________________
आख्यानकमणिकोशे
अस्या व्याख्या - "नमिऊ " नत्वा 'जिनं' रागादिजेतृत्वाद् जिनः तम् 'वीरं' चरमतीर्थाधिपतिम्, 'सुरमहितं' सुरै:देवैर्महितः पूजितो यस्तम्, 'केवलिनं' केवलं केवलज्ञानं तद् विद्यते यस्यासौ केवली तम्, 'प्रवरवाणीक' प्रवरा - समस्तवचनगुणसमन्वितत्वेन निर्दोषा वाणी - भारतीयस्य स प्रचरवाणीकस्तम् । प्राकृतत्वात् सूत्रेऽन्यथा निर्देशः । 'आख्यानकमणिकोशम् आ-मर्यादया ख्यायन्ते - परहित निरतैर्भव्यावबोधाय कथ्यन्ते इत्याख्यानकानि - धर्मकथाः, तान्येव संसारदौर्गत्यापहारकत्वेन मणयः - रत्नानि आख्यानकमणयः तेषां कोषः- भाण्डागारस्तम् । 'भव्यजनविबोधकं' भव्याः - मुक्तिगमनयोग्या जन्तवस्तेषां जनः [ समूह ] स्तस्य विबोधकंविशिष्ट तत्त्वा[व]गमहेतुम् । “वोच्छं" ति वक्ष्ये इति गाथासमासार्थः ॥ अवयवार्थस्त्वयम्
इह भगवतो वीरस्य जिनादिविशेषणचतुष्टयेन यथासङ्ख्यं अपायापगम-पूजा-ज्ञान- वचो [ रूपाः ] चत्वारोऽतिशयाः प्रतिपादिता द्रष्टव्याः । तथा " नमिऊण" मित्यनेन शिष्टसमयपरिपालनाय विघ्नविनायकोपशान्त्यर्थं चेष्टदेवतानमस्कृतिमाह । तथाहि शिष्टाः कचिदभीष्टे वस्तुनि प्रवर्तमानास्सन्तोऽभीष्टदेवतानमस्कृतिपुरस्सरमेव प्रवर्तन्ते, अयमप्याचार्यो नहि न शिष्ट इत्यतः शिष्ट समयपरिपालनाय । तथा श्रेयांसि बहुविघ्नानि भवन्तीति । उक्तं च
"श्रेयांसि बहुविघ्नानि भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां क्वापि यान्ति विनायकाः ॥ १ ॥ "
इदं च प्रकरणं सम्यग्दर्शनहेतुत्वात् श्रेयोभूतं वर्तते, अतो विघ्नविनायकोपशान्तये । सिद्धा चेयमिष्टदेवतास्तुतिः विघ्नविनायकोपशान्तिहेतुत्वेन । यतः -
२
पुंसस्तस्यां प्रवृत्तस्य श्रेयसो जन्मकर्मणः । तेन न्यत्कृतसामर्थ्याः क्षीयन्ते विनहेतवः ॥ १ ॥ क्षीणेषु विघ्नबीजेषु जायते निरुपद्रवा । श्रोतृव्याख्यानविषयव्यापारर्द्धिपरम्परा ॥ २ ॥ इति । तथाऽभिधेयशून्येऽपि न प्रवर्तन्ते प्रेक्षावन्तः । यतः -
काकदन्त परीक्षादौ वाच्यवैकल्यतो यथा । प्रवर्तेत न मेधावी तद्वत् शास्त्रेऽपि भाव्यताम् ॥ १ ॥
ततश्च 'आख्यानकमणिकोशम्' इत्यनेनाभिधेयं प्रतिपादितम्, आख्यानकानामेवाभिधास्यमानत्वात् । 'भव्यजनविबोधकम्' इत्यनेन प्रयोजनमाचप्टे, यतस्तद्रहितेऽपि प्रेक्षावन्तो न प्रवर्तन्ते । तदुक्तम् -
तथा
“सर्वस्यैव हि शास्त्रस्य कर्मणो वाऽपि कस्यचित् । यावत् प्रयोजनं नोक्तं तावत् तत् केन गृह्यताम् ? ॥ १ ॥" [ श्लोकवार्तिक १.१२ ]
“सिद्धार्थं सिद्धसम्बन्धं श्रोतुं श्रोता प्रवर्तते । शास्त्रादौ तेन वक्तव्यः सम्बन्धः सप्रयोजनः || १ || " [ श्लोकवार्तिक १.१७ ]
प्रयोजनं तु कर्तुः श्रोतुश्चानन्तर - परम्परभेदभिन्नम् । तत्रानन्तरं शास्त्रकर्तुः भणितं च
“सम्यक् तत्त्वोपदेशेन यः सत्त्वानामनुग्रहम् । करोति तत्त्वशून्यानां स प्राप्नोत्यचिराच्छ्विम् ॥ १ ॥” इति । श्रोतुरप्यनन्तरं तत्त्वावगमः, परम्परं तु तस्यापि मुक्तिरेव । अभाणि च -
“सम्यक् तत्त्वपरिज्ञानाद् विरक्ता भवतो जनाः । क्रियाशक्त्या ह्यविघ्नेन गच्छन्ति परमां गतिम् ॥ १ ॥” इति । सम्बन्धस्तूपायोपेयादिलक्षणः सामर्थ्यलभ्यः । तथाहि इदं शास्त्रमुपायः, वस्तुतत्त्वावगमश्चोपेयमिति ॥ १ ॥
अधुना प्रतिज्ञातमनुत्रियते
सत्त्वानुग्रहः, परम्परं तु मुक्तिपदप्राप्तिः ।
Jain Education International
लक्षूण नरत्ताई सामग्गी मोक्खसाहणे धम्मे । दाणाइए पवित्ती कायव्वा बुद्धिमतेहिं ॥ २ ॥
अस्या व्याख्या–‘लब्ध्वा' अवाप्य 'नरत्वादि' मनुजजन्माऽऽर्यक्षेत्रादिलाभरूपां 'सामग्री' मुक्तिसाधकगुणकलापम् । 'मोक्षसाधने' मोक्षं मुक्तिं साधयति - करोतीति मोक्षसाधनस्तत्र, एतच्च धर्मस्य विशेषणम् । पुनरपि किंविशिष्टे ? 'दानादिके' दान
For Private Personal Use Only
www.jainelibrary.org