________________
३०८
आख्यानकमणिकोशे
पवणखुहियनीरं नीरनाहं धरंति, झरियमयपवाहं वारणं वारयति । खरनखरकरालं केसरिं दारयंति, न उण बलजुया वी दिव्वमेतं जयंति ॥१०७॥
॥ द्विजसुतकथानकं समाप्तम् ॥१०८॥ इदानीं कुक्कुटाख्यानकमारभ्यते । तच्चेदम्
अस्ति शालीनसल्लोकलोचनानन्ददायकः । गोधूम-यव-शाल्यादिसस्यशालीनसज्जनः ॥१॥ पुष्टगोवृन्दसम्मर्दशब्दितश्रुतिसौख्यकृत् । गोप-गोपीसमारब्धरासकश्रुतिसुन्दरः ॥२॥ दुर्भिक्ष-मारि-दौगत्य-परोपद्रववर्जितः । शालिग्रामाभिधः श्रीमान् सन्निवेशो जनाकुलः ||३|| तत्रानेकगुणाधारैरुत्तमा-ऽधम-मध्यमैः । मानवनिर्मितावासैः सर्वदा सुस्थिते सति ॥४॥ विजातीयविशेषस्य सम्बन्धी कस्यचिद वरः । विद्यते व्यक्तावयचो विहङ्गः कुक्कुटायः ।।५।। बह्वपत्य-सपत्नीक-स्वबन्धुस्नेहसङ्गतः । भक्ष्यार्थ विकिरन्नुच्चैश्चञ्चू-चरणकोटिभिः ॥६॥ गोमयावकरं हर्षादशुच्यादिसमन्वितम् । विरूपं यदि वा किं नो कुर्यात् प्राणी वुभुक्षितः ? ॥७॥
तस्मिन् यल्लभते किञ्चित् कण-कीटादिकं तकत् । यच्छत्यतुच्छधीः प्रायः स्वबन्धुभ्यो महाशयः ॥८॥ उक्तं च
शीर्ष शेखरकः कुक्कुटस्य युक्तः कृतः प्रजापतिना । निजबन्धुवण्टनोद्वरितमश्नतः सत्यसन्धस्य ॥९॥ एवं निवृतचित्तस्य कुटुम्बकृतसन्निधेः । पुण्यक्षयेण यत् तस्य सञ्जातं तन्निशम्यताम् ॥१०॥ महीयान् महिषारूढो दण्डपाणिः परन्तपः । कालकायः क्रियाको रक्तनेत्रोऽतिभीषणः ॥११॥ स्वच्छन्दः सर्ववैरी च जगदुद्वेजको यमः । भ्राम्यन् कुतोऽपि पापीयांस्तं प्रदेशमुपाययौ ॥१२॥ यत्राऽऽस्ते स सुखी पक्षी बन्धुवर्गसमन्वितः । दुष्टेन पाप्मना तेन क्रूरदृष्ट्याऽवलोकितः ॥१३॥ ततो हा ! मन्दभाग्योऽहं मृतोऽहमधुनाऽमुना । निर्यातः क्रूरचित्तेन कथं जीवाम्यपुण्यकः ? ॥१४॥ क्क प्रयामि ? क तिष्ठामि ? व शयामि ? स्मरामि कम् ? । अरत्या स्वीकृतः स्वास्थ्यं नाऽऽससाद कथञ्चन ॥१५॥ एवं सम्भ्रान्तचित्तस्य सम्यक चिन्तयतश्चिरं । भयोद्विग्नमनोवृत्तेः कथञ्चिच्चेतसि स्थितम् ॥१६॥ विधुरैः स्मर्यते बन्धुरस्माकं विहगोत्तमः । वैनतेयो वरो बन्धुरतो यामि तदन्तिकम् ॥१७॥ अफलस्यापि वृक्षस्य छाया भवति शीतला । निगुणोऽपि वरं बन्धुर्यः परः पर एव सः ॥१८॥
सञ्चिन्त्यैवं स्मरन् भर्तुत्राणार्थ मृत्युसम्भ्रमात् । जगाम जगतो वयं वेगाद् बैडोजसं सदः ॥१९॥ तच्च कीदृशम् ?
क्वचिन्नीलमहानीलभास्वरे कुट्टिमे सुरः । व्रजस्तिष्ठन् जलाशङ्की सहासं विप्रतार्यते ॥२०॥ दृष्ट्वा स्फाटिकनिष्पङ्कभित्ति सङ्क्रान्तमेकतः । स्वमन्यस्त्रीकृताशङ्का भ; कान्तोपहस्यते ॥२१॥ अतीतप्राप्तनिर्वाणजिनदंष्ट्रासमन्वितम् । देवैर्माणवकस्तम्भं पूज्यमानं व्यलोकयत् ।।२२।। क्वचिच्चाभिनवोत्पन्नं सुरं स्वीयैः सुरादिभिः । जीव नन्द जयेत्येवं श्लाध्यमानं निरीक्षते ॥२३॥ अनादिनिधनं सिद्धप्रतिमाष्टोत्तरं शतम् । सिद्धायतनमध्यस्थं स्तूयमानं समीक्षते ॥२४॥ क्वचित् पुप्प-फलापतैर्मन्दारादिमहीरुहैः । मनाहरं वनं हृष्टी निशामयति नन्दनम् ॥२५॥ क्वचित् सद्रलसोपानां स्वच्छपानीयपूरिताम् । मज्जनार्थ महावापी विह्वलोऽपि विलोकते ॥२६॥ अहो ! आपदियं सम्पद् व्यसनं च महोत्सवः । यन्मयैतच्छुभं दृष्टं सौरंधामेत्यचिन्तयत् ॥२७॥
किच्च
रलरोचिष्णुसन्मौलिभ्राजिष्णुं सिंहविष्टरम् । अलङ्करिप्णुं सौराज्याजिष्णुं सर्वं जगत्त्रयम् ॥२८॥
१. निरीक्षते । २. सुराणां सम्बन्धि धाम-निवासः, स्वर्ग इत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org