेषु लोकाकाशेऽवस्थानं प्रत्येतव्यम् ।।
-सर्व० स ५ । सू १४ (ख) स्थूलभावेन ग्रहणनिक्षपणादिव्यापारस्कंधनात्स्कधा इति संज्ञायन्ते । रूढौ क्रिया क्वचित्सती उपलक्षणत्वेनाश्रयते इति ग्रहणादिव्यापारायोग्येष्वपि द्वयणुकादिषु स्कंधाख्या प्रवर्तते ।
-सर्व• अ ५ । सू २५ (२) विद्यनंदि :
स्थौल्यात् ग्रहणनिक्षेपणादिव्यापारास्कन्दनात् स्कंधा, उभयत्र जात्यपेक्षा बहुवचनम् । अणुजात्याधाराणां स्कंधजात्याधाराणां तावन्तरतज्जातिभेदानामनन्तत्वात् । अणुस्कंधा इत्यस्तु लघुत्वादिति चेन्नोभयन संबंधार्थत्वाद् भेदकरणस्य ।
–श्लोवा० अ५ । सू २५ (३) मलयगिरि :
(क) स्कंधाः' स्कन्दन्ति शुष्यन्ति धीयन्ते च-पुष्यन्ते पुद्गलानां विचटनेन चटनेन चेति स्कंधाः, 'पृषोदरादय' इति रूपनिष्पत्तिः।
-पण्ण० प १ । सू ६ । टीका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org