________________
बद्धिवर्णनाधिकारे भरताख्यानकम्
शील-तपोभावनास्वरूपे [ धर्म ] 'प्रवृत्तिः' प्रवर्तनं 'कर्तव्या' विधेया 'बुद्धिमद्भिः' बुद्धिः-मतिर्विद्यते येषां ते बुद्धिमन्तम्तैः । अत्र च सामग्रयन्तर्गतत्वेन पुनर्बुद्धरुपादानं धर्मसाधनगुणकलापमध्ये बुद्धेः प्राधान्यग्यापनार्थम् । भणितं च___"श्रियः प्रसूते तनुते विवेकं यशांसि धत्ते विपदो निहन्ति । संस्कारयोगाच्च परं पुनीते शुद्धा हि बुद्धिः किल कामधेनुः ॥१॥" तथा
"हेयमुवाएयं वा न जाणई विमलबुद्धिपरिहीणो । न य धम्माइपरिक्खं बुद्धी ता सव्वगुणहेऊ ॥ १ ॥" किच्च
"बुद्धिजुओ आलोवइ', धम्मट्ठाणं उवाहिपरिसुद्धं । जोगत्तमप्पणो वि य, अणुबंधं चेव जत्तेणं ॥१॥ आढवइ सम्ममेसो तहा जहा लाघवं न पावेइ । पावेइ य गुरुगत्तं इह-परलोए मुही होइ ।।२॥"
[उपदेशपद गा० १६७, १७१ ] ॥छ।॥२॥ बुद्धिमेदानाह
उप्पत्तिय वेणइया कम्मय परिणामिया चउह बुद्धी ।
भरह-निमित्तिय-करिसग-अभयाईनायओ नेया ॥३॥ व्याख्या-उत्पत्तिः-उत्पादः सैव प्रयोजनमस्याः सा तथा । उक्तं च"पुव्वमदिट्ठमसुयमवेइय तक्खणविसुद्धगहियत्था । अब्वाहयफलजोगा बुद्धी उप्पत्तिया नाम ॥१॥
[नन्दी० गा०६०] इति । "वेणइय"त्ति विनयः-गुरुशुश्रूषादिः तेन निर्वृत्ता वैनयिकी । भणितं चभरनित्थरणसमत्था तिवम्गसुत्तत्थगहियपेयाला । उभओलोगफलवई विणयसमुत्था हवइ बुद्धी ॥१॥
[ नन्दी० गा० ६४] "कम्मय"त्ति कर्म-कृप्यादिकम् । कर्मणो जाता कर्मजा । कथितं च"उवओगदिट्टसारा कम्मपसंगपरिघोलणविसाला । साहक्कारफलवती कम्मसमुत्था हवइ बुद्धी ॥१॥"
[नन्दी० गा० ६७] "परिणामिय"त्ति परिणामः-बुद्धिपूर्वकं सदसद्वस्तुविवेचनं वयोविपाको वा तेन निवृत्ता पारिणामिकी । अभिहितं च"अणुमाण-हेउ-दिटुंतसाहिया वयविवक्कपरिणामा। हिय-निम्सेसफलवई बुद्धी परिणामिया नाम ॥१॥
[नन्दी० गा० ६९] "चउह बुद्धि"त्ति 'चतुर्धा' चतुर्भिः प्रकारैश्चतुःसङ्ख्या 'बुद्धिः' मतिरिति ! आह च"उप्पत्तिया वेणइया कम्मया पारिणामिया । बुद्धी चउब्विहा वुत्ता पंचमा नोवलब्भइ ।। १ ॥"
[नन्दी० गा० ५९] ति उत्तरार्धेनाऽऽसां यथासङ्ख्येन दृष्टान्तानाह-भरतश्च-भरतनटपुत्रो रोहकः फलहेतूपचारात् । नैमित्तिको च-निमित्तेन चरतस्तथाविधसिद्धपुत्री, कर्षकश्व-कृषति सस्यार्थ भूमिमिति कर्षकः-हलधरः, अभयश्च-श्रेणिकराजसुतः प्रतीत एव, भरत-नैमित्तिक
१. श्रालोचयति । २. प्रारभते । ३. पराभवम् । ४. उपदेशपदे "रोहिणिवणिएण दिहतो" इत्युत्तराद्धोत्तरांशः। ५. पेयालं-प्रमाणं सारो वा । ६. लिङ्गाद् लिङ्गिज्ञानम् , स्वार्थानुमानमत्र ज्ञातव्यम् । अनुमानप्रतिपादकं वचः हेतुः, परार्थानुमानमित्यर्थः । दृष्टान्तः-उदाहरणम् । वयोविपाके परिणामः-पुष्टता यस्याः सा वयोविपाकपरिणामा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org