________________
( ६३ )
जम्मतो ॥१॥ तदसंखगुणविहीणं समये समये निरंभमाणो सो । मणसो सव्वमिरोहं करे असंखेज्जसमएहि ||२||" एतदेवाह - ' से णं भंते !' इत्यादि, सः अधिकृत केवली योगनिरोधं चिकीर्षन् पूर्वमेव संज्ञिनः पर्याप्तस्य जघन्ययोगिनः सत्कस्य मनोयोगस्येति गम्यतेऽधस्तात् असंख्येयगुणपरि होनं समये समये निरुन्धानोsसंख्येयैः समयः साकल्येनेति गम्यते प्रथमं मनोयोगं निरुणद्धि, 'ततोऽनन्तरं च ण' मित्यादि, तस्मात् मनोयोगनिरोधादनन्तरं चशब्दो वाक्यसमुच्चये णमिति वाक्यालङ्कारे द्वीन्द्रियस्य पर्याप्तस्य जघन्ययोगिनः सत्कस्य वाग्योगस्येति गम्यतेऽधस्तात् वाग्योगं असंख्येयगुणपरिहीनं समये समये निरुन्धानोऽसंख्येयः समयैः साकल्येनेति गम्यते द्वितीयं वाग्योगं निरुणद्धि, आह च भाष्यकृत् — पज्जत्तमितबदिय जहण्णवइजोगपज्जवा जे उ । तदसंखगुणविहीणं समये समये निरंतो ॥१॥ सव्ववइजोगरोहं संखाईएहि कुणइ समहि" "ततोऽणंतरंच ण' मित्यादि, ततो वाग्योगादनन्तरं च णं प्राग्वत् सूक्ष्मस्य पनकजीवस्य अपर्याप्तस्य प्रथमसमयोत्पन्नस्येति भावार्थ: जघन्ययोगिनः सर्वात्पवीर्यस्य पनकजीवस्य यः काययोगस्तस्याधस्ताद संख्येयगुणहोणं काययोगं समये समये निरुन्धन् असंख्येयः समयः समस्तमपीति गम्यते तृतीयं काययोगं निरुणद्धि, तं च काययोगं निरुन्धानः सूक्ष्मक्रियमप्रतिपाति ध्यानमधिरोहति, तत्सामर्थ्याच्च वदनोदरादिविवरपूरणेन संकुचितदेहविभागवत्तप्रदेशो भवति, तथा चाह भाष्यकृत् - "तत्तो य सुहुमपणगस्स पढमसमयोववण्णस्स । जो किर जहण्णजोगी तदसंखेज्जगुण ही णमेक्केक्के । समएहि रंभमाणो देहति भागं च मुळेचं तो ॥१॥
भइ स काययोगं संखाईएहि चेव समएहि" काययोगनिरोधकालान्तरे चरमे अन्तर्मुहूर्त्ते वेदनीयादित्रयस्य प्रत्येकं स्थितिः सर्वापवर्त्तनया अपवर्त्यायोग्यवस्थासमाना क्रियते गुणश्रेणित्रमविरचितप्रदेशा, तद्यथा - प्रथमस्थितौस्तोकाः प्रदेशाः द्वितीयस्यां स्थितौ ततोऽसंख्येयगुणाः, तृतीयस्यां ततोऽप्यसंख्येयगुणाः, एवं तावद्वाच्यं यावच्चरमा स्थितिः, स्थापना, एताः प्रथमसमयगृहीतदलिक निर्वत्तता गुणश्रेणयः, एवं प्रतिसमयगृहीतदलिक निर्वत्तिताः कर्मत्रयस्य प्रत्येक मसंख्येया द्रष्टव्याः, अन्तर्मुहूर्त्त समयानामसंख्यातत्वात्, आयुषस्तु स्थितिर्यथाबद्धं वावतिष्ठते, सा च गुणश्रेणिक्रमविपरीतक्रमदलिकरचना, स्थापना चेयम् - अयं च सर्वोऽपि मनोयोगादिनिरोधो मन्दमतिसुखावबोधार्थमाचार्येण स्थूरदृष्ट्या प्रतिपादितः, यदि पुनः सूक्ष्मदृष्ट्या तत्स्वरूपजिज्ञासा भवति तदा पश्चसंग्रहटीका निभालनीया, तस्यामतिनिपुणं प्रपञ्चेन तस्याभिधानात् इह च ग्रन्थगौरवभयान्नास्माभिरभिहितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org