________________
___ 'से ण' मित्यादि, सोऽधिकृतः केवली णमिति पूर्ववत् एतेनानन्तरोदितेनोपावेन-उपायप्रकारेण, शेषं सुगम यावयोगतां पाउणइ' ति प्राप्नोति, अयोगताप्राप्त्यभिमुखो भवति इति भावाथः, अयोगतां च प्राप्य-अयोगताप्राप्त्यभिमुखो भूत्वाईसिं' ति स्तोकं कालं शेलेशी प्रतिपद्यते इति सम्बन्धः, कियता कालेन विशिष्टां इत्यत आह-हस्वपञ्चाक्षरोच्चारणाद्धया, किमुक्तं भवति ?- नाति तं नातिविलम्बितं किन्तु मध्यमेन प्रकारेण यावता कालेन इजणनम इत्येवंरूपाणि पञ्चाक्षराणि उच्चार्य्यन्ते तावता कालेन विशिष्टामिति, एतावान् कालः किसमयप्रमाण इति निरूपणार्थमाह-असख्येयसामयिका असख्येयसमयप्रमाणां, यच्चासंख्येयसमयप्रमाण तच्च जघन्यतोऽप्मन्तमुहूतप्रमाणं तत एषाऽप्यन्तमुहूत्तप्रमाणति ख्यापनायाह-'आन्तमुहूत्तिकी शैलेशी' मिति, शील चारित्र तच्चेह निश्चयतः सर्वसंवररूप तद् ग्राह्य, तस्येव सर्वोत्तमत्वात, तस्येशः शीलेशः तस्य याऽवस्था सा शैलेशी तां प्रतिपद्यते, तदानीं च ध्यान ध्यायति व्यवच्छिन्नक्रियमप्रतिपाति, उक्त च-सील व समाहाणं निच्छय ओ सव्वसवरो सो य। तस्सेसो सोलेसो सेलेसी होइ तदवत्था ॥१॥ हस्सक्खराइं मझण जेण कालेण पच भण्णति। अच्छइ सेलेसिगतो तत्तियमित्त तओ काल ॥२॥ तणुरोहारभाओ झायइ सुहमकिरियानिट्टि सो। वोच्छिन्नकिरियमप्पडिवाई सेलेसिकालंमि ॥३॥" न केवल शैलेशी प्रतिपद्यते पूर्वरचितगुणश्रेणोकं च वेदनीयादिक कर्म अनुभवितुमिति शेषः, प्रतिपद्यते च तत्पूर्व काययोगनिरोधगते चरमेऽन्तमुहर्ते रचिता गुणश्रेणयः-प्रागनिद्दिष्टस्वरूपा यस्य तत्तथा, ततः किं करोतीत्यत आह 'तीसे सेलेसिअद्धाए' इत्यादि, तस्यां शैलेश्यद्धायां वर्तमानोऽसंख्ययाभिगुणश्रेणीभिः पूर्वनिर्वतितामिः प्रापिता ये कर्मत्रयस्य पृथक प्रतिसमयमसंख्ययाः कर्मस्कन्धास्तान क्षिपयन्' बिपाकतः प्रदेशतो वा वेदनेन निजरयन् चरमे समय वेदनीयमायुर्नामगोत्रमित्येतान् चतुरः कर्माशात' कर्मभेदान् युगपत क्षपयति, युगपच्च क्षपयित्वा ततोऽनन्तरसमये औदारिकतंजसकार्मणरूपाणि वीणि शरीराणि 'सव्वाहि विप्पजहणाहिं' इति सविप्रहानः, सूत्र स्त्रीत्व प्राकृतत्वात , विप्रजहाति, किमुक्तं भवति ?- यथा प्राक् देशतस्त्यक्तवान तथा न त्यजति, किन्तु सर्व प्रकारैः परित्यजतीति, उक्तं च "ओरालियाइ चयइ सव्वाहि विप्पजहणाहिं जं भणियं। निस्सेस तहा न जहा देसच्चारण सो पुवि ॥४॥" परित्यज्य च तस्मिन्नेव समय कोशबन्धविमोक्ष, लक्षणसहकारिसमुत्थस्वभावविशेषादेरण्डउफलमिव भगवानपि कर्मसम्बन्धविमोक्षलक्षणसहकारिसमुत्थस्वभावविशेषाद्वद्धर्व लोकान्ते गत्वेति सम्बन्धः उक्तं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org