________________
नय ]
२६) । ८. ज्ञातृणामभिसन्धयः खलु नया: XX X | ( सिद्धिवि. १० - १ ) ; x x x नयो ज्ञातुमंत मतः । (सिद्धवि. १०-२ ) । ६. भेदाभेदात्मके ज्ञेये भेदाभेदाभिसन्धयः । ये ते ऽपेक्षानपेक्षाभ्यां लक्ष्यन्ते नय- दुर्नया: ॥ ( लघीय. ३० ) ; नयो ज्ञातु रभिप्राय: । ( लघीय. स्व. वि. ३०) ; तदपेक्षो ( षट्कारकापेक्षो ) नयः । ( लघीय. स्वो. वि. ४८); यो ज्ञातुरभिप्राय युक्तितोऽर्थ परिग्रहः । ( लघीय. ५२; प्रमाणसं. ८७ ); x x x नयो विकलसंकथा । (लघीय. ६२ ); श्रुतभेदा नयाः सप्त नैगमादिप्रभेदतः । द्रव्य पर्यायमूलास्ते द्रव्यमे कान्वयानु गम् ॥ ( लघीय. ६६ ) ; सापेक्षो नय: । ( लघीय. स्व. वि. ७१ ); तदर्थांशपरीक्षाप्रवणोऽभिसन्धिय: ( लघीय. स्व. वि. ७४) । १०. अवयवविया नया: । (त. वा. १, ६, ३); सम्यगेकान्तो नयः । (त. वा. १, ६, ७ ); प्रमाणप्रकाशितार्थविशेष प्ररूपको नयः । (त. वा. १, ३३, १) । ११. तस्य (अर्थतत्वस्य ) विशेषो नित्यत्वादिः पृथक् पृथक्, तस्य प्रतिपादको नयः । तथा चोक्तम्-प्रथंस्यानेकरूपस्य धीः प्रमाणं तदंशधीः । नयो धर्मान्तिरापेक्षी XX X ॥ ( अष्टश. १०६ ) ; उक्त - लक्षणो (स्याद्वादप्रविभक्तार्थव्यञ्जको) द्रव्य-पर्यायस्थानः संग्रहादिर्नयः । ( अष्टश. १०७) । १२. नयनं नीयते वा नेनादस्मादस्मिन्निति वा नयः, वस्तुनः पर्यायाणां संभवतोऽघिगम इत्यर्थः । (श्राव. नि. हरि. वृ. ७६, पृ. ५४ ) ; नयन्तीति नयाः, वस्त्ववबोधगोचरं प्रापयन्त्यनेकधर्मात्मकज्ञेयाध्यवसायान्त रहेतवः इत्यर्थः । (प्राव. नि. हरि. वू. ७५४, पू. २८२ ) । १३. नयनं नयः, नीयते ऽनेनास्मिन्नस्मादिति वा नयः अनन्तधर्मात्मकस्य वस्तुन एकांशपरिच्छेद इत्यर्थ: । (अनुयो. हरि. वू. पू. २७); नीतयो नयाः अनन्तधर्मात्मकस्य वस्तुन एकांशपरिच्छित्तयः । (अनुयो. हरि वू. पृ. ६) वस्तुनोऽनेकधर्मिण: एकेन धर्मेण नयनं नयः । ( अनुयो. हरि. व. पू. १०५) । १४. प्रमाणपरिगृहीतार्थैकदेशे वस्त्वध्यवसायो नयः । ( धव. पु. १, पृ. ८३; पु. ६, पृ. १६३; जयध. १, पू. ६६ व १६६ ) ; ज्ञातुरभिप्रायो नयः । अभिप्राय इत्यस्य कोऽर्थः । प्रमाणपरिगृहीतार्थं क देश वस्त्वध्यवसाय अभिप्रायः । युक्तितः प्रमाणात् अर्थपरिग्रहः द्रव्य-पर्याययोरन्यतरस्य अर्थ इति परिग्रहो वा नयः,
५८८, जैन- लक्षणावली
Jain Education International
[ नय
प्रमाणेन परिच्छिन्नस्य वस्तुनः द्रव्ये पर्याये वा वस्त्वध्यवसायो नय इति यावत् । धव. पु. ६, पृ. १६२-६३ ) ; प्रमाणपरिच्छिन्नवस्तुनः एकदेशे वस्तुत्वार्पणा नयः । ( धव. पु. ६, पृ. १६४ ) । प्रमाणपरिगृहीतवस्तुनि यो व्यवहार एकान्तरूपः स नयनिबन्धन: XX X तथा पूज्यपादभट्टारकै रप्यभाणि सामान्यनयलक्षणमिदमेव । तद्यथा - प्रमाणप्रकाशि तार्थविशेषप्ररूपको नयः इति । XXX तथा प्रभाचन्द्रभट्टारकै रप्यभाणि - प्रमाणव्यपाश्रयतत्परणामविकल्प वशीकृतार्थविशेषप्ररूपणप्रवणः प्रणधिर्यः स नय इति । X X X सारसंग्रहेऽप्युक्तं पूज्यपादैःअनन्तपर्यायात्मकस्य वस्तुनोऽन्यतम पर्यायाधिगमे कर्तव्ये जात्यहेत्वपेक्षो निरवद्यप्रयोगो नय इति । ( व. पु. ६, पृ. १६५-६७ ) ; यात्रिकामुत्रिकफलप्राप्युपायो नयः । ( धव. पु १३, पृ. २८७ ) । १५. अनन्तपर्यायात्मकस्य वस्तुनोऽत्यतमपर्यायाधिगमे कर्तव्ये जात्ययुक्त्यपेक्षो निरवद्यप्रयोगो नयः इति । श्रयं वाक्यनयः सारसंग्रहीयः । प्रमाणप्रकाशितार्थं विशेषप्ररूपको नयः । श्रयं वाक्यनयः तत्त्वार्थ भाष्यगतः । X X X प्रमाणव्यपाश्रयपरिणाम विकल्प वशीकृतार्थविशेष प्ररूपणप्रवणः प्रणिधिर्यः स नय इति । श्रयं वाक्यनयः प्रभाचन्द्रीयः । जयध. १, पृ. २१० ) । १६. नयो ऽनेकात्मनि द्रव्ये नियतैकात्मसंग्रहः । (ह. पु. ५८ - ३९ ) । १७. स्वार्थ निश्चायकत्वेन प्रमाणं नय इत्यसत् । स्वार्थेक देश निर्णीतिलक्षणो हि नयः स्मृतः । (त. इलो. १, ६, ४; x x x सामान्यादेशतस्तावदेक एवं नयः स्थितः । स्याद्वादप्रवि भक्तार्थविशेषव्यंजनात्मकः ॥ (त. इलो. १, ३३, २); नीयते गम्यते येन श्रुतार्थीयो नयो हि सः । (त. श्लो. १, ३३, ६) । १८. अनन्तधर्मात्मकस्य वस्तुनोऽन्यतमधर्मपरिच्छेदस्तदविनाभाविधर्मबलप्रसूतो नय: । ( भ. प्रा. विजयो. ५) । १६. नयन्तीति नयाः कारकाः व्यञ्जका इति XX X ये ह्यनेकधर्मात्मकं वस्त्वेकेन धर्मेण निरूपयन्ति एता - वदेवेदं नित्यमनित्यं वेत्यादिविकल्पयुक्तं ते नया: नैगमादयः । X X X नयास्तु एकांशावलम्बिनः, यत्तु ज्ञानमनेकधर्मात्मकं सद्वस्तु एकधर्मावधारणेनावच्छिनत्त्येवमात्मकमेवैतदिति तन्नया इति कथ्यन्ते । ( त. भा. सिद्ध. वृ. १ - ६ ) । २०. लोयाणं बवहारं धम्मविवक्खाइ जो पसाहेदि । सुयणाणस्स वियप्पो
For Private & Personal Use Only
www.jainelibrary.org