________________
३१०
आख्यानकमणिकोशे परमादित्सितं वस्तु यन्मया भुवनत्रये । तं न त्रातमलं कोऽपि किं नाश्रावि सभापितम ? ॥२॥ न ब्रह्मा नेन्दुमौलि: शशधर-तपनी नापि नारायणोऽसौ, नाप्यष्टौ लोकपालाः सह सुरपतिना नापि बुद्धो न चाहन् । आकृष्टं कालपाशैजनमनुदिवसं नीयमानं वराक, व्याघ्राघ्रातं वनान्तात् पशुमिव विवशं त्रातुमेते न शक्ताः ॥६३॥ कोडीकृतो मयाऽप्येप आयुपः सङ्क्षये सति । निःसन्देहं ततो मत्तो मर्त्तव्यममुनाऽधुना ॥६॥
एतच्छ त्वा विशेषेण कम्पमानं पुरःस्थितम् । दृष्ट्वा त्रातुमशक्तस्तं शक्रोऽभूद विह्वलः क्षणम् ॥६५॥ तथा हि
विज्ञापनाप्रवृत्तं तं गरुडं स्निग्धया दृशा । पश्यन्तं जातसंशीत्या विवक्षन्तं च वासवम् ॥६६॥ सुरान् सामानिकादींश्च त्राणार्थ दीनया मुहुः । तर्जयन्तं मुहुस्त्रस्ततारया यममेकया ।।६७|| क्रियाहीनं कृपापात्रं कृतान्तवशवर्तिनम् । सतां शोच्यं सुदीनास्यं दुस्थितं गद्गदस्वरम् ॥६८॥ तदवस्थं समालोक्य दयैकरसिकः सुरः । शक्रसंसदि नास्त्येव यो नाभूत् साश्रुलोचनः ॥६९|| दुःखितेषु सुरेप्वेवं परमेको यमः मुखी । दुःखापन्नेऽथवा साधावसाधुः सुखमश्नुते ॥७॥ हा हा ! धिग ! धिग ! वराकोऽयमस्माकं शरणागतः । न त्रातुं शकितोऽस्माभिर्महानेष पराभवः ॥७१।। विषण्णमानसा एवं गीर्वाणा यावदासते । विवेकात् सत्त्वमालम्व्य तावदुक्तं बिडीजसा ॥७२॥ अहो देवाः ! पराभूय वक्रवाक्यममुं यमम् । जीवितव्यं प्रयच्छामः कथञ्चित् कृकवाकवे ||७३॥ अयं हि स्वीकृतोऽनेन दौबल्ये पुण्यकर्मणः । तच्च साध्यमसाध्यं वा द्वेधा कर्म विनिश्चितम् ||७४॥ साध्यं सोपक्रमं प्रोक्तमसाध्यं निरुपक्रमम् । यत्नसाध्ये तदेतस्मिन् पौरुषं युज्यते सताम् ॥७॥ एतच्छ त्वा सुराः प्राहुयुक्तियुक्तं वचः प्रभोः !। विधास्यामस्तदेतस्मिन् वयमद्यापि पौरुषम् ॥७६।। एतावतां किमस्माकं करिप्यत्येष दुष्टधीः ? । साध्ये सिद्धिन चेदित्थं कोऽपराधो विवेकिनाम् ? ॥७॥ सम्यक सङ्गोपयिप्यामः कथञ्चित् तत्र कुत्रचित् । गुप्तस्थाने यथाऽमुप्य न जानाति पिताऽप्यमुम ||७|| उक्त्वैवं तं करे कृत्वा चेलुः स्वर्गाचलं प्रति । विलम्वेन विना प्रापुर्मेरीः शृङ्गं मनोहरम ॥७॥ गुहामध्येऽथ चूडायाः सम्यक संस्थाप्य कुक्कुटम् । निविरीसं शिला दत्ता द्वारे तस्य महीयसी ॥८॥ इत्थं यत्नवतां प्रायः संसिद्धं नः समीहितम् । सन्तुष्टमानसा एवं सुराः स्वर्गालयं ययुः ।।८१॥ सोऽपि तस्मिन् गुहामध्ये प्रक्षिप्तो भक्षितः क्षणात् । आरण्यकबिडालेन बुभुक्षाक्षामकुक्षिणा ॥२॥ सुप्रसन्नमुखा लेखाः साधितस्वप्रयोजनाः । यथावृत्तं स्ववृत्तान्तं स्वर्नाथाय न्यवेदयन् ॥८३॥ सावज्ञं साभ्यसूयं च सुरांस्तान् वीक्षते यमः । किमेते बत खिद्यन्ते निष्फलारम्भचेष्टिताः ? ॥४॥ किमेतत् ? केनचित् पृष्ट तस्मै सर्व न्यवेदयत् । तदैवासौ गुहामध्ये मुक्तः प्राप्तः परासुताम् ॥८॥ परस्परं सुरैतिं यावच्छऋण तच्छ्र तम् । ततो भूयोऽपि ते देवा निश्चयार्थं नियोजिताः ॥६॥ यावन्निभालयन्त्येते न पश्यन्ति तकं क्वचित् । पश्यन्तः पिच्छकान्येव परस्परमिदं जगुः ॥८७।। अन्यथा चिन्तितेऽप्यर्थे सम्पन्नं फलमन्यथा । रक्षणे चिन्तितेऽप्यस्य भक्षणे विधिरुद्यमी ॥८८|| यथाऽमुप्य तथाऽन्यस्य यदेवं कर्मणां गतिः । विषादो नोचितः कर्तुमुक्तमत्रापि केनचित् ॥९॥ चिन्तयति कार्यजातं मतिमान् मतमन्यथाविधानेन । निर्दुःखसुखस्तु विधिस्तच्चिन्तितमन्यथा कुरुते ॥९०॥ अहो ! पौरुषमप्यस्मत्प्रयुक्तं तद् वृथाऽभवत् । वृथैवैतद् विधौ वक्रे यतोऽवाचि विपश्चिता ॥११॥ छित्त्वा पाशमपास्य कूटरचनां भित्त्वा बलाद वागुरां । पर्यन्तोनशिखाकलापजटिलान्निर्गत्य दावानलात् । व्याधानां शरगोचरादपसृतो वेगेन धावन् मृगः । कूपान्तः पतितः करोतु विमुखे किं वा विधौ पौरुषम् ? ॥१२॥ यथावृत्तं समागत्य वृत्तान्तं नमुचिद्विपे । अधःपातितरूक्षाक्षा विलक्षा आचचक्षिरे ॥१३॥
१. कुक्कुटाय । २. दृदं यथा स्यात् तथा इत्यर्थः । ३. इन्द्राय ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org