________________
सम्यग्ज्ञान]
१६. तेषामेव संशय-विमोह-विभ्रमरहितत्वेनाधिगमो निश्चयः परिज्ञानं सम्यग्ज्ञानमु X XX अथवा X X X तेषामेव सम्यक्परिच्छित्तिरूपेण शुद्धात्मनो भिन्नत्वेन निश्चयः सम्यग्ज्ञानम् । ( समयप्रा. जय. वृ. १६५) । २०. यथावद् वस्तु निर्णीतिः सम्यग्ज्ञानं प्रदीपवत् ॥ ( स्वरूपस. १२) । २१. तत्र जीवादितत्त्वानां संक्षेपाद्विस्तरादपि । यथावदवबोधो यः सम्यग्ज्ञानं तदुच्यते ॥ ( त्रि. श. पु. च. १, ३, ५७८) । २२. यथावस्थिततत्त्वानां संक्षेपाद् विस्तरेण वा । योऽवबोधस्तमत्राहुः सम्यग्ज्ञानं मनीषिणः ।। ( योगशा. १ - १६ ) । २३. वत्थूण जं सहावं जहद्वियं णय पमाण तह सिद्धं । तं तह व जाणणे इह सम्मं णाणं जिणा वंति ॥ ( द्रव्यस्व. प्र. नयच. ३२६) । २४. ×× X स्वार्थविज्ञानं सम्यग्ज्ञानमसंशयम् । ( जीव. च ७-१२ ) । २५. सम्यग्ज्ञानं यथावस्थितवस्तुग्राहि ज्ञानम् । ( चारित्रभ. ६, पृ. १८६ । २६. येन येन प्रकारेण जीवादया पदार्थाः व्यवस्थिताः वर्तन्ते तेन तेन प्रकारेण मोह संशयविपर्ययरहितं परिज्ञानं सम्यग्ज्ञानम् । (त. वृत्ति श्रुत १ - १ ) । २७. जीवादीनां पदार्थानां याथात्म्यं तत्त्वमिष्यते । सम्यग्ज्ञानं हि तज्ज्ञानं X X X ॥ ( जम्बू. च. ३-१७ ) ।
१ जीवाजीवादि पदार्थों के श्रधिगम का नाम सम्यग्ज्ञान है । २ संशय, श्रनध्यवसाय और भ्रान्ति से रहित ज्ञान को सम्यग्ज्ञान कहा जाता है । ५ जिस जिस प्रकार से जोवादि पदार्थ व्यवस्थित हैं उनका उसी रूप से जो ग्रहण होता है उसे सम्यग्ज्ञान कहते हैं । १० लक्ष्य लक्षण व्यवहार के दोष से रहित जो ज्ञानावरण कर्म के क्षय श्रौर क्षयोपशम से मति श्रुतादि भेदरूप ज्ञान होता है वह सम्यग्ज्ञान कहलाता है । सम्यग्दर्शन - देखो सम्यक्त्व । १ तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् । (त.सू. १-२ ) । २. प्रशस्तं दर्शन सम्यग्दर्शनम्, सङ्गतं वा दर्शनं सम्यग्दर्शनम् । ( त. भा. १ - १ ) ; तत्त्वानामथानां श्रद्धानम्, तत्त्वेन वा अर्थानां श्रद्धानं तत्त्वार्थश्रद्धानम् । तत् सम्यग्दर्शनम् । XX X तदेवं प्रशंम संवेग निर्वेदानुकम्पा स्तिक्याभिव्यक्तिलक्षणं तत्त्वार्थश्रद्धानं सम्यग्दर्शन. मिति । ( त. भा. १-२ ) । ३ एतेष्वध्यवसायो योऽर्थेषु विनिश्चयेन तत्त्वमिति । सम्यग्दर्शनमेतत्
Jain Education International
११०६, जैन-लक्षणावली
| सम्यग्दर्शन
XXX ॥ ( प्रशमर. २२२ ) । ४. तत्त्वा [ थ्या ]नां भावानां निसर्गादधिगमाद्वा शुद्धानां रुचिः सम्यग्दर्शनम् । (उत्तरा चू. पृ २७२ ) । ५. श्रद्धानं परमार्थानामाप्तागम तपोभृताम् । त्रिमूढापोढमष्टाङ्गं सम्यग्दर्शनमस्मयम् ॥ ( रत्नक. ४ ) । ६. प्रणिधानविशेषा हितद्वैविध्यजनितव्यापारं तत्त्वाश्रद्धानं सम्यग्दर्शनम् । (त. वा. १, १, १ ) । ७. तत्तत्थसद्द होणं सम्मत्तं XXX । ( श्रा. प्र. ६२ ) । ८. मिथ्यात्वमोहनीय (क्षय) क्षयोपशमोपशमसमुत्था तत्त्वरुचिः सम्यग्दर्शनम् । ( त. भा. हरि. वृ. १-२, पृ. १४) । ६ यन्मिथ्या स्वभावप्रचितपरिणाम विशेषाद् विशुध्यमानकं सप्रतिघातं सम्यक्त्वकारणं सम्यग्दर्शनम् । ( श्रनुयो हरि. वृ. पू. ६३) । १०. तत्त्वार्थश्रद्धानलक्षणं दर्शनं सम्यग्दर्शनम् । (श्रा. प्र. टी. ३४१ ) । ११. सम्यग्दर्शनमत्रेष्टं तत्त्वश्रद्धानमुज्ज्वलम् । व्यपोढसंशयाद्यन्तनिश्शेषमल संकरम् ॥ ( ह. पु. ५८-१९ ) । १२. प्राप्तागमपदार्थानां श्रद्धानं परया मुदा । सम्यग्दर्शनमाम्नातं तन्मूले ज्ञान चेष्टिते ॥ ( म. पु. ६-१२१ व २४ - ११७) । १३. प्रणिधानविशेषांत्थद्वैविध्यं रूपमात्मनः । यथास्थितार्थश्रद्धानं सम्यग्दर्शनमुद्दिशेत् ॥ ( त. इलो. १, १, १ ) । १४. अदभिहिताशेष द्रव्य - पर्याय प्रपञ्च विषया तदुपघातिमिथ्यादर्शनाद्यनन्तानुबन्धिकषायक्षयादिप्रादुर्भूता रुत्रिर्जीवस्यैव सम्यग्दर्शनमुच्यते । ( त. भा. सिद्ध. वृ. १-१, पु. २६ ) ; दृष्टिर्या विपरीतार्थग्राहिणी जीवादिकं विषय मुल्लिखन्तीव प्रवृत्ता सा सम्यग्दर्शनम् । (त. भा. सिद्ध. वृ. १ - १, पृ. ३० ) ; मुख्यया तु वृत्त्या रुचिरात्मपरिणामो ज्ञानलक्षणः श्रद्धा संवेगादिरूपः सम्यग्दर्शनम् । ( त. भा. सिद्ध. वृ. १-७, पृ. ५५); प्रशम- संवेग - निर्वेदाऽस्तिक्याऽनुकम्पाभिव्यक्तिलक्षणं सम्यग्दर्शनम् । ( त. भा. सिद्ध. वृ. ६-४) । १५. जीवाजीवादीनां तत्त्वार्थानां सदैव कर्तव्यम् । श्रद्धानं विपरीताभिनिवेश विविक्तमात्मरूपं तत् ॥ ( पु. सि. २२) । १६. श्रद्धानं (तत्त्वार्थानाम् ) दर्शनं X X X (त.सा. १-४ ) । १७. एकत्वे नियतस्य शुद्धनयतो व्याप्तुर्यदस्यात्मनः पूर्णज्ञानधनस्य दर्शनमिह द्रव्यान्तरेभ्यः पृथक् । सम्यग्दर्शनमेतदेव निय मादात्मा च तावानयम् तन्मुक्त्वा नवतत्त्व सन्ततिमिमामात्मायमेकोऽस्तु नः ॥ ( समयप्रा. क. १-६) ।
For Private & Personal Use Only
www.jainelibrary.org