________________
दग्धवैरिदलिकः किल तेजो
राशिरस्य वडवानल एव । दीपनाय रिपुभूपपुरन्ध्री
लोचनाश्रुनिवहोऽजनि यस्य ॥१९॥ अधिज्यके धन्वनि तस्य विद्विषा
मधःकृता भ्रूकुटिरुत्कटापि हि । तस्मिन् शरौघं लघु संदधत्यहो
तुत्रोट तेषां रणगर्वग्रन्थिका ॥२०॥ नामतस्समजनिष्ट हमाऊ
तत्सुतो नरमणिः स च यस्मिन् । रत्नकुक्षिविधृते शुशुभेऽम्बा
शुक्तिकेव धृतमौक्तिकरत्ना ॥२१॥ स क्रमेण ववृधे सुतरत्नं
तेजसा च वयसा च गुणैश्च । ग्रीष्मभानुरिव भीष्मगुणाढ्यो
दुस्सहोऽसहनसंहतिकानाम् ॥२२॥ अन्योऽन्यमात्सर्यवशादिवैताः
संचक्रमुस्तत्र कलाः समग्राः। जायेत लभ्ये सुभगे हि कान्ते
मृगीदृशामाशयबन्धसाम्यम् ॥२३॥ अदृष्टलक्ष्यव्यधतत्परं स्मरं
कलागुरुकृत्य धनुःकलाधरः । १. तेजसाऽथ कां. ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org