________________
RAHUNALAIMADHAARAAMTIMATIMEANILAMIRRITAMARAL सामाMAM
अनाविलं क्याबिलमस्ति नाम्ना ___पुरं पुराणां धुरि वर्णनीयम् । उच्चस्तनी यत्र चकास्ति भित्ति__वप्रेऽवरोधे वनिताततिश्च ॥१३॥ अदृष्टसूर्याः सदने यवन्यः
सदापि संसेवितसज्जवन्यः । सीमावनीषु प्रघनाश्च वन्य
श्छायासमाच्छादितभूर्यवन्यः ॥१४॥ सुसेविताः स्वामिजना इव ध्रुवं
फलन्ति काले किल यत्र पादपाः। काले घनो वर्षति चाऽचिरप्रभा
काले च काले घनगर्जितान्यपि ॥१५॥ यदीयशास्तारमशीतशासनं __ संलक्ष्य लक्ष्मीरकुतोभया सती । समग्रदिग्मण्डलतः समीयुषी
चकार यत्र स्थिरमेकमाश्रयम् ॥१६॥ स्नेहक्षयो यत्र विभातदीपे ___ तथोदयोऽस्तंसहितोऽभ्रदीपे। सापच्च संपद्रजनीप्रदीपे
जनेन दृष्टः प्रहतप्रदीपे ॥१७॥ अस्ति त्रस्तसमस्तारिस्तत्र शास्ता प्रशस्तहृत् ।
अकर्बुरं यशो बिभ्रद्धर्बरो मुद्गलाधिपः ॥१८॥ १. "अन्तःपुरे" कां.हं.मां. टि०॥ २. "विधुत्" कां.हं.मां. टि०॥ ३. ०ऽस्तं सहितो मु.
A mATIALANAMITMalamaanNAMIRAMMALAAMANANDHARMIRRIALLALLANTHALALAMU
४. जने न मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org