________________
( ६५ ) "एरण्डफलं च जहा बंधच्छेदेरियं दुयं जाति। तह कम्मबंधणछेदणेरितो जाति सिद्धोवि ॥१॥" कथं गच्छतोत्यत आह–'अविग्रहेण' विग्रहस्याभावोऽविग्रहः तेन एकेन समयेनास्पृशन्, समयान्तरप्रदेशान्तरास्पर्शनेनेत्यर्थः, ऋजुणि च प्रतिपन्नः, एतदुक्तं भवति-यावत्स्वाकाशप्रदेशेष्विहावगाढस्तावत एव प्रदेशानज़मृजुश्रेण्याऽवगाहमानो विवक्षिताच्च समयावन्यत् समयान्तरमस्पृशन् गत्वा, तथा चोक्तमावश्यकचूर्णी -“जत्तिए जीवोऽवगाढो तावइयाए ओगाहणाए उड्डे उज्जुगं गच्छति न वंक, बिइयं च समयं न फुसइ" इति भाष्यकारोऽप्याहरिउसेढि पडिवन्नो समयपएसंतरं अफुसमाणो। एगसमएण सिज्झइ मह सागारोवउत्तो सो॥१॥" इत्थमूवं गत्वा किमित्याह – साकारोपयुक्तः सन् सिद्ध यति-निष्ठितार्थों भवति, सर्वा हि लब्धयः साकारोपयोगोपयुक्तस्य उपजायते नानाकारोपयुक्तस्य, सिद्धिरप्येषा सर्वलब्ध्युत्तमा लब्धिरिति साकारोपयोगोपयुक्तस्योपजायते: आह च-"सव्वामओ लद्धीओ जं सागारोवओगलाभाओ। तेणेह सिद्धिलद्धी उप्पज्जइ तदुबउत्तस्स ॥१॥" "५ तोयमिव नालियाए तत्तायसभायणोदरत्थं वा।
परिहाउ कमेण जहा तह जोणिमणोजलं जाण ॥
-ध्याश• गा ७५
टोका-'तोयमिव' उदकमिव 'नालिकायाः' घटिकायाः, तथा तप्तं च तदायसभाजनं-लोहभाजनं च तप्तायसभाजनं तदुदरस्थं, वा विकल्पार्थः, परिहीयते क्रमेण यथा, एष दृष्टान्तः, अयमर्थोपनयः-'तथा' तेनैव प्रकारेण योगिमन एवाविकलत्वाज्जलं योगिमनोजलं 'जानीहि' अवबुद्ध यस्व, तथाऽप्रमावानलतप्तजीव भाजनस्थं मनोजलं परिहीयत इति भावना, अलमतिविस्तरेणेति गाथार्थः ॥७॥
_ 'अपनयति ततोऽपिचिनवद्य' इति वचनाद् एवं तावत् केवली मनोयोगं निरुणद्धोत्युक्तम्, अधुना शेषयोगनियोगविधिमभिधातुकाम आह
एवं चिय वयजोगं निरंभइ कमेण कायजोगपि । तो सेलेसोग्य थिरो सेलेसी केवली होइ ।
.-ध्याश• गा ७६ टोका-एवमेव' एभिरेव विषादिदृष्टान्तः, कि ?-बाग्योगं निरुणद्धि, तथा क्रमेण काययोगमपि निरुणीति वर्तते, ततः शैलेश इव' मेरुरिव स्थिरः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org